१.२.०७वैश्वानराधिकरणम्।
वैश्वानर: साधारणशब्दविशेषात्।१.२.२४
स्मर्यमाणमनुमानं स्यादिति।१.२.२५
वेदान्ती –यस्याग्निरास्यं ... तस्मै लोकात्मने नम:॥इति स्मर्यते ।एतत् स्मर्यमाणं वचनमपि अत्र अनुमानं गमकं लिङ्गं स्यात् ।इति तस्मात्। वैश्वानरः परमात्मा।
पूर्वपक्ष:- ननु स्तुतिवाक्यमेतत्।
वे. –सत्यम्।तथापि असति मूलभूते वेदवाक्ये ईदृशं स्तुतिवाक्यं सम्भवति।अस्तुतिरूपा स्मृतिरपि विद्यते- ‘द्यां मूर्धानम्..सर्वभूतप्रणेता।इति।
शब्दादिभ्यः अन्त: प्रतिषठानाच्च नेति चेत् न तथादृष्ट्युपदेशात् असम्भवातपरुषमपि चैनमधीयते। ।१.२.२६
पू.- वैश्वानरः; गार्हपत्यःइति एतेभ्य: शब्देभ्य: वैश्वानरशब्द: अर्थान्तरे रूढः, न परमेश्वरे।अत: अत्र वैश्वानरशब्देन जाठराग्नि: प्रत्येतव्य:।
अन्त:प्रतिष्ठानमपि (पुरुषेऽन्त:प्रतिष्ठितं वेद) जाठराग्ने: सम्भवति।
वे. मूर्धैव सुतेजाः इत्यादेर्विशेषात्कारणात् परमात्मा वैश्वानर: , न जाठराग्नि:।
पू.- यदि परमेश्वरपक्षे द्युमूर्धत्वादिरूपं विशेषं कारणमस्ति तर्हि जाठराग्निपक्षेऽपि विशेषं कारणमस्ति – अन्त:प्रतिष्ठानम्।परमेश्वरपक्षपाती विशेष एव आदरणीय: इति किमर्थम्?
वे.- शब्दादिभ्य: (वैश्वानर: गार्हपत्य:) कारणेभ्य: परमेश्वरस्य प्रत्याख्यानं न युक्तम् ।तथा दृष्ट्युपदेशात्।अत्र जाठरापरित्यागेन जाठरे परमेश्वरदृष्टि: उपदिश्यते यथा मनो ब्रह्मेत्युपासीत(छा.३.१८.१) अथवा
जाठरवैश्वानरोपाधि: परमेश्वरोऽत्र द्रष्टव्यः मनोमयः प्राणशरीरो भारूप: (छा.३.१४.२) इतिवत्।
२ यद्यत्र परमेश्वरो न विवक्ष्येत जाठराग्निरेव विवक्ष्येत, ततो ‘मूर्धैव सुतेजा: इति विशेषस्यासम्भवः स्यात्
३ यद्यत्र परमेश्वरो न विवक्ष्येत जाठराग्निरेव विवक्ष्येत, तत: तस्य पुरुषशब्देन वचनं न स्यात् – ‘वैश्वानरं परुषविधं पुरुषेऽन्त:प्रतिष्ठितं वेद’(श.ब्रा.१०.६.१.११)
पू.- ननु पुरुष: पुरुषान्त:प्रतिष्ठित: इति असाधु।
वे.- न असाधु, पुरुषस्य सर्वात्मकत्वात्।
अत एव न देवता भूतं च।१.२.२७
साक्षादप्यविरोधं जैमिनि:।१.२.२८
अभिव्यक्तेरित्याश्मरथ्य:।१.२.२९
अनुस्मृतेर्बादरि:।१.२.३०
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति।१.२.३१
आमनन्ति चैनमस्मिन् ।१.२.३२
पू.- वैश्वानर इत्यत्र भूताग्नि: निर्दिष्ट: मन्तव्य:।तस्यापि द्युलोकसम्बन्धात्-ॠ.सं १०.८८.३।
वे.- १ न भूताग्ने: औष्ण्यप्रकाशात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मकत्वासम्भवात्।
२ सर्वलोकफलभाक्त्वं भूताग्ने: न सम्भवति।
३ सर्वपाप्मप्रदाह: भूताग्ने: न सम्भवति।
४ आत्म-ब्रह्मशब्दाभ्यामुपक्रमः भूताग्ने: न सम्भवति।
पू.- तर्हि वैश्वानर इत्यत्र अग्निदेवता निर्दिष्टा मन्तव्या।तस्या: ऐश्वर्ययोगाद् द्युलोकाद्यवयवत्वं सम्भवति।
वे.- न,यतो हि -
१ तस्या: ऐश्वर्यं परमेश्वराधीनम्
२ सर्वलोकफलभाक्त्वं अग्निदेवताया: न सम्भवति।
३ सर्वपाप्मप्रदाह: अग्निदेवताया: न सम्भवति।
४ आत्म-ब्रह्मशब्दाभ्यामुपक्रमः अग्निदेवताया: न सम्भवति।
॥इति प्रथमाध्याये द्वितीय: पाद:॥
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये द्वितीय: पाद: