७६ अथ विधिम् अवसाय्य...

विकिपुस्तकानि तः

मूलम्-
अथ विधिम् अवसाय्य शास्त्रदृष्टं दिवसमुखोचितं अञ्चिताक्षिपक्ष्मा ।कुशलविरचितानुकूलवेषः क्षितिपसमाजं अगात्स्वयंवरस्थलम् । । ५.७६ । ।
पदच्छेदः
अथ विधिम् अवसाय्य शास्त्रदृष्टं दिवसमुख-उचितम् अञ्चित-अक्षिपक्ष्मा ।कुशल-विरचित-अनुकूलवेषः क्षितिप-समाजम् अगात् स्वयंवरस्थलम् । । ५.७६ । ।
अन्वयः
अथ अञ्चित-अक्षिपक्ष्मा शास्त्रदृष्टं दिवसमुख-उचितम् विधिम् अवसाय्य कुशल-विरचित-अनुकूलवेषः (सन्) स्वयंवरस्थलम् क्षितिप-समाजम् अगात् । । ५.७६ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=७६_अथ_विधिम्_अवसाय्य...&oldid=6114" इत्यस्माद् प्रतिप्राप्तम्