७३ दीर्घेष्वमी नियमिताः...

विकिपुस्तकानि तः

मूलम्-
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः । । ५.७३ । ।
पदच्छेदः
दीर्घेषु अमी नियमिताः पट-मण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः । । ५.७३ । ।।
अन्वयः
हे वनजाक्ष,दीर्घेषु पट-मण्डपेषु नियमिताः अमी वनायुदेश्याः वाहाः निद्रां विहाय पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वक्त्रोष्मणा मलिनयन्ति । । ५.७३ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः