६१ तं तस्थिवांसं...

विकिपुस्तकानि तः

मूलम्-
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली । । ५.६१ । ।
पदच्छेदः
तं तस्थिवांसं नगर-उपकण्ठे तद्-आगम-आरूढगुरुप्रहर्षः । प्रत्युज्जगाम क्रथकैशिक-इन्द्रः चन्द्रं प्रवृद्ध-ऊर्मिः इव ऊर्मिमाली । । ५.६१ । ।
अन्वयः
नगर-उपकण्ठे तस्थिवांसं तं (अजं )तद्-आगम-आरूढगुरुप्रहर्षः क्रथकैशिक-इन्द्रः (विदर्भराजः) चन्द्रं (प्रति) प्रवृद्ध-ऊर्मिः ऊर्मिमाली इव प्रत्युज्जगाम । । ५.६१ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६१_तं_तस्थिवांसं...&oldid=6099" इत्यस्माद् प्रतिप्राप्तम्