२२ सोऽहं सपर्या...

विकिपुस्तकानि तः

मूलम्
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषं ।अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य। । ५.२२ । ।

पदच्छेदः
सः अहं सपर्या–विधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम्।अभ्युत्सहे सम्प्रति न उपरोद्धम् अल्पेतरत्वात् श्रुतनिष्कयस्य॥२२॥

अन्वयः
सः अहं सपर्या–विधिभाजनेन भवन्तं प्रभुशब्दशेषम् मत्वा,विद्यामूल्यस्य बहुत्वात् इदानीं रोधयितुं न इच्छामि।२२

सरलार्थः
सः अहम् अर्घ्यपात्रेण भवतः प्रभुः इति शब्दः एव अवशिष्टः अस्ति इति मत्वा, श्रुतनिष्कयस्य अल्पेतरत्वात् सम्प्रति उपरोद्धुं न अभ्युत्सहे।२२

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२२_सोऽहं_सपर्या...&oldid=6048" इत्यस्माद् प्रतिप्राप्तम्