४ अध्याय 04 पदच्छेद-अन्वयार्थसहित:।

विकिपुस्तकानि तः

अध्याय 04[सम्पाद्यताम्]

वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् ।निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥ १ ॥

पदच्छेद:- वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् ।निद्रा-कास-श्रम-श्वास-जृम्भा-अश्रु-च्छर्दि-रेतसाम् ॥ १ ॥

अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः ।वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥ २ ॥

पदच्छेद:- अधो-वातस्य रोधेन गुल्म-उदावर्त-रुक्-क्लमाः ।वात-मूत्र-शकृत्-सङ्ग-दृष्टि-अग्नि-वध-हृद्-गदाः ॥ २ ॥

स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च ।पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥ २+१ ॥

पदच्छेद:- स्नेह-स्वेद-विधि: तत्र वर्तय: भोजनानि च ।पानानि वस्तय: च एव शस्तं वातानुलोमनम् ॥ २+१ ॥

शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः ।ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥ ३ ॥

पदच्छेद:- शकृतः पिण्डिका-उद्वेष्ट-प्रतिश्याय-शिरो-रुजः ।ऊर्ध्व-वायुः परीकर्तो हृदयस्य-उपरोधनम् ॥ ३ ॥

मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः ।अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ ४ ॥

पदच्छेद:- मुखेन विट्-प्रवृत्ति: च पूर्वोक्ता: च आमयाः स्मृताः ।अङ्ग-भङ्ग-अश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ ४ ॥

मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् ।वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥ ५ ॥

पदच्छेद:- मूत्रस्य रोधात् पूर्वे च प्राय: रोगा: तद्-औषधम् ।वरति-अभ्यङ्ग-अवगाहा: च स्वेदनं वस्ति-कर्म च ॥ ५ ॥

अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु ।मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ ६ ॥

पदच्छेद:- अन्न-पानं च विड्-भेदि विड्-रोध-उत्थेषु यक्ष्मसु ।मूत्रजेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ ६ ॥

जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् ।अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥ ७ ॥

पदच्छेद:- जीर्णान्तिकं च उत्तमया मात्रया योजना-द्वयम् ।अवपीडकम् एतत् च संज्ञितं धारणात् पुनः ॥ ७ ॥

उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः ।आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥ ८ ॥

पदच्छेद:- उद्गारस्य अरुचिः कम्प: विबन्ध: हृदय-उरसोः ।आध्मान-कास-हिध्मा: च हिध्मा-वत् तत्र भेषजम् ॥ ८ ॥

शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः ।तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥ ९ ॥

पदच्छेद:- शिर:-अर्ति-इन्द्रिय-दौर्बल्य-मन्या-स्तम्भ-अर्दितं क्षुतेः ।तीक्ष्ण-धूम-अञ्जन-आघ्राण-नावन-अर्कविलोकनैः ॥ ९ ॥

प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् ।शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥ १० ॥

पदच्छेद:- प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् ।शोष-अङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥ १० ॥

तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः ।अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ ११ ॥

पदच्छेद:- तृष्णाया: निग्रहात् तत्र शीतः सर्व: विधि: हितः ।अङ्ग-भङ्ग-अरुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ ११ ॥

तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् ।निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥ १२ ॥

पदच्छेद:- तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् ।निद्राया मोह-मूर्ध-अक्षि-गौरव-आलस्य-जृम्भिकाः ॥ १२ ॥

अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च ।कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥ १३ ॥

पदच्छेद:- अङ्गमर्द: च तत्र इष्टः स्वप्नः संवाहनानि च ।कासस्य रोधात् तद्-वृद्धिः श्वास-अरुचि-हृद्-आमयाः ॥ १३ ॥

शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः ।गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥ १४ ॥

पदच्छेद:- शोष: हिध्मा च कार्य: अत्र कासहा सुतरां विधिः ।गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥ १४ ॥

हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः ।जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥ १५ ॥

पदच्छेद:- हितं विश्रमणं तत्र वातघ्न: च क्रिया-क्रमः ।जृम्भायाः क्षववत् रोगाः सर्व: च अनिलजित् विधिः ॥ १५ ॥

पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः ।स-गुल्मा बाष्पतस् तत्र स्वप्नो मद्यं प्रियाः कथाः ॥ १६ ॥

पदच्छेद:- पीनस-अक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः ।सगुल्मा: बाष्पत: तत्र स्वप्न: मद्यं प्रियाः कथाः ॥ १६ ॥

विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः ।स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥ १७ ॥

पदच्छेद:- विसर्प-कोठ-कुष्ठ-अक्षि-कण्डू-पाण्डु-आमय-ज्वराः ।सकास-श्वास-हृल्लास-व्यङ्ग-श्वयथव: वमेः ॥ १७ ॥

गण्डूष-धूमानाहारा: रूक्षं भुक्त्वा तद्-उद्वमः ।व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥ १८ ॥

पदच्छेद:- गण्डूष-धूम-अनाहारा: रूक्षं भुक्त्वा तद्-उद्वमः ।व्यायामः स्रुति: अस्रस्य शस्तं च अत्र विरेचनम् ॥ १८ ॥

स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥ १९ ॥

पदच्छेद:- स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥ १९ ॥

हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः ।ताम्र-चूड-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥ २० ॥

पदच्छेद:- हृद्-व्यथा-मूत्र-सङ्ग-अङ्ग-भङ्ग-वृद्धि-अश्म-षण्ढताः ।ताम्र-चूड-सुरा-शालि-बस्ति-अभ्यङ्ग-अवगाहनम् ॥ २० ॥

वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ।तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥ २१ ॥

पदच्छेद:- वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ।तृट्-शूल-आर्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥ २१ ॥

रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः ।निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २२ ॥

पदच्छेद:- रोगाः सर्वे अपि जायन्ते वेग-उदीरण-धारणैः ।निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २२ ॥

ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति ।अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥ २३ ॥

पदच्छेद:- तत: च अनेकधा प्रायः पवन: यत् प्रकुप्यति ।अन्न-पान-औषधं तस्य युञ्जीत अत: अनुलोमनम् ॥ २३ ॥

धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च ।लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥ २४ ॥

पदच्छेद:- धारयेत् तु सदा वेगान् हितैषी प्रेत्य च इह च ।लोभ-ईर्ष्या-द्वेष-मात्सर्य-राग-आदीनां जित-इन्द्रियः ॥ २४ ॥

यतेत च यथा-कालं मलानां शोधनं प्रति ।अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥ २५ ॥

पदच्छेद:- यतेत च यथा-कालं मलानां शोधनं प्रति ।अति-अर्थ-संचिता: ते हि क्रुद्धाः स्यु: जीवित-च्छिदः ॥ २५ ॥

दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः ।ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥ २६ ॥

पदच्छेद:- दोषाः कदाचित् कुप्यन्ति जिता: लङ्घन-पाचनैः ।ये तु संशोधनैः शुद्धा: न तेषां पुन: उद्भवः ॥ २६ ॥

यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् ।रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥ २७ ॥

पदच्छेद:- यथा-क्रमं यथा-योगम् अत: ऊर्ध्वं प्रयोजयेत् ।रसायनानि सिद्धानि वृष्य-योगान् च कालवित् ॥ २७ ॥

भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् ।शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥ २८ ॥

पदच्छेद:- भेषज-क्षपिते पथ्यम् आहारै: बृंहणं क्रमात् ।शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृत-आदिभिः ॥ २८ ॥

हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः ।साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-बस्तिभिः ॥ २९ ॥

पदच्छेद:- हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः ।स-अभ्यङ्ग-उद्वर्तन-स्नान-निरूह-स्नेह-बस्तिभिः ॥ २९ ॥

तथा स लभते शर्म सर्व-पावक-पाटवम् ।धी-वर्णेन्द्रिय-वैमल्यं वृषतां दैर्घ्यम् आयुषः ॥ ३० ॥

पदच्छेद:- तथा स लभते शर्म सर्व-पावक-पाटवम् ।धी-वर्ण-इन्द्रिय-वैमल्यं वृषतां दैर्घ्यम् आयुषः ॥ ३० ॥

ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः ।राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥ ३१ ॥

पदच्छेद:- ये भूत-विष-वायु-अग्नि-क्षत-भङ्ग-आदि-संभवाः ।राग-द्वेष-भय-आद्या: च ते स्यु: आगन्तव: गदाः ॥ ३१ ॥

त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः ।देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥ ३२ ॥

पदच्छेद:- त्यागः प्रज्ञापराधानाम् इन्द्रिय-उपशमः स्मृतिः ।देश-काल-आत्म-विज्ञानं सद्-वृत्तस्य-अनुवर्तनम् ॥ ३२ ॥

अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् ।भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक् ॥ ३३ ॥

पदच्छेद:- अथर्व-विहिता शान्तिः प्रतिकूल-ग्रह-अर्चनम् ।भूतादि-अस्पर्शन-उपाय: निर्दिष्ट: च पृथक् पृथक् ॥ ३३ ॥

अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः ।निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ ३४ ॥

पदच्छेद:- अन्-उत्पत्त्यै समासेन विधि: एष: प्रदर्शितः ।निज-आगन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ ३४ ॥

शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले ।घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥ ३५ ॥

पदच्छेद:- शीत-उद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्मजम् अभ्र-काले ।घन-अत्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतुजान् न जातु ॥ ३५ ॥

नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् अ-सक्तः ।दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् अ-रोगः ॥ ३६ ॥

पदच्छेद:- नित्यं हित-आहार-विहार-सेवी समीक्ष्य-कारी विषयेषु अ-सक्तः ।दाता समः सत्य-परः क्षमा-वान् आप्त-उपसेवी च भवति अ-रोगः ॥ ३६ ॥