६० एवं तयोरध्वनि...

विकिपुस्तकानि तः

मूलम्-
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथपदेशान्सौराज्यरम्यानपरो विदर्भान् । । ५.६०
पदच्छेदः -
एवं तयोः अध्वनि दैवयोगात् आसेदुषोः सख्यम् अचिन्त्यहेतु । एकः ययौ चैत्ररथ-प्रदेशान् सौराज्यरम्यान् अपरः विदर्भान् । । ५.६० ।
अन्वयः
एवम् अध्वनि दैवयोगात् अचिन्त्यहेतु सख्यम् आसेदुषोः तयोः एकः चैत्ररथ-प्रदेशान् ययौ अपरः सौराज्यरम्यान् विदर्भान् (ययौ) । । ५.६० ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६०_एवं_तयोरध्वनि...&oldid=6098" इत्यस्माद् प्रतिप्राप्तम्