‘अथातो ब्रह्मजिज्ञासा’ रामानुजमतेन व्यख्यात।

विकिपुस्तकानि तः

‘अथातो ब्रह्मजिज्ञासा’ रामानुजमतेन व्यख्यात।

व्यासमुनिना ब्रह्मसूत्राणि रचितानि।तेषु एतत्प्रथमं सूत्रम् अथातो ब्रह्मजिज्ञासा इति।
अथ अतः ब्रह्मजिज्ञासा इति पदच्छेदः।

अथशब्दस्य अर्थः ‘अनन्तरम्’ ।कस्माद् अनन्तरम् इति प्रश्ने कर्मज्ञानानन्तरम् इति रामानुजस्य उत्तरम्।कर्म अत्र वैदिकम् अभिप्रेतम्।

अतः इति शब्दस्य अर्थः ‘हेतुः’।कस्मात् हेतोः इति प्रश्नः उद्भवति।तत्र रामानुजस्य उत्तरम् एवम् –
वेदाध्ययनाद् अनन्तरम् अवगतं भवति यद् वेदोक्तकर्मणां फलं विनाशि अस्ति इति। जीवः शाश्वतं सुखम् इच्छति।तत् तु एतैः कर्मभिः न लभ्यते।तत् शाश्वतं सुखं ब्रह्मज्ञानात् सम्भवति इति सः कुतश्चित् विजानाति अतः ब्रह्मजिज्ञासायां प्रवृत्तो भवति।अतः शब्दस्य अयम् अर्थः रामानुजस्य अभिप्रेतः।

ब्रह्मजिज्ञासापदे ब्रह्म तथा जिज्ञासा इति शब्दद्वयमस्ति। सर्वथा निर्दोषः अनन्तकल्याणगुणाश्रयः पुरुषोत्तमः ब्रह्मशब्दस्य अर्थः।
जिज्ञासा इत्युक्ते ज्ञातुम् इच्छा।जिज्ञासापदे जानातिधातुः अस्ति तथा सन् इति इच्छार्थकः प्रत्ययः अस्ति।व्याकरणे सामान्यतः ‘धात्वर्थस्य अपेक्षया प्रत्ययार्थः प्रधानः’ इति अङ्गीक्रियते।तथापि सन्प्रत्ययविषये प्रत्ययार्थस्य अपेक्षया धात्वर्थः एव प्रधानः भवति।अतः ब्रह्मजिज्ञासा इति पदे ब्रह्मविषयकं ज्ञानं प्रधानं भवति।तस्य ज्ञानस्य विधिः अस्मिन् सूत्रे अस्ति, न तु इच्छायाः।
अधीतवेदः अनुष्ठितकर्मा पुरुषः ब्रह्मज्ञानेन आत्यन्तिकसुखरूपं मोक्षं भावयेत् इति वाक्यार्थः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्