६४ तत्र स्वयंवर...

विकिपुस्तकानि तः

मूलम्-
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयम् अजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव । । ५.६४ । ।
पदच्छेदः
तत्र स्वयंवर-समाहृत-राजलोकं कन्या-ललाम कमनीयम् अजस्य लिप्सोः । भाव-अवबोध-कलुषा दयिता इव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव । । ५.६४ । ।
अन्वयः
तत्र स्वयंवर-समाहृत-राजलोकं कन्या-ललाम कमनीयम् लिप्सोः अजस्य भाव-अवबोध-कलुषा दयिता इव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव । । ५.६४ ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६४_तत्र_स्वयंवर...&oldid=6102" इत्यस्माद् प्रतिप्राप्तम्