५७ संमोहनं नाम...

विकिपुस्तकानि तः

मूलम्-
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रं ।गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ।। ५.५७ ।।
पदच्छेदः -
संमोहनं नाम सखे मम अस्त्रं प्रयोग-संहार-विभक्त-मन्त्रं ।गान्धर्वम् आदत्स्व यतः प्रयोक्तुः न च अरिहिंसा विजयः च हस्ते ।। ५.५७। ।
अन्वयः
सखे, प्रयोग-संहार-विभक्त-मन्त्रं गान्धर्वं संमोहनं नाम मम अस्त्रम् आदत्स्व यतः प्रयोक्तुः अरिहिंसा च न विजयः च हस्ते (भवति)।।५.५७।।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५७_संमोहनं_नाम...&oldid=6095" इत्यस्माद् प्रतिप्राप्तम्