५ अध्याय 05 पदच्छेद-अन्वयार्थसहित:।

विकिपुस्तकानि तः

अध्याय 05[सम्पाद्यताम्]

जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् ।तन्व् अ-व्यक्त-रसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥ १ ॥ पदच्छेद:- जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् ।तनु अव्यक्तरसं मृष्टं शीतं लघु अमृतोपमम् ॥ १ ॥

गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दु-मारुतैः ।हिता-हित-त्वे तद् भूयो देश-कालाव् अपेक्षते ॥ २ ॥ पदच्छेद:- गङ्गा-अम्बु नभस: भ्रष्टं स्पृष्टं तु अर्क-इन्दु-मारुतैः ।हित-अहितत्वे तद् भूय: देश-कालौ अपेक्षते ॥ २ ॥

येनाभिवृष्टम् अ-मलं शाल्य्-अन्नं राजते स्थितम् ।अ-क्लिन्नम् अ-वि-वर्णं च तत् पेयं गाङ्गम् अन्य-था ॥ ३ ॥ पदच्छेद:- येन-अभिवृष्टम् अमलं शालि-अन्नं राजते स्थितम् ।अ-क्लिन्नम् अ-विवर्णं च तत् पेयं गाङ्गम् अन्यथा ॥ ३ ॥

सामुद्रं तन् न पातव्यं मासाद् आश्वयुजाद् विना ।ऐन्द्रम् अम्बु सु-पात्र-स्थम् अ-विपन्नं सदा पिबेत् ॥ ४ ॥ पदच्छेद:- सामुद्रं तत् न पातव्यं मासाद् आश्वयुजाद् विना ।ऐन्द्रम् अम्बु सु-पात्रस्थम् अ-विपन्नं सदा पिबेत् ॥ ४ ॥

तद्-अ-भावे च भूमि-ष्ठम् आन्तरिक्षानुकारि यत् ।शुचि-पृथ्व्-असित-श्वेते देशे ऽर्क-पवनाहतम् ॥ ५ ॥ पदच्छेद:- तद्-अभावे च भूमिष्ठम् आन्तरिक्ष-अनुकारि यत् ।शुचि-पृथु-असित-श्वेते देशे अर्क-पवन-आहतम् ॥ ५ ॥

न पिबेत् पङ्क-शैवाल-तृण-पर्णाविलास्तृतम् ।सूर्येन्दु-पवना-दृष्टम् अभिवृष्टं घनं गुरु ॥ ६ ॥ पदच्छेद:- न पिबेत् पङ्क-शैवाल-तृण-पर्ण-आविल-आस्तृतम् ।सूर्य-इन्दु-पवन-अदृष्टम् अभिवृष्टं घनं गुरु ॥ ६ ॥

फेनिलं जन्तु-मत् तप्तं दन्त-ग्राह्य् अति-शैत्यतः ।अन्-आर्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥ ७ ॥ पदच्छेद:- फेनिलं जन्तुमत् तप्तं दन्त-ग्राहि अति-शैत्यतः ।अन्-आर्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥ ७ ॥

लूतादि-तन्तु-विण्-मूत्र-विष-संश्लेष-दूषितम् ।पश्चिमोद-धि-गाः शीघ्र-वहा याश् चा-मलोदकाः ॥ ८ ॥ पदच्छेद:- लूता-आदि-तन्तु-विट्-मूत्र-विष-संश्लेष-दूषितम् ।पश्चिम-उदधिगाः शीघ्र-वहा या: च अमल-उदकाः ॥ ८ ॥

पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्य-था ।उपलास्फालनाक्षेप-विच्छेदैः खेदितोदकाः ॥ ९ ॥ पदच्छेद:- पथ्याः समासात् ता: नद्य: विपरीता: तु अत: अन्यथा ।उपल-आस्फालन-आक्षेप-विच्छेदैः खेदित-उदकाः ॥ ९ ॥

हिमवन्-मलयोद्भूताः पथ्यास् ता एव च स्थिराः ।कृमि-श्लीपद-हृत्-कण्ठ-शिरो-रोगान् प्रकुर्वते ॥ १० ॥ पदच्छेद:- हिमवत्-मलय-उद्भूताः पथ्या: ता: एव च स्थिराः ।कृमि-श्लीपद-हृत्-कण्ठ-शिर:-रोगान् प्रकुर्वते ॥ १० ॥

प्राच्यावन्त्य्-अपरान्तोत्था दुर्-नामानि महेन्द्र-जाः ।उदर-श्लीपदातङ्कान् सह्य-विन्ध्योद्भवाः पुनः ॥ ११ ॥ पदच्छेद:- प्राच्य-अवन्ति-अपर-अन्त-उत्था दुर्-नामानि महेन्द्रजाः ।उदर-श्लीपद-आतङ्कान् सह्य-विन्ध्य-उद्भवाः पुनः ॥ ११ ॥

कुष्ठ-पाण्डु-शिरो-रोगान् दोष-घ्न्यः पारियात्र-जाः ।बल-पौरुष-कारिण्यः सागराम्भस् त्रि-दोष-कृत् ॥ १२ ॥ पदच्छेद:- कुष्ठ-पाण्डु-शिर:-रोगान् दोष-घ्न्यः पारियात्र-जाः ।बल-पौरुष-कारिण्यः सागराम्भ: त्रि-दोष-कृत् ॥ १२ ॥

विद्यात् कूप-तडागादीन् जाङ्गलानूप-शैलतः ।नाम्बु पेयम् अ-शक्त्या वा स्व्-अल्पम् अल्पाग्नि-गुल्मिभिः ॥ १३ ॥ पदच्छेद:- विद्यात् कूप-तडागादीन् जाङ्गल-आनूप-शैलतः ।न अम्बु पेयम् अ-शक्त्या वा सु-अल्पम् अल्प-अग्नि-गुल्मिभिः ॥ १३ ॥

पाण्डूदरातिसारार्शो-ग्रहणी-शोष-शोथिभिः ।ऋते शरन्-निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्प-शः ॥ १४ ॥ पदच्छेद:- पाण्डु-उदर-अतिसार-अर्श:-ग्रहणी-शोष-शोथिभिः ।ऋते शरद्-निदाघाभ्यां पिबेत् स्वस्थ: अपि च अल्पशः ॥ १४ ॥

सम-स्थूल-कृशा भुक्त-मध्यान्त-प्रथमाम्बु-पाः ।शीतं मदात्यय-ग्लानि-मूर्छा-छर्दि-श्रम-भ्रमान् ॥ १५ ॥ पदच्छेद:- सम-स्थूल-कृशा भुक्त-मध्य-अन्त-प्रथम-अम्बु-पाः ।शीतं मद-अत्यय-ग्लानि-मूर्छा-छर्दि-श्रम-भ्रमान् ॥ १५ ॥

तृष्णोष्ण-दाह-पित्तास्र-विषाण्य् अम्बु नियच्छति ।दीपनं पाचनं कण्ठ्यं लघूष्णं वस्ति-शोधनम् ॥ १६ ॥ पदच्छेद:- तृष्णा-उष्ण-दाह-पित्त-अस्र-विषाणि अम्बु नियच्छति ।दीपनं पाचनं कण्ठ्यं लघु उष्णं वस्ति-शोधनम् ॥ १६ ॥

हिध्माध्मानानिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे ।कासाम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥ १७ ॥ पदच्छेद:- हिध्मा-आध्मान-अनिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे ।कास-आम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥ १७ ॥

अन्-अभिष्यन्दि लघु च तोयं क्वथित-शीतलम् ।पित्त-युक्ते हितं दोषे व्युषितं तत् त्रि-दोष-कृत् ॥ १८ ॥ पदच्छेद:- अन्-अभिष्यन्दि लघु च तोयं क्वथित-शीतलम् ।पित्त-युक्ते हितं दोषे व्युषितं तत् त्रि-दोष-कृत् ॥ १८ ॥

नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।तृष्णा-पित्तानिल-हरं दीपनं बस्ति-शोधनम् ॥ १९ ॥ पदच्छेद:- नारिकेल-उदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।तृष्णा-पित्त-अनिल-हरं दीपनं बस्ति-शोधनम् ॥ १९ ॥

वर्षासु दिव्य-नादेये परं तोये वरावरे ।स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥ २० ॥ पदच्छेद:- वर्षासु दिव्य-नादेये परं तोये वर-अवरे ।स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥ २० ॥

वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् ।प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥ २१ ॥ पदच्छेद:- वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् ।प्रायः पय:अत्र गव्यं तु जीवनीयं रसायनम् ॥ २१ ॥

क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् ।श्रम-भ्रम-मदा-लक्ष्मी-श्वास-कासाति-तृट्-क्षुधः ॥ २२ ॥ पदच्छेद:- क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् ।श्रम-भ्रम-मद-अलक्ष्मी-श्वास-कास-अति-तृट्-क्षुधः ॥ २२ ॥

जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् ।हितम् अत्य्-अग्न्य्-अ-निद्रेभ्यो गरीयो माहिषं हिमम् ॥ २३ ॥ पदच्छेद:- जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् ।हितम् अति-अग्नि-अनिद्रेभ्यो गरीय: माहिषं हिमम् ॥ २३ ॥

अल्पाम्बु-पान-व्यायाम-कटु-तिक्ताशनैर् लघु ।आजं शोष-ज्वर-श्वास-रक्त-पित्तातिसार-जित् ॥ २४ ॥ पदच्छेद:- अल्प-अम्बु-पान-व्यायाम-कटु-तिक्त-अशनै: लघु ।आजं शोष-ज्वर-श्वास-रक्त-पित्त-अतिसार-जित् ॥ २४ ॥

ईषद्-रूक्षोष्ण-लवणम् औष्ट्रकम् दीपनं लघु ।शस्तं वात-कफानाह-कृमि-शोफोदरार्शसाम् ॥ २५ ॥ पदच्छेद:- ईषद्-रूक्ष-उष्ण-लवणम् औष्ट्रकम् दीपनं लघु ।शस्तं वात-कफ-आनाह-कृमि-शोफ-उदर-अर्शसाम् ॥ २५ ॥

मानुषं वात-पित्तासृग्-अभिघाताक्षि-रोग-जित् ।तर्पणाश्च्योतनैर् नस्यैर् अ-हृद्यं तूष्णम् आविकम् ॥ २६ ॥ पदच्छेद:- मानुषं वात-पित्त-असृग्-अभिघात-अक्षि-रोग-जित् ।तर्पण-आश्च्योतनै: नस्यै: अ-हृद्यं तु उष्णम् आविकम् ॥ २६ ॥

वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् ।हस्तिन्याः स्थैर्य-कृद् बाढम् उष्णं त्व् ऐकशफं लघु ॥ २७ ॥ पदच्छेद:- वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् ।हस्तिन्याः स्थैर्य-कृद् बाढम् उष्णं तु ऐकशफं लघु ॥ २७ ॥

शाखा-वात-हरं साम्ल-लवणं जड-ता-करम् ।पयो ऽभिष्यन्दि गुर्व् आमं युक्त्या शृतम् अतो ऽन्य-था ॥ २८ ॥ पदच्छेद:- शाखा-वात-हरं स-अम्ल-लवणं जड-ता-करम् ।पय: अभिष्यन्दि गुररु आमं युक्त्या शृतम् अत: अन्यथा ॥ २८ ॥

विना तु वनिता-स्तन्यम् आमम् एव हितं हि तत् ॥ २८+१अब् ॥ पदच्छेद:- विना तु वनिता-स्तन्यम् आमम् एव हितं हि तत् ॥ २८+१अब् ॥

भवेद् गरीयो ऽति-शृतं धारोष्णम् अमृतोपमम् ।अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥ २९ ॥ पदच्छेद:- भवेद् गरीय: अति-शृतं धारा-उष्णम् अमृत-उपमम् ।अम्ल-पाक-रसं ग्राहि गुरु उष्णं दधि वात-जित् ॥ २९ ॥

मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्ताग्नि-शोफ-कृत् ।रोचिष्णु शस्तम् अ-रुचौ शीतके विषम-ज्वरे ॥ ३० ॥ पदच्छेद:- मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्त-अग्नि-शोफ-कृत् ।रोचिष्णु शस्तम् अ-रुचौ शीतके विषम-ज्वरे ॥ ३० ॥

पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे ।नैवाद्यान् निशि नैवोष्णं वसन्तोष्ण-शरत्सु न ॥ ३१ ॥ पदच्छेद:- पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे ।न एव अद्यात् निशि न एव उष्णं वसन्त-उष्ण-शरत्सु न ॥ ३१ ॥

ना-मुद्ग-सूपं ना-क्षौद्रं तन् ना-घृत-सितोपलम् ।न चान्-आमलकं नापि नित्यं नो मन्दम् अन्य-था ॥ ३२ ॥ पदच्छेद:- न अमुद्गसूपं न अक्षौद्रं तत् न अघृत-सिता-उपलम् ।न च अनामलकं न अपि नित्यं नो मन्दम् अन्य-था ॥ ३२ ॥

ज्वरासृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् ।तक्रं लघु कषायाम्लं दीपनं कफ-वात-जित् ॥ ३३ ॥ पदच्छेद:- ज्वर-असृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् ।तक्रं लघु कषाय-अम्लं दीपनं कफ-वात-जित् ॥ ३३ ॥

शोफोदरार्शो-ग्रहणी-दोष-मूत्र-ग्रहा-रुचीः ।प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्ड्व्-आमयाञ् जयेत् ॥ ३४ ॥ पदच्छेद:- शोफ-उदर-अर्श:-ग्रहणी-दोष-मूत्र-ग्रह-अरुचीः ।प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्डु-आमयान् जयेत् ॥ ३४ ॥

तद्-वन् मस्तु सरं स्रोतः-शोधि विष्टम्भ-जिल् लघु ।नव-नीतं नवं वृष्यं शीतं वर्ण-बलाग्नि-कृत् ॥ ३५ ॥ पदच्छेद:- तद्त् मस्तु सरं स्रोतः-शोधि विष्टम्भ-जित् लघु ।नव-नीतं नवं वृष्यं शीतं वर्ण-बल-अग्नि-कृत् ॥ ३५ ॥

संग्राहि वात-पित्तासृक्-क्षयार्शो-ऽर्दित-कास-जित् ।क्षीरोद्भवं तु संग्राहि रक्त-पित्ताक्षि-रोग-जित् ॥ ३६ ॥ पदच्छेद:- संग्राहि वात-पित्त-असृक्-क्षय-अर्श:-अर्दित-कास-जित् ।क्षीर-उद्भवं तु संग्राहि रक्त-पित्त-अक्षि-रोग-जित् ॥ ३६ ॥

शस्तं धी-स्मृति-मेधा-अग्नि-बल-आयुः-शुक्र-चक्षुषाम् ।बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥ ३७ ॥ पदच्छेद:- शस्तं धी-स्मृति-मेधा-अग्नि-बल-आयुः-शुक्र-चक्षुषाम् ।बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥ ३७ ॥

क्षत-क्षीण-परीसर्प-शस्त्राग्नि-ग्लपितात्मनाम् ।वात-पित्त-विषोन्माद-शोषा-लक्ष्मी-ज्वरापहम् ॥ ३८ ॥ पदच्छेद:- क्षत-क्षीण-परीसर्प-शस्त्र-अग्नि-ग्लपित-आत्मनाम् ।वात-पित्त-विष-उन्माद-शोष-अलक्ष्मी-ज्वर-अपहम् ॥ ३८ ॥

स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।सहस्र-वीर्यं विधिभिर् घृतं कर्म-सहस्र-कृत् ॥ ३९ ॥ पदच्छेद:- स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।सहस्र-वीर्यं विधिभि: घृतं कर्म-सहस्र-कृत् ॥ ३९ ॥

मदापस्मार-मूर्छाय-शिरः-कर्णाक्षि-योनि-जान् ।पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥ ४० ॥ पदच्छेद:- मद-अपस्मार-मूर्छाय-शिरः-कर्ण-अक्षि-योनि-जान् ।पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥ ४० ॥

बल्याः किलाट-पीयूष-कूर्चिका-मोरणादयः ।शुक्र-निद्रा-कफ-करा विष्टम्भि-गुरु-दोषलाः ॥ ४१ ॥ पदच्छेद:- बल्याः किलाट-पीयूष-कूर्चिका-मोरण-आदयः ।शुक्र-निद्रा-कफ-करा: विष्टम्भि-गुरु-दोषलाः ॥ ४१ ॥

गव्ये क्षीर-घृते श्रेष्ठे निन्दिते चावि-संभवे ।इक्षोः सरो गुरुः स्निग्धो बृंहणः कफ-मूत्र-कृत् ॥ ४२ ॥ पदच्छेद:- गव्ये क्षीर-घृते श्रेष्ठे निन्दिते च आवि-संभवे ।इक्षोः सरो गुरुः स्निग्ध: बृंहणः कफ-मूत्र-कृत् ॥ ४२ ॥

वृष्यः शीतो ऽस्र-पित्त-घ्नः स्वादु-पाक-रसो रसः ।सो ऽग्रे स-लवणो दन्त-पीडितः शर्करा-समः ॥ ४३ ॥ पदच्छेद:- वृष्यः शीत: अस्र-पित्त-घ्नः स्वादु-पाक-रस: रसः ।स: अग्रे स-लवणो दन्त-पीडितः शर्करा-समः ॥ ४३ ॥

मूलाग्र-जन्तु-जग्धादि-पीडनान् मल-संकरात् ।किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ ४४ ॥ पदच्छेद:- मूल-अग्र-जन्तु-जग्ध-आदि-पीडनात् मल-संकरात् ।किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ ४४ ॥

विदाही गुरु-विष्टम्भी तेनासौ तत्र पौण्ड्रकः ।शैत्य-प्रसाद-माधुर्यैर् वरस् तम् अनु वांशिकः ॥ ४५ ॥ पदच्छेद:- विदाही गुरु-विष्टम्भी तेन असौ तत्र पौण्ड्रकः ।शैत्य-प्रसाद-माधुर्यै: वर: तम् अनु वांशिकः ॥ ४५ ॥

शतपर्वक-कान्तार-नैपालाद्यास् ततः क्रमात् ।स-क्षाराः स-कषायाश् च सोष्णाः किञ्-चिद्-विदाहिनः ॥ ४६ ॥ पदच्छेद:- शतपर्वक-कान्तार-नैपाल-आद्या: ततः क्रमात् ।स-क्षाराः स-कषाया: च स-उष्णाः किञ्-चिद्-विदाहिनः ॥ ४६ ॥

फाणितं गुर्व् अभिष्यन्दि चय-कृन् मूत्र-शोधनम् ।नाति-श्लेष्म-करो धौतः सृष्ट-मूत्र-शकृद् गुडः ॥ ४७ ॥ पदच्छेद:- फाणितं गुरु अभिष्यन्दि चय-कृत् मूत्र-शोधनम् ।न अति-श्लेष्म-कर: धौतः सृष्ट-मूत्र-शकृद् गुडः ॥ ४७ ॥

प्रभूत-कृमि-मज्जासृङ्-मेदो-मांस-कफो ऽपरः ।हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्नि-साद-कृत् ॥ ४८ ॥ पदच्छेद:- प्रभूत-कृमि-मज्जा-असृक्-मेद:-मांस-कफ: अपरः ।हृद्यः पुराणः पथ्य: च नवः श्लेष्मा-अग्नि-साद-कृत् ॥ ४८ ॥

वृष्याः क्षीण-क्षत-हिता रक्त-पित्तानिलापहाः ।मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥ ४९ ॥ पदच्छेद:- वृष्याः क्षीण-क्षत-हिता रक्त-पित्त-अनिल-अपहाः ।मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥ ४९ ॥

तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा ।दाह-तृट्-छर्दि-मूर्छासृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥ ५० ॥ पदच्छेद:- तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा ।दाह-तृट्-छर्दि-मूर्छा-असृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥ ५० ॥

शर्करेक्षु-विकाराणां फाणितं च वरावरे ।चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मास्र-पित्त-नुत् ॥ ५१ ॥ पदच्छेद:- शर्करा इक्षु-विकाराणां फाणितं च वर-अवरे ।चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मा-अस्र-पित्त-नुत् ॥ ५१ ॥

मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कासातिसार-जित् ।व्रण-शोधन-संधान-रोपणं वातलं मधु ॥ ५२ ॥ पदच्छेद:- मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कास-अतिसार-जित् ।व्रण-शोधन-संधान-रोपणं वातलं मधु ॥ ५२ ॥

रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा ।उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥ ५३ ॥ पदच्छेद:- रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा ।उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णै: निहन्ति तत् ॥ ५३ ॥

प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते ।अ-लब्ध-पाकम् आश्व् एव तयोर् यस्मान् निवर्तते ॥ ५४ ॥ पदच्छेद:- प्रच्छर्दने निरूहे च मधु उष्णं न निवार्यते ।अ-लब्ध-पाकम् आशु एव तयो: यस्मात् निवर्तते ॥ ५४ ॥

तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च ।त्वग्-दोष-कृद् अ-चक्षुष्यं सूक्ष्मोष्णं कफ-कृन् न च ॥ ५५ ॥ पदच्छेद:- तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च ।त्वग्-दोष-कृद् अ-चक्षुष्यं सूक्ष्म-उष्णं कफ-कृत् न च ॥ ५५ ॥

कृशानां बृंहणायालं स्थूलानां कर्शनाय च ।बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥ ५६ ॥ पदच्छेद:- कृशानां बृंहणाय अलं स्थूलानां कर्शनाय च ।बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥ ५६ ॥

स-तिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु ।वर्ध्म-गुल्मानिल-कफान् उदरं विषम-ज्वरम् ॥ ५७ ॥ पदच्छेद:- स-तिक्त-उषणम् ऐरण्डं तैलं स्वादु सरं गुरु ।वर्ध्म-गुल्म-अनिल-कफान् उदरं विषम-ज्वरम् ॥ ५७ ॥

रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठाश्रयौ जयेत् ।तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥ ५८ ॥ पदच्छेद:- रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठ-आश्रयौ जयेत् ।तीक्ष्ण-उष्णं पिच्छिलं विस्रं रक्त-एरण्ड-उद्भवं तु अति ॥ ५८ ॥

कटूष्णं सार्षपं तीक्ष्णं कफ-शुक्रानिलापहम् ।लघु पित्तास्र-कृत् कोठ-कुष्ठार्शो-व्रण-जन्तु-जित् ॥ ५९ ॥ पदच्छेद:- कटु-उष्णं सार्षपं तीक्ष्णं कफ-शुक्र-अनिल-अपहम् ।लघु पित्त-अस्र-कृत् कोठ-कुष्ठ-अर्श:-व्रण-जन्तु-जित् ॥ ५९ ॥

आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ।नात्य्-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥ ६० ॥ पदच्छेद:- आक्षं स्वादु हिमं केश्यं गुरु पित्त-अनिल-अपहम् ।न-अति-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥ ६० ॥

उमा-कुसुम्भ-जं चोष्णं त्वग्-दोष-कफ-पित्त-कृत् ।वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥ ६१ ॥ पदच्छेद:- उमा-कुसुम्भ-जं च उष्णं त्वग्-दोष-कफ-पित्त-कृत् ।वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥ ६१ ॥

मांसानुग-स्व-रूपौ च विद्यान् मेदो ऽपि ताव् इव ।दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥ ६२ ॥ पदच्छेद:- मांस-अनुग-स्व-रूपौ च विद्यात् मेद: अपि तौ इव ।दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥ ६२ ॥

स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् ।स-कषायं स्वरारोग्य-प्रतिभा-वर्ण-कृल् लघु ॥ ६३ ॥ पदच्छेद:- स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् ।स-कषायं स्वर-आरोग्य-प्रतिभा-वर्ण-कृत् लघु ॥ ६३ ॥

नष्ट-निद्राति-निद्रेभ्यो हितं पित्तास्र-दूषणम् ।कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥ ६४ ॥ पदच्छेद:- नष्ट-निद्र-अति-निद्रेभ्यो हितं पित्त-अस्र-दूषणम् ।कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥ ६४ ॥

वात-श्लेष्म-हरं युक्त्या पीतं विष-वद् अन्य-था ।गुरु तद्-दोष-जननं नवं जीर्णम् अतो ऽन्य-था ॥ ६५ ॥ पदच्छेद:- वात-श्लेष्म-हरं युक्त्या पीतं विष-वत् अन्य-था ।गुरु तद् दोष-जननं नवं जीर्णम् अत: अन्यथा ॥ ६५ ॥

पेयं नोष्णोपचारेण न विरिक्त-क्षुधातुरैः ।नात्य्-अर्थ-तीक्ष्ण-मृद्व्-अल्प-संभारं कलुषं न च ॥ ६६ ॥ पदच्छेद:- पेयं न उष्ण-उपचारेण न विरिक्त-क्षुधा-आतुरैः ।न अति-अर्थ-तीक्ष्ण-मृदु-अल्प-संभारं कलुषं न च ॥ ६६ ॥

गुल्मोदरार्शो-ग्रहणी-शोष-हृत् स्नेहनी गुरुः ।सुरानिल-घ्नी मेदो-ऽसृक्-स्तन्य-मूत्र-कफावहा ॥ ६७ ॥ पदच्छेद:- गुल्म-उदर-अर्श:-ग्रहणी-शोष-हृत् स्नेहनी गुरुः ।सुरा अनिल-घ्नी मेद:-असृक्-स्तन्य-मूत्र-कफ-आवहा ॥ ६७ ॥

तद्-गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च ।शूल-कास-वमि-श्वास-विबन्धाध्मान-पीनसान् ॥ ६८ ॥ पदच्छेद:- तद्-गुणा वारुणी हृद्या लघु: तीक्ष्णा निहन्ति च ।शूल-कास-वमि-श्वास-विबन्ध-आध्मान-पीनसान् ॥ ६८ ॥

नाति-तीव्र-मदा लघ्वी पथ्या बैभीतकी सुरा ।व्रणे पाण्ड्व्-आमये कुष्ठे न चात्य्-अर्थं विरुध्यते ॥ ६९ ॥ पदच्छेद:- न अति-तीव्र-मदा लघ्वी पथ्या बैभीतकी सुरा ।व्रणे पाण्डु-आमये कुष्ठे न च अति-अर्थं विरुध्यते ॥ ६९ ॥

विष्टम्भिनी यव-सुरा गुर्वी रूक्षा त्रि-दोषला ।यथा-द्रव्य-गुणो ऽरिष्टः सर्व-मद्य-गुणाधिकः ॥ ७० ॥ पदच्छेद:- विष्टम्भिनी यव-सुरा गुर्वी रूक्षा त्रि-दोषला ।यथा-द्रव्य-गुण: अरिष्टः सर्व-मद्य-गुण-अधिकः ॥ ७० ॥

ग्रहणी-पाण्डु-कुष्ठार्शः-शोफ-शोषोदर-ज्वरान् ।हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥ ७१ ॥ पदच्छेद:- ग्रहणी-पाण्डु-कुष्ठ-अर्शः-शोफ-शोष-उदर-ज्वरान् ।हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥ ७१ ॥

मार्द्वीकं लेखनं हृद्यं नात्य्-उष्णं मधुरं सरम् ।अल्प-पित्तानिलं पाण्डु-मेहार्शः-कृमि-नाशनम् ॥ ७२ ॥ पदच्छेद:- मार्द्वीकं लेखनं हृद्यं न अति-उष्णं मधुरं सरम् ।अल्प-पित्त-अनिलं पाण्डु-मेह-अर्शः-कृमि-नाशनम् ॥ ७२ ॥

अस्माद् अल्पान्तर-गुणं खार्जूरं वातलं गुरु ।शार्करः सुरभिः स्वादु-हृद्यो नाति-मदो लघुः ॥ ७३ ॥ पदच्छेद:- अस्माद् अल्प-अन्तर-गुणं खार्जूरं वातलं गुरु ।शार्करः सुरभिः स्वादु-हृद्यो न अति-मद: लघुः ॥ ७३ ॥

सृष्ट-मूत्र-शकृद्-वातो गौडस् तर्पण-दीपनः ।वात-पित्त-करः सीधुः स्नेह-श्लेष्म-विकार-हा ॥ ७४ ॥ पदच्छेद:-सृष्ट-मूत्र-शकृद्-वात: गौड: तर्पण-दीपनः ।वात-पित्त-करः सीधुः स्नेह-श्लेष्म-विकार-हा ॥ ७४ ॥

मेदः-शोफोदरार्शो-घ्नस् तत्र पक्व-रसो वरः ।छेदी मध्व्-आसवस् तीक्ष्णो मेह-पीनस-कास-जित् ॥ ७५ ॥ पदच्छेद:- मेदः-शोफ-उदर-अर्श:-घ्न: तत्र पक्व-रसो वरः ।छेदी मधु-आसव: तीक्ष्ण: मेह-पीनस-कास-जित् ॥ ७५ ॥

रक्त-पित्त-कफोत्क्लेदि शुक्तं वातानुलोमनम् ।भृशोष्ण-तीक्ष्ण-रूक्षाम्लं हृद्यं रुचि-करं सरम् ॥ ७६ ॥ पदच्छेद:- रक्त-पित्त-कफ-उत्क्लेदि शुक्तं वात-अनुलोमनम् ।भृश-उष्ण-तीक्ष्ण-रूक्ष-अम्लं हृद्यं रुचि-करं सरम् ॥ ७६ ॥

दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् ।गुडेक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथोत्तरम् ॥ ७७ ॥ पदच्छेद:- दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् ।गुड-इक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथा-उत्तरम् ॥ ७७ ॥

कन्द-मूल-फलाद्यं च तद्-वद् विद्यात् तद्-आसुतम् ।शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥ ७८ ॥ पदच्छेद:- कन्द-मूल-फल-आद्यं च तद्-वद् विद्यात् तद्-आसुतम् ।शाण्डाकी च आसुतं चान्यत् कालाम्लं रोचनं लघु ॥ ७८ ॥

धान्याम्लं भेदि तीक्ष्णोष्णं पित्त-कृत् स्पर्श-शीतलम् ।श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥ ७९ ॥ पदच्छेद:- धान्य-अम्लं भेदि तीक्ष्ण-उष्णं पित्त-कृत् स्पर्श-शीतलम् ।श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥ ७९ ॥

शस्तम् आस्थापने हृद्यं लघु वात-कफापहम् ।एभिर् एव गुणैर् युक्ते सौवीरक-तुषोदके ॥ ८० ॥ पदच्छेद:- शस्तम् आस्थापने हृद्यं लघु वात-कफ-अपहम् ।एभि: एव गुणै: युक्ते सौवीरक-तुष-उदके ॥ ८० ॥

कृमि-हृद्-रोग-गुल्मार्शः-पाण्डु-रोग-निबर्हणे ।ते क्रमाद् वि-तुषैर् विद्यात् स-तुषैश् च यवैः कृते ॥ ८१ ॥ पदच्छेद:- कृमि-हृद्-रोग-गुल्म-अर्शः-पाण्डु-रोग-निबर्हणे ।ते क्रमाद् वि-तुषै: विद्यात् स-तुषै: च यवैः कृते ॥ ८१ ॥

मूत्रं गो-ऽजावि-महिषी-गजाश्वोष्ट्र-खरोद्भवम् ।पित्तलं रूक्ष-तीक्ष्णोष्णं लवणानु-रसं कटु ॥ ८२ ॥ पदच्छेद:- मूत्रं गो-अजा-आवि-महिषी-गज-अश्व-उष्ट्र-खर-उद्भवम् ।पित्तलं रूक्ष-तीक्ष्ण-उष्णं लवण-अनु-रसं कटु ॥ ८२ ॥

कृमि-शोफोदरानाह-शूल-पाण्डु-कफानिलान् ।गुल्मा-रुचि-विष-श्वित्र-कुष्ठार्शांसि जयेल् लघु ॥ ८३ ॥ पदच्छेद:- कृमि-शोफ-उदर-आनाह-शूल-पाण्डु-कफ-अनिलान् ।गुल्म-अरुचि-विष-श्वित्र-कुष्ठ-अर्शांसि जयेत् लघु ॥ ८३ ॥

तोय-क्षीरेक्षु-तैलानां वर्गैर् मद्यस्य च क्रमात् ।इति द्रवैक-देशो ऽयं यथा-स्थूलम् उदाहृतः ॥ ८४ ॥ पदच्छेद:- तोय-क्षीर-इक्षु-तैलानां वर्गै: मद्यस्य च क्रमात् ।इति द्रव-एक-देश: अयं यथा-स्थूलम् उदाहृतः ॥ ८४ ॥