३० तं भूपतिर्भासुर...

विकिपुस्तकानि तः

मूलम्
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् । । ५.३० । ।

पदच्छेदः
तं भूपतिः भासुरहेमराशिं लब्धं कुबेरात् अभियास्यमानात्।दिदेश कौत्साय समस्तम् एव पादं सुमेरोः इव वज्रभिन्नम्॥३०॥

अन्वयः
भूपतिः अभियास्यमानात् कुबेरात् लब्धं, सुमेरोः वज्रभिन्नं पादम् इव तं भासुरहेमराशिं समस्तम् एव कौत्साय दिदेश ॥३०॥

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=३०_तं_भूपतिर्भासुर...&oldid=6056" इत्यस्माद् प्रतिप्राप्तम्