५२ अथ प्रभावोपनतैः...

विकिपुस्तकानि तः

मूलम्-
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः । । ५.५२ । ।
पदच्छेदः
अथ प्रभाव-उपनतैः कुमारं कल्पद्रुमोत्थैः अवकीर्य पुष्पैः ।उवाच वाग्मी दशन-प्रभाभिः संवर्धित-उरःस्थलतारहारः ॥५२
अन्वयः
अथ प्रभाव-उपनतैः कल्पद्रुमोत्थैः पुष्पैः कुमारम् (अजम्) अवकीर्य, दशन-प्रभाभिः संवर्धित-उरःस्थलतारहारः वाग्मी (सः पुरुषः) उवाच॥५२
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५२_अथ_प्रभावोपनतैः...&oldid=6088" इत्यस्माद् प्रतिप्राप्तम्