२५ स त्वं प्रशस्ते...

विकिपुस्तकानि तः

मूलम्
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ।द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थं । । ५.२५।।

पदच्छेदः
सः त्वं प्रशस्ते महिते मदिये वसन् चतुर्थः अग्निः इव अग्नि–अगारे।द्वित्राणि अहानि अर्हसि सोढुम् अर्हन् यावद् यते साधयितुं त्वदर्थम्॥२५॥

अन्वयः
सः त्वं प्रशस्ते महिते मदिये अग्नि–अगारे चतुर्थः अग्निः इव वसन् द्वित्राणि अहानि सोढुम् अर्हसि। हे अर्हन्, यावद् त्वदर्थं साधयितुं यते।२५

सरलार्थः
सः त्वं प्रसिद्धे,पूजिते,मम अग्निशालायां चतुर्थः अग्निः इव वसन् द्वे त्रिणि वा दिनानि सोढुम् अर्हसि हे मान्यवर,यावत्लं तव कार्यं साधयितुं प्रयत्नं करिष्ये।२५

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२५_स_त्वं_प्रशस्ते...&oldid=6051" इत्यस्माद् प्रतिप्राप्तम्