२४ गुर्वर्थमर्थी...

विकिपुस्तकानि तः

मूलम्
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामं ।गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः । । ५.२४ । ।

पदच्छेदः
गुर्वर्थम् अर्थी श्रुत–पारदृश्वा रघोः सकाशाद् अनवाप्य कामम्। गतः वदान्य–अन्तरम् इति अयं मे भूत परीवाद–नवावतारः॥२४॥

अन्वयः
श्रुत–पारदृश्वा, गुर्वर्थम् अर्थी, रघोः सकाशाद् कामम् अनवाप्य, वदान्य–अन्तरं गतः इति अयं परीवाद–नवावतारः मे मा भूत्।२४

सरलार्थः
ज्ञाने पारङ्गतः गुरुदक्षिणार्थं याचकः रघोः समीपात् मनोरथम् अप्राप्य अन्यं दातारं प्रति गतः इति एषः अपवादस्य नवीनं निर्माणं मम (विषये) न भवेत्।२४

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२४_गुर्वर्थमर्थी...&oldid=6050" इत्यस्माद् प्रतिप्राप्तम्