७४ भवति विरलभक्तिः...

विकिपुस्तकानि तः

मूलम् -
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः । अयम् अपि च गिरं नस्त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः । । ५.७४ । ।
पदच्छेदः
भवति विरलभक्तिः म्लानपुष्पोपहारः स्वकिरण्परिवेष-उद्भेद-शून्याः प्रदीपाः ।अयम् अपि च गिरं नः त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकः ते मञ्जुवाक् पञ्जरस्थः । । ५.७४
अन्वयः
म्लानपुष्पोपहारः विरलभक्तिः भवति। प्रदीपाः स्वकिरण-परिवेष-उद्भेद-शून्याः (भवन्ति) ।अयं पञ्जरस्थः मञ्जुवाक् ते शुकः अपि च त्वत्प्रबोधप्रयुक्तां नः गिरम् अनुवदति । । ५.७४
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=७४_भवति_विरलभक्तिः...&oldid=7120" इत्यस्माद् प्रतिप्राप्तम्