२७ वसिष्ठमन्त्रोक्षण...

विकिपुस्तकानि तः

मूलम्
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य । । ५.२७ । ।

पदच्छेदः
वसिष्ठमन्त्र–उक्षणजात् प्रभावात् उदन्वत्–आकाशमहीधरेषु।मरुत्सखस्य इव बलाहकस्य गतिः विजघ्ने न हि तद्–रथस्य॥२७॥

अन्वयः
वसिष्ठमन्त्र–उक्षणजात् प्रभावात् उदन्वत्–आकाश–महीधरेषु।मरुत्सखस्य बलाहकस्य इव तद्–रथस्य गतिः न हि विजघ्ने ॥२७॥

सरलार्थः
वसिष्ठस्य मन्त्रोक्षणस्य सामर्थ्यात् सागरे,आकाशे पर्वतेषु वा, वायुमित्रस्य मेघस्य इव तस्य रथस्य गतिः न रुद्धा॥॥२७॥

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः