६६ रात्रिर्गता...

विकिपुस्तकानि तः

मूलम्-
रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता । तां एकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी । । ५.६६ । ।
पदच्छेदः
रात्रिः गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधा एव ननु धूः जगतः विभक्ता । ताम् एकतः तव बिभर्ति गुरुः विनिद्रः तस्याः भवान् अपर-धुर्य-पदावलम्बी । । ५.६६ । ।
अन्वयः
हे मतिमतां वर रात्रिः गता। शय्यां मुञ्च। धात्रा जगतः धूः द्विधा एव ननु विभक्ता । ताम् एकतः तव गुरुः विनिद्रः (सन्) बिभर्ति ।तस्याः भवान् अपर-धुर्य-पदावलम्बी । । ५.६६ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६६_रात्रिर्गता...&oldid=6104" इत्यस्माद् प्रतिप्राप्तम्