३ अध्याय 03 पदच्छेद-अन्वयार्थसहित:।
दिखावट
अध्याय 03
[सम्पाद्यताम्]मासैर् द्वि-संख्यैर् माघाद्यैः क्रमात् षड् ऋतवः स्मृताः ।
शिशिरोऽथ वसन्तश्च च ग्रीष्मवर्षा-शरद्-हिमाः ॥ १ ॥
पदच्छेद:-
मासै: द्वि-संख्यै: माघाद्यैः क्रमात् षड् ऋतवः स्मृताः ।
शिशिर: अथ वसन्त: च ग्रीष्म-वर्षा-शरद्-हिमाः ॥ १ ॥
आदानं च तद् आदत्ते नृणां प्रति-दिनं बलम् ॥ २ ॥
पदच्छेद:- शिशिर-आद्यै: त्रिभि: तै: तु विद्याद् अयनम् उत्तरम् ।
आदानं च तद् आदत्ते नृणां प्रति-दिनं बलम् ॥ २ ॥
अन्वय: अन्वयार्थ: शिशिर-आद्यै: तै:त्रिभि: तु शिशिराद् आरभ्य तै: त्रिभि: ऋतुभि: (शिशिरवसन्तग्रीष्मै:) तु उत्तरम् अयनम् विद्याद् । उत्तरम् अयनम् भवति इति ज्ञातव्यम्। तद् आदानं च, तद् उत्तरम् अयनम् ,आदानं च भवति। प्रति-दिनं नृणां बलम् आदत्ते यत: तत् प्रति-दिनं मनुष्याणां बलम् आहरति। तस्मिन् ह्य् अत्य्-अर्थ-तीक्ष्णोष्ण-रूक्षा मार्ग-स्वभावतः ।
आदित्य-पवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ ३ ॥
पदच्छेद:- तस्मिन् हि अति-अर्थ-तीक्ष्ण-उष्ण-रूक्षा: मार्ग-स्वभावतः ।
आदित्य-पवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ ३ ॥
अन्वय: अन्वयार्थ: हि तस्मिन् यत: तस्मिन् उत्तरायणे मार्ग-स्वभावतः अति-अर्थ-तीक्ष्ण-उष्ण-रूक्षा: आदित्य-पवनाः उत्तरमार्गस्य स्वभाव-वशात् अतिमात्रं तीक्ष्ण-उष्ण-रूक्ष: सूर्य: तथा अतिमात्रं तीक्ष्ण-उष्ण-रूक्षा: वातप्रवाहा: भुवः सौम्यान् गुणान् क्षपयन्ति।३ पृथिव्या: सौम्यान् गुणान् न्यूनीकुर्वन्ति।३ तिक्तः कषायः कटुको बलिनो ऽत्र रसाः क्रमात् ।
तस्माद् आदानम् आग्नेयम् ऋतवो दक्षिणायनम् ॥ ४ ॥
पदच्छेद:- तिक्तः कषायः कटुक: बलिन: अत्र रसाः क्रमात् । तस्माद् आदानम् आग्नेयम् ऋतव: दक्षिणायनम् ॥ ४ ॥ अन्वय: अन्वयार्थ: अत्र क्रमात् तिक्तः कषायः कटुक: (इति) रसाः बलिन: उत्तरायणे शिशिरे वसन्ते कषाय:, ग्रीष्मे च कटुरस: बलवान् भवति। तस्माद् आदानम् आग्नेयं (भवति)। अत: आदानकाल: अग्निगुणप्रचुर: भवति। वर्षादयो विसर्गश् च यद् बलं विसृजत्य् अयम् ।
सौम्य-त्वाद् अत्र सोमो हि बल-वान् हीयते रविः ॥ ५ ॥
पदच्छेद:- वर्षादय: विसर्ग: च यद् बलं विसृजति अयम् ।
सौम्यत्वाद् अत्र सोम: हि बलवान् हीयते रविः ॥ ५ ॥
अन्वय: अन्वयार्थ: वर्षादय: ऋतव: दक्षिणायनम् (इति उच्यते।) वर्षा-शरद्-हेमन्ता: इति त्रय: ऋतव: दक्षिणायनम् (इति उच्यते।) (वर्षादय: ऋतव: ) विसर्ग: च उच्यन्ते यद् अयं बलं विसृजति वर्षा शरद् हेमन्त: इति त्रय: ऋतव: विसर्ग: च उच्यन्ते यद् अयं काल: बलं वितरति। हि सौम्यत्वाद् अत्र सोम: बलवान्, रविः हीयते। यस्मात् सौम्यत्वाद् अत्र सोम: बलवान् भवति, रविः दुर्बल: भवति। मेघ-वृष्ट्य्-अनिलैः शीतैः शान्त-तापे मही-तले ।
स्निग्धाश् चेहाम्ल-लवण-मधुरा बलिनो रसाः ॥ ६ ॥
पदच्छेद:- मेघ-वृष्टि-अनिलैः शीतैः शान्त-तापे मही-तले ।
स्निग्धा: च इह अम्ल-लवण-मधुरा: बलिन: रसाः ॥ ६ ॥
अन्वय: अन्वयार्थ: शीतैः मेघ-वृष्टि-अनिलैः शान्त-तापे मही-तले । शीतैः मेघ-वृष्टि-अनिलैः यदा पृथ्व्या: ताप: शान्त: भवति। इह च अम्ल-लवण-मधुरा: स्निग्धा: रसाः बलिन: भवन्ति। तदा अस्मिन् विसर्गकाले च अम्ल-लवण-मधुरा: स्निग्धा: रसाः बलिन: भवन्ति। शीते ऽग्र्यं वृष्टि-घर्मे ऽल्पं बलं मध्यं तु शेषयोः ।
पदच्छेद:- शीते अग्र्यं वृष्टि-घर्मे अल्पं बलं मध्यं तु शेषयोः ।
अन्वय: अन्वयार्थ: बलं शीते अग्र्यं, देहस्य बलं हेमन्त-शिशिरयो: उत्तमं भवति, वृष्टि-घर्मे अल्पं, ग्रीष्मे वर्षासु अल्पं भवति, शेषयोः तु मध्यं (भवति।) शरद्वसन्तयो: तु मध्यं भवति। बलिनः शीत-संरोधाद् धेमन्ते प्रबलो ऽनलः ॥ ७ ॥
भवत्य् अल्पेन्धनो धातून् स पचेद् वायुनेरितः ।
अतो हिमे ऽस्मिन् सेवेत स्वाद्व्-अम्ल-लवणान् रसान् ॥ ८ ॥
पदच्छेद:- बलिनः शीत-संरोधाद् हेमन्ते प्रबल: अनलः ॥ ७ ॥
भवति अल्प-इन्धन: धातून् स: पचेद् वायुना ईरितः ।
अत: हिमे अस्मिन् सेवेत स्वादु-अम्ल-लवणान् रसान् ॥ ८ ॥
अन्वय: अन्वयार्थ: हेमन्ते बलिनः शीत-संरोधाद् अनलः प्रबल: (भवति)। हेमन्ते बलिनः मनुष्यस्य शैत्येन स्रोतोरोधाद् अग्नि: प्रबल: (भवति)। वायुना ईरितः अल्प-इन्धन: स: धातून् पचेद् । वायुना सन्धुक्षित: (तथा च ) अल्प-आहारं लभमान: स: (अग्नि:)धातून् पचेद् । अत: अस्मिन् हिमे स्वादु-अम्ल-लवणान् रसान् सेवेत ॥ ८ अत: अस्मिन् हेमन्ते स्वादु-अम्ल-लवणान् रसान् सेवेत ॥ ८ दैर्घ्यान् निशानाम् एतर्हि प्रातर् एव बुभुक्षितः ।अवश्य-कार्यं संभाव्य यथोक्तं शीलयेद् अनु ॥ ९ ॥
पदच्छेद:- दैर्घ्यात् निशानाम् एतर्हि प्रातर् एव बुभुक्षितः ।अवश्य-कार्यं संभाव्य यथा-उक्तं शीलयेद् अनु ॥ ९ ॥
वात-घ्न-तैलैर् अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् ।नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः ॥ १० ॥
पदच्छेद:- वातघ्नतैलै: अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् ।नियुद्धं कुशलैः सार्धं पाद-आघातं च युक्तितः ॥ १० ॥ ३.१०bv मूर्ध-तैलं विमर्दनम्
कषायापहृत-स्नेहस् ततः स्नातो यथा-विधि ।कुङ्कुमेन स-दर्पेण प्रदिग्धो ऽगुरु-धूपितः ॥ ११ ॥
पदच्छेद:- कषाय-अपहृत-स्नेह: ततः स्नात: यथा-विधि । कुङ्कुमेन सदर्पेण प्रदिग्ध: अगुरु-धूपितः ॥ ११
रसान् स्निग्धान् पलं पुष्टं गौडम् अच्छ-सुरां सुराम् ।गोधूम-पिष्ट-माषेक्षु-क्षीरोत्थ-विकृतीः शुभाः ॥ १२ ॥
पदच्छेद:- रसान् स्निग्धान् पलं पुष्टं गौडम् अच्छ-सुरां सुराम् ।गोधूम-पिष्ट-माष-इक्षु-क्षीर-उत्थ-विकृतीः शुभाः ॥ १२ ॥
नवम् अन्नं वसां तैलं शौच-कार्ये सुखोदकम् ।प्रावाराजिन-कौशेय-प्रवेणी-कौचवास्तृतम् ॥ १३ ॥
पदच्छेद:- नवम् अन्नं वसां तैलं शौच-कार्ये सुख-उदकम् ।प्रावार-अजिन-कौशेय-प्रवेणी-कौचवास्तृतम् ॥ १३ ॥३.१३dv -प्रवेणी-कुथकास्तृतम्
उष्ण-स्व-भावैर् लघुभिः प्रावृतः शयनं भजेत् ।युक्त्यार्क-किरणान् स्वेदं पाद-त्राणं च सर्व-दा ॥ १४ ॥
पदच्छेद:- उष्ण-स्वभावै: लघुभिः प्रावृतः शयनं भजेत् ।युक्त्या अर्क-किरणान् स्वेदं पादत्राणं च सर्वदा ॥ १४ ॥
पीवरोरु-स्तन-श्रोण्यः स-मदाः प्रमदाः प्रियाः ।
हरन्ति शीतम् उष्णाङ्ग्यो धूप-कुङ्कुम-यौवनैः ॥ १५ ॥
पदच्छेद:- पीवर-ऊरु-स्तन-श्रोण्यः समदाः प्रमदाः प्रियाः ।
हरन्ति शीतम् उष्णाङ्ग्य: धूप-कुङ्कुम-यौवनैः ॥ १५ ॥
अङ्गार-ताप-संतप्त-गर्भ-भू-वेश्म-चारिणः ।
शीत-पारुष्य-जनितो न दोषो जातु जायते ॥ १६ ॥
पदच्छेद:- अङ्गार-ताप-संतप्त-गर्भ-भू-वेश्म-चारिणः ।
शीत-पारुष्य-जनित: न दोष: जातु जायते ॥ १६ ॥
अयम् एव विधिः कार्यः शिशिरे ऽपि विशेषतः ।
तदा हि शीतम् अधिकं रौक्ष्यं चादान-काल-जम् ॥ १७ ॥
पदच्छेद:- अयम् एव विधिः कार्यः शिशिरे अपि विशेषतः ।
तदा हि शीतम् अधिकं रौक्ष्यं च आदानकालजम् ॥ १७ ॥
कफश् चितो हि शिशिरे वसन्ते ऽर्कांशु-तापितः ।
हत्वाग्निं कुरुते रोगान् अतस् तं त्वरया त्यजेत् ॥ १८ ॥
पदच्छेद:- कफ: चित: हि शिशिरे वसन्ते अर्क-अंशु-तापितः ।
हत्वा अग्निं कुरुते रोगान् अत: तं त्वरया त्यजेत् ॥ १८ ॥
तीक्ष्णैर् वमन-नस्याद्यैर् लघु-रूक्षैश् च भोजनैः ।
व्यायामोद्वर्तनाघातैर् जित्वा श्लेष्माणम् उल्बणम् ॥ १९ ॥
पदच्छेद:- तीक्ष्णै: वमन-नस्य-आद्यै: लघुरूक्षै: च च भोजनैः ।
व्यायाम-उद्वर्तन-आघातै: जित्वा श्लेष्माणम् उल्बणम् ॥ १९ ॥
स्नातो ऽनुलिप्तः कर्पूर-चन्दनागुरु-कुङ्कुमैः ।
पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक् ॥ २० ॥
पदच्छेद:- स्नात: अनुलिप्तः कर्पूर-चन्दन-अगुरु-कुङ्कुमैः ।
पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक् ॥ २० ॥
सहकार-रसोन्मिश्रान् आस्वाद्य प्रिययार्पितान् ।
प्रियास्य-सङ्ग-सुरभीन् प्रिया-नेत्रोत्पलाङ्कितान् ॥ २१ ॥
पदच्छेद:- सहकार-रस-उन्मिश्रान् आस्वाद्य प्रियया अर्पितान् ।
प्रिया-आस्य-सङ्ग-सुरभीन् प्रिया-नेत्र-उत्पल-अङ्कितान् ॥ २१ ॥
सौमनस्य-कृतो हृद्यान् वयस्यैः सहितः पिबेत् ।
निर्गदान् आसवारिष्ट-सीधु-मार्द्वीक-माधवान् ॥ २२ ॥
पदच्छेद:- सौमनस्य-कृतो हृद्यान् वयस्यैः सहितः पिबेत् ।
निर्गदान् आसव-अरिष्ट-सीधु-मार्द्वीक-माधवान् ॥ २२ शृङ्गवेराम्बु साराम्बु मध्व्-अम्बु जलदाम्बु च ।
दक्षिणानिल-शीतेषु परितो जल-वाहिषु ॥ २३ ॥
पदच्छेद:- शृङ्गवेर-अम्बु सार-अम्बु मधु-अम्बु जलद-अम्बु च ।
दक्षिण-अनिल-शीतेषु परित: जल-वाहिषु ॥ २३ ॥
३.२३bv मध्व्-अम्बु जलदाम्बु वा अ-दृष्ट-नष्ट-सूर्येषु मणि-कुट्टिम-कान्तिषु ।
परपुष्ट-विघुष्टेषु काम-कर्मान्त-भूमिषु ॥ २४ ॥
पदच्छेद:- अ-दृष्ट-नष्ट-सूर्येषु मणि-कुट्टिम-कान्तिषु ।
परपुष्ट-विघुष्टेषु काम-कर्मान्त-भूमिषु ॥ २४ ॥
३.२४av अ-दृष्टा-नष्ट-सूर्येषु विचित्र-पुष्प-वृक्षेषु काननेषु सु-गन्धिषु ।
गोष्ठी-कथाभिश् चित्राभिर् मध्याह्नं गमयेत् सुखी ॥ २५ ॥
पदच्छेद:- विचित्र-पुष्प-वृक्षेषु काननेषु सुगन्धिषु ।
गोष्ठी-कथाभि: चित्राभि: मध्याह्नं गमयेत् सुखी ॥ २५ ॥
गुरु-शीत-दिवा-स्वप्न-स्निग्धाम्ल-मधुरांस् त्यजेत् ।
तीक्ष्णांशुर् अति-तीक्ष्णांशुर् ग्रीष्मे संक्षिपतीव यत् ॥ २६ ॥
पदच्छेद:- गुरु-शीत-दिवा-स्वप्न-स्निग्ध-अम्ल-मधुरान् त्यजेत् ।
तीक्ष्ण-अंशु: अति-तीक्ष्ण-अंशु: ग्रीष्मे संक्षिपति इव यत् ॥ २६ ॥
३.२६cv स्नेहम् अर्को ऽति-तीक्ष्णांशुर् प्रत्य्-अहं क्षीयते श्लेष्मा तेन वायुश् च वर्धते ।
अतो ऽस्मिन् पटु-कट्व्-अम्ल-व्यायामार्क-करांस् त्यजेत् ॥ २७ ॥
पदच्छेद:- प्रति-अहं क्षीयते श्लेष्मा तेन वायु: च वर्धते ।
अत: अस्मिन् पटु-कटु-अम्ल-व्यायाम-अर्क-करान् त्यजेत् ॥ २७ ॥
भजेन् मधुरम् एवान्नं लघु स्निग्धं हिमं द्रवम् ।
सु-शीत-तोय-सिक्ताङ्गो लिह्यात् सक्तून् स-शर्करान् ॥ २८ ॥
पदच्छेद:- भजेत् मधुरम् एव अन्नं लघु स्निग्धं हिमं द्रवम् ।
सुशीततोयसिक्त-अङ्ग: लिह्यात् सक्तून् सशर्करान् ॥ २८ ॥
मद्यं न पेयं पेयं वा स्व्-अल्पं सु-बहु-वारि वा ।
अन्य-था शोष-शैथिल्य-दाह-मोहान् करोति तत् ॥ २९ ॥
पदच्छेद:- मद्यं न पेयं पेयं वा सु-अल्पं सु-बहु-वारि वा ।
अन्यथा शोष-शैथिल्य-दाह-मोहान् करोति तत् ॥ २९ ॥
३.२९cv अन्य-था शोफ-शैथिल्य- कुन्देन्दु-धवलं शालिम् अश्नीयाज् जाङ्गलैः पलैः ।
पिबेद् रसं नाति-घनं रसालां राग-खाण्डवौ ॥ ३० ॥
पदच्छेद:- कुन्द-इन्दु-धवलं शालिम् अश्नीयात् जाङ्गलैः पलैः ।
पिबेद् रसं न-अति-घनं रसालां राग-खाण्डवौ ॥ ३० ॥
३.३०av कुन्देन्दु-धवलाञ् छालीन् ३.३०dv रसालां राग-खाडवौ ३.३०dv रसालां राग-षाडवौ पानकं पञ्च-सारं वा नव-मृद्-भाजने स्थितम् ।
मोच-चोच-दलैर् युक्तं साम्लं मृन्-मय-शुक्तिभिः ॥ ३१ ॥
पदच्छेद:- पानकं पञ्चसारं वा नव-मृद्-भाजने स्थितम् ।
मोच-चोच-दलै: युक्तं स-अम्लं मृन्मय-शुक्तिभिः ॥ ३१ ॥
३.३१bv नव-मृद्-भाजन-स्थितम् पाटला-वासितं चाम्भः स-कर्पूरं सु-शीतलम् ।
शशाङ्क-किरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥ ३२ ॥
पदच्छेद:- पाटला-वासितं च अम्भः सकर्पूरं सुशीतलम् ।
शशाङ्क-किरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥ ३२ ॥
ससितं माहिषं क्षीरं चन्द्र-नक्षत्र-शीतलम् ।
अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु ॥ ३३ ॥
पदच्छेद:- ससितं माहिषं क्षीरं चन्द्र-नक्षत्र-शीतलम् ।
अभ्रङ्कषमहाशालतालरुद्ध-उष्णरश्मिषु ॥ ३३ ॥
वनेषु माधवी-श्लिष्ट-द्राक्षा-स्तबक-शालिषु ।
सु-गन्धि-हिम-पानीय-सिच्यमान-पटालिके ॥ ३४ ॥
पदच्छेद:- वनेषु माधवी-श्लिष्ट-द्राक्षा-स्तबक-शालिषु ।
सुगन्धि-हिम-पानीय-सिच्यमान-पटालिके ॥ ३४ ॥
कायमाने चिते चूत-प्रवाल-फल-लुम्बिभिः ।
कदली-दल-कह्लार-मृणाल-कमलोत्पलैः ॥ ३५ ॥
पदच्छेद:- कायमाने चिते चूत-प्रवाल-फल-लुम्बिभिः ।
कदली-दल-कह्लारमृणाल-कमलोत्पलैः ॥ ३५ ॥
कोमलैः कल्पिते तल्पे हसत्-कुसुम-पल्लवे ।
मध्यन्-दिने ऽर्क-तापार्तः स्वप्याद् धारा-गृहे ऽथ-वा ॥ ३६ ॥
पदच्छेद:- कोमलैः कल्पिते तल्पे हसत्-कुसुम-पल्लवे ।
मध्यन्-दिने अर्क-ताप-आर्तः स्वप्याद् धारा-गृहे अथवा ॥ ३६ ॥
पुस्त-स्त्री-स्तन-हस्तास्य-प्रवृत्तोशीर-वारिणि ।
निशा-कर-कराकीर्णे सौध-पृष्ठे निशासु च ॥ ३७ ॥
पदच्छेद:- पुस्त-स्त्री-स्तन-हस्त-आस्य-प्रवृत्त-उशीर-वारिणि ।
निशा-कर-कर-आकीर्णे सौध-पृष्ठे निशासु च ॥ ३७ ॥
आसना स्वस्थ-चित्तस्य चन्दनार्द्रस्य मालिनः ।
निवृत्त-काम-तन्त्रस्य सु-सूक्ष्म-तनु-वाससः ॥ ३८ ॥
पदच्छेद:- आसना स्वस्थ-चित्तस्य चन्दन-आर्द्रस्य मालिनः ।
निवृत्त-काम-तन्त्रस्य सु-सूक्ष्म-तनु-वाससः ॥ ३८ ॥
जलार्द्रास् ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः ।
उत्क्षेपाश् च मृदूत्क्षेपा जल-वर्षि-हिमानिलाः ॥ ३९ ॥
पदच्छेद:- जलार्द्रा: ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः ।
उत्क्षेपा: च मृदु-उत्क्षेपा जल-वर्षि-हिम-अनिलाः ॥ ३९ ॥
कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः ।
मनो-हर-कलालापाः शिशवः सारिकाः शुकाः ॥ ४० ॥
पदच्छेद:- कर्पूर-मल्लिका-माला: हाराः स-हरि-चन्दनाः ।
मनो-हर-कल-आलापाः शिशवः सारिकाः शुकाः ॥ ४० ॥
मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमलोज्ज्वलाः ।
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥ ४१ ॥
पदच्छेद:- मृणाल-वलयाः कान्ताः प्र-उत्फुल्ल-कमल-उज्ज्वलाः ।
जङ्गमा इव पद्मिन्य: हरन्ति दयिताः क्लमम् ॥ ४१ ॥
आदान-ग्लान-वपुषाम् अग्निः सन्नो ऽपि सीदति ।
वर्षासु दोषैर् दुष्यन्ति ते ऽम्बु-लम्बाम्बु-दे ऽम्बरे ॥ ४२ ॥
पदच्छेद:- आदान-ग्लान-वपुषाम् अग्निः सन्न: अपि सीदति ।
वर्षासु दोषै: दुष्यन्ति ते अम्बु-लम्ब-अम्बुदे अम्बरे ॥ ४२ ॥
३.४२av आदान-म्लान-वपुषाम् स-तुषारेण मरुता सहसा शीतलेन च ।
भू-बाष्पेणाम्ल-पाकेन मलिनेन च वारिणा ॥ ४३ ॥
पदच्छेद:- स-तुषारेण मरुता सहसा शीतलेन च ।
भू-बाष्पेण अम्ल-पाकेन मलिनेन च वारिणा ॥ ४३ ॥
वह्निनैव च मन्देन तेष्व् इत्य् अन्यो-ऽन्य-दूषिषु ।
भजेत् साधारणं सर्वम् ऊष्मणस् तेजनं च यत् ॥ ४४ ॥
पदच्छेद:- वह्निना इव च मन्देन तेषु इति अन्योऽन्य-दूषिषु ।
भजेत् साधारणं सर्वम् ऊष्मण: तेजनं च यत् ॥ ४४ ॥
आस्थापनं शुद्ध-तनुर् जीर्णं धान्यं रसान् कृतान् ।
जाङ्गलं पिशितं यूषान् मध्व्-अरिष्टं चिरन्-तनम् ॥ ४५ ॥
पदच्छेद:- आस्थापनं शुद्ध-तनुर: जीर्णं धान्यं रसान् कृतान् ।
जाङ्गलं पिशितं यूषान् मधु-अरिष्टं चिरन्तनम् ॥ ४५ ॥
मस्तु सौवर्चलाढ्यं वा पञ्च-कोलावचूर्णितम् ।
दिव्यं कौपं शृतं चाम्भो भोजनं त्व् अति-दुर्-दिने ॥ ४६ ॥
पदच्छेद:- मस्तु सौवर्चल-आढ्यं वा पञ्च-कोल-अवचूर्णितम् ।
दिव्यं कौपं शृतं च अम्भ: भोजनं तु अति-दुर्-दिने ॥ ४६ ॥
३.४६av मस्तु सौवर्चलाढ्यं च व्यक्ताम्ल-लवण-स्नेहं संशुष्कं क्षौद्र-वल् लघु ।
अ-पाद-चारी सुरभिः सततं धूपिताम्बरः ॥ ४७ ॥
पदच्छेद:- व्यक्त-अम्ल-लवण-स्नेहं संशुष्कं क्षौद्रवत् लघु ।
अ-पाद-चारी सुरभिः सततं धूपित-अम्बरः ॥ ४७ ॥
हर्म्य-पृष्ठे वसेद् बाष्प-शीत-सीकर-वर्जिते ।
नदी-जलोद-मन्थाहः-स्वप्नायासातपांश् त्यजेत् ॥ ४८ ॥
पदच्छेद:- हर्म्य-पृष्ठे वसेद् बाष्प-शीत-सीकर-वर्जिते ।
नदीजल-उदमन्थ-अहः-स्वप्न-आयास-आतपान् त्यजेत् ॥ ४८ ॥
वर्षा-शीतोचिताङ्गानां सहसैवार्क-रश्मिभिः ।
तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ ४९ ॥
पदच्छेद:- वर्षा-शीत-उचित-अङ्गानां सहसा एव अर्क-रश्मिभिः ।
तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ ४९ ॥
तज्-जयाय घृतं तिक्तं विरेको रक्त-मोक्षणम् ।
तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥ ५० ॥
पदच्छेद:- तत्-जयाय घृतं तिक्तं विरेक: रक्त-मोक्षणम् ।
तिक्तं स्वादु कषायं च क्षुधित: अन्नं भजेत् लघु ॥ ५० ॥
शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् ।
तप्तं तप्तांशु-किरणैः शीतं शीतांशु-रश्मिभिः ॥ ५१ ॥
पदच्छेद:- शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् ।
तप्तं तप्त-अंशु-किरणैः शीतं शीत-अंशु-रश्मिभिः ॥ ५१ ॥
पदच्छेद:- समन्ताद् अपि अहो-रात्रम् अगस्ति-उदय-निर्-विषम् ।
शुचि हंस-उदकं नाम निर्-मलं मल-जित् जलम् ॥ ५२ ॥
नाभिष्यन्दि न वा रूक्षं पानादिष्व् अमृतोपमम् ।
चन्दनोशीर-कर्पूर-मुक्ता-स्रग्-वसनोज्ज्वलः ॥ ५३ ॥
पदच्छेद:- न अभिष्यन्दि न वा रूक्षं पानादिषु अमृत-उपमम् ।
चन्दन-उशीर-कर्पूर-मुक्ता-स्रग्-वसन-उज्ज्वलः ॥ ५३ ॥
सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे ।
तुषार-क्षार-सौहित्य-दधि-तैल-वसातपान् ॥ ५४ ॥
पदच्छेद:- सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे ।
तुषार-क्षार-सौहित्य-दधि-तैल-वसा-आतपान् ॥ ५४ ॥
तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् ।
शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥ ५५ ॥
पदच्छेद:- तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् ।
शीते वर्षासु चाद्यान् त्रीन् वसन्ते अन्त्यान् रसान् भजेत् ॥ ५५ ॥
स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् ।
शरद्-वसन्तयो रूक्षं शीतं घर्म-घनान्तयोः ॥ ५६ ॥
पदच्छेद:- स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् ।
शरद्-वसन्तयो: रूक्षं शीतं घर्म-घन-अन्तयोः ॥ ५६ ॥
अन्न-पानं समासेन विपरीतम् अतो ऽन्य-दा ।
नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥ ५७ ॥
पदच्छेद:- अन्न-पानं समासेन विपरीतम् अत: अन्य-दा ।
नित्यं सर्व-रस-अभ्यासः स्व-स्व-आधिक्यम् ऋतौ ऋतौ ॥ ५७ ॥
ऋत्वो अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः ।
तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥ ५८ ॥
पदच्छेद:- ऋत्वो: अन्त्य-आदि-सप्ताहौ ऋतु-संधि: इति स्मृतः ।
तत्र पूर्व: विधि: त्याज्यः सेवनीय: अपरः क्रमात् ॥ ५८ ॥
३.५८av ऋत्वोर् अन्त्यादि-सप्ताहाद् अ-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥ ५८ऊ̆ ॥
पदच्छेद:- अ-सात्म्य-जा: हि रोगाः स्युः सहसा त्याग-शीलनात् ॥ ५८ऊ̆ ॥
अन्वय:! | अन्वयार्थ: |
शिशिर: | शिशिर: ऋतु: |
अथ वसन्त: | वसन्त: ऋतु: |
ग्रीष्म-वर्षा-शरद्-हिमाः च | तथा च ग्रीष्म: ऋतु:, वर्षा ऋतु:, शरद् ऋतु:, हेमन्त: ऋतु: |
माघाद्यैः | इति माघमासाद् आरभ्य |
द्वि-संख्यै: मासै: | मासद्वयेन मासद्वयेन |
क्रमात् षड् ऋतवः स्मृताः। | क्रमात् षड् ऋतवः भवन्ति। |