६७ निद्रावशेन भवता...

विकिपुस्तकानि तः

मूलम्-
निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वं अबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ।। ५.६७। ।
पदच्छेदः
निद्रावशेन भवता अपि अनपेक्षमाणा पर्युत्सुकत्वम् अबला निशि खण्डिता इव । लक्ष्मीः विनोदयति येन दिगन्तलम्बी सः अपि त्वद-आननरुचिं विजहाति चन्द्रः ।। ५.६७। ।
अन्वयः
निद्रावशेन भवता पर्युत्सुकत्वम् अपि अनपेक्षमाणा निशि खण्डिता अबला इव । लक्ष्मीः येन विनोदयति सः चन्द्रः अपि दिगन्तलम्बी (सन्) त्वद-आननरुचिं विजहाति ।। ५.६७। ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६७_निद्रावशेन_भवता...&oldid=7132" इत्यस्माद् प्रतिप्राप्तम्