२०समाप्तविद्येन...

विकिपुस्तकानि तः

मूलम्
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।स मे चिरायास्खलितोपचारां तां भक्तिं एवागणयत्पुरस्ताथ्।।५.२०। ।

पदच्छेदः
समाप्तविद्येन मया महर्षिः विज्ञापितः अभूद् गुरुदक्षिणायै।सः मे चिराय अस्खलित–उपचारां तां मे भक्तिम् एव पुरस्तात् अगणयत्॥२०॥

अन्वयः
समाप्तविद्येन मया महर्षिः गुरुदक्षिणायै विज्ञापितः अभूद्।सः चिराय अस्खलित–उपचारां तां मे भक्तिम् एव पुरस्तात् अगणयत्।२०

सरलार्थः
येन विद्याध्ययनं पूर्णं कृतं तादृशेन मया वरतन्तुः गुरुदक्षिणास्विकारार्थं प्रार्थितः आसित्।सः दीर्घकालं निरन्तरं–सेवायुतां तां मम भक्ति भावम् एव प्रथमं(दक्षिणाःपेण) गणितवान्।२०

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२०समाप्तविद्येन...&oldid=6045" इत्यस्माद् प्रतिप्राप्तम्