७२ शय्यां जहति...

विकिपुस्तकानि तः

मूलम्-
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोषाः । । ५.७२ । ।
पदच्छेदः
शय्यां जहति उभय-पक्ष-विनीत-निद्राः स्तम्बेरमा मुखर-शृङ्खल-कर्षिणः ते ।येषां विभान्ति तरुण-अरुणराग-योगाद् भिन्न-अद्रिगैरिक-तटाः इव दन्तकोषाः । । ५.७२ । ।
अन्वयः
उभय-पक्ष-विनीत-निद्राः मुखर-शृङ्खल-कर्षिणः ते स्तम्बेरमाः शय्यां जहति, येषां दन्तकोषाः तरुण-अरुणराग-योगाद् भिन्न-अद्रिगैरिक-तटाः इव विभान्ति । । ५.७२ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=७२_शय्यां_जहति...&oldid=6110" इत्यस्माद् प्रतिप्राप्तम्