Meemaamsaa

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्रथमं प्रकरणम् सूर्यनारायणं वन्दे देवीं त्रिपुरसुन्दरीम्। गुरूनधिगतार्थाश्च निरन्तरमहं भजे॥१॥ बालानां शास्त्रसिद्धार्थलेशबोधाय धीमताम्। मीमांसापरिभाषेयं क्रियते कृष्णयज्वना॥२॥

                 धर्माधर्म-निरूपणम्

इह खलु महर्षिणा जैमिनिना द्वादशलक्षण्यां पूर्वमीमांसायां धर्माधर्मावेवाऽनुष्ठानोपयोगिताया विचारितौ। तत्र वेदबोधितेष्टसाधनताको धर्म: । यथा यागादि:।वेदबोधिताऽनिष्टसाधनताकोऽधर्म:।यथा- कलञ्जभक्षणादि:।तयोश्च वेद:,स्मृति:,आचारश्च प्रमाणम्।तत्र वेद: स्वतन्त्रं प्रमाणम्,इतरौ तु वेदमूलकतया।

                           वेदद्वैविध्यम्

तत्र वेदो द्विविध:- मन्त्ररूपो ब्राह्मणरूपश्चेति।तत्र प्रयोगकालीनार्थस्मरणहेतुतया मन्त्राणामुपयोग इति वक्ष्यते।प्रयोगोऽनुष्ठानं तत्कालीनेत्यर्थ:। विधायकं वाक्यं ब्राह्मणम्।तच्छेषोऽर्थवाद:।तस्य विधेयप्राशस्त्यप्रतीतिजननद्वारा विधिवाक्यैकवाक्यतया प्रामाण्यमिति वक्ष्यते।

                           ब्राह्मणवाक्यभेदा:
तच्चानेकविधम्-१.कर्मोत्पत्तिवाक्यम्, २. गुणवाक्यम्, ३.फलवाक्यम्, ४.फलाय गुणवाक्यम्, ५.सगुणकर्मोतपत्तिवाक्यमित्यादि भेदात्।
                                १.कर्मोत्पत्तिवाक्यम्

तत्र येन वाक्येन- ’इदं कर्मं कर्त्तव्यम्’ इति बोध्यते तत् कर्मोत्पत्तिवाक्यम्। यथा-’अग्निहोत्रं जुहोति’ इति। अत्राग्निहोत्रहोम: कर्त्तव्यतया विधीयते इति कर्मोत्पत्तिवाक्यमिदम्।

                               २. गुणवाक्यम्

विहिते कर्मणि तदङ्गतया द्रव्यदेवताविधायकं वाक्यं गुणवाक्यम्। यथा- ’दध्ना जुहुयात्’ इति।अत्र होममुद्दिश्याङ्गतया दधि विधीयते इति गुणवाक्यम्। कर्माङ्गतया विहितत्वमेव दध्यादेर्गुणत्वम्।अत्र होमस्योद्देश्यत्वं नाम मानान्तरप्राप्तत्वे सति विधेयान्वयितया निर्देश्यत्वम्। तस्यैव मानान्तरप्राप्तस्य पुन: कथ्यमानरूपत्वमनुवाद्यत्वम्, दध्यादिगुणान्वयितया प्राधान्यञ्च। दध्यादेर्मानान्तराप्राप्तत्वादत्रैव विधेयत्वम्, होमसाधनत्वाच्च होमोपेक्षया गुणत्वम् ,पुरुषेणाऽनुष्ठीयमानत्वाच्चोपादेयत्वम्। अत्र मानान्तरप्राप्तत्वं मानान्तरज्ञातत्वम् , अप्राप्तत्वञ्चाज्ञातत्वमिति बोध्यम्।

                        ३.फलवाक्य-निरूपणम्

उत्पन्नस्य कर्मण: फलाकाङ्क्षया फलसम्बन्धबोधको विधि: फलविधि:।यथा- ’अग्निहोत्रं जुहुयात् स्वर्गकाम:’ इति। अत्र य: स्वर्ग कामयते स तत्साधनत्वेनाग्निहोत्रनामकं होमं भावयेत्- कुर्याद् इति अग्निहोत्रवाक्योत्पन्नस्य कर्मण: फलसम्बन्धो बोध्यते इति फलवाक्यमिदम्।

                           ४.फलाय गुणवाक्यम्

प्राप्तं कर्माश्रित्य फलाय गुणविधौ फलाय गुणवाक्यम्। यथा- ’दध्नेन्द्रियकामस्य जुहुयात्’ इति।अत्राग्निहोत्रवाक्योत्पन्नं होममाश्रित्येन्द्रियफलाय दधिरूपो गुणौ विधीयते- होमाश्रितेन दध्ना इन्द्रियरूपं फलं भावयेद् इति। होमाश्रितेन होमकारणीभूतेनेत्यर्थ:।अयमेव गुणफलविधि: गुणकामविधिरिति चोच्यते।

                           ५.सगुणकर्मोतपत्तिवाक्यम्

द्रव्यदेवतादिगुणकर्मविधायकं वाक्यं सगुणकर्मोत्पत्तिवाक्यम्। यथा- ’सोमेन यजेत’ इति।अत्र सोमलताविशिष्टो यागो विधीयते। विशिष्टविधावपि विशेषणस्य अर्थाद्विधि:।

                             सकलकर्मोत्पत्तिवाक्यम्

क्वचित् कर्मोत्पत्तिवाक्यमेव फलसम्बन्धबोधकमपि भवति।यथा- ’उद्भिदा यजेत पशुकाम:’इति।अत्रोद्भिन्नामको यागो वाक्यन्तराविहित एव पशुकामस्य पशुफलाय विधीयते इत्येकमेवेदं वाक्यं फलसाधनयागविधायकम्।

                             प्रयोगविधि:

प्रधानविधिरेवाङ्गविधिभिरेकवाक्यतया महावाक्यतामापन्न: सन् सर्वाङ्गविशिष्टप्रधानप्रयोगविधायकत्वात् प्रयोगविधिरित्युच्यते।यथा- ’अग्निहोत्रं जुहुयात् स्वर्गकाम:’ इति।अत्र ’अग्निहोत्रहोमेन स्वर्गं भावयेत्’ इत्यर्थ: प्रतीयते। भावयेत्=उत्पादयेत् इति यावत्। अत्र ’कथमनेन होमेन स्वर्गं कुर्याद्’ इति कथम्भावाकाङ्क्षा जायते ? यथा- ’कुठारेण द्वैधीभावं कुर्यात्’ इत्युक्ते भवत्याकाङ्क्षा कथमनेन ’ द्वैधीभावं कुर्यात्’ इति ? तत्रोद्यमननिपातनादिसहायेन इति गम्यते। तद्वदत्रापि ’अग्निं प्रणयति’ ’अग्निषु समिध आदधाति’ इत्याद्यङ्गविधिविहितप्रणयनसमिदाधानायतनशोधनादिकाङ्गकलापजनितोपकारसहितेन अग्निहोत्रहोमेन स्वर्गं कुर्यात्, इति प्रकरणकल्पितेन महावाक्येन स्वर्गाय साङ्गाग्निहोत्रप्रयोगो विधीयते इत्यादृश: प्रयोगविधि:।अङ्गजातमेवेत्थम्भाव इति, इतिकर्तव्यता इति च उच्यते।अग्निहोत्रहोम: प्रधानं प्रणयनादिकं सर्वम् अङ्गम्।

                                             फलापूर्वकल्पना

नन्विद मनुपपन्नम् ।आशुतरविनाशिनां कर्मणां कालान्तरभाविस्वर्गादिरूफलसाधनत्वानुपपत्तेरिति चेन्मैवम्। विहितकर्मणां तत्तद्वाक्यैस्तत्तत्फलसाधनत्वेऽवगते आशुतरविनाशिनां कर्मणां कालान्तरभाविफलसाधनत्वोपपत्त्यर्थमन्तरा पुण्यपापरूपमपूर्वं कल्प्यते। ततश्च यागादेरपूर्वद्वारा स्वर्गसाधनत्वं न साक्षात्। तदेव फलापूर्वम्।तत्करणत्वञ्च प्राच्योदीच्याङ्गविशिष्टस्य प्रधानस्य भवति, न प्रधानमात्रस्य। प्रधानमात्रादेव फलापूर्वजनने फलस्यापि तत एव सिद्धेरङ्गानामानर्थक्यापत्ते:।

                                   उत्पत्त्यपूर्वकल्पना

ननु सर्वाङ्गविशिष्टस्य प्रधानस्याऽपूर्वजनकत्वमुक्तम्।तच्चाशुतरविनाशिन: प्रधानस्याङ्गसाहित्याभावान्नसम्भवतीति चेन्न। प्रधानकर्मण: स्वरूपेणाङ्गसाहित्याभावेऽपि उत्पत्त्यपूर्वद्वारा साहित्यसम्भवात्। प्रधानस्य सर्वाङ्गसाहित्यसिद्धयर्थं प्रधानकर्मपरमापूर्वयोर्मध्ये प्रधानमात्रजन्यमुत्पतिनामकं किञ्चिदपूर्वमस्तीत्यङ्गीकारात्। एवमङ्गानामपि परस्परसहितानामेव प्रधानोपकारकत्वात्तेषां स्वरूपेण साहित्याभावात् तत्तदुत्पत्त्यपूर्वद्वारा साहित्यं बोध्यम्। अङ्गप्रधानयोरुपकार्योपकारकभाव:।अङ्गानां ’प्रधानोपकारकत्वं’ नाम प्रधानस्य फलापूर्वजननसामर्थ्योन्मुखीकरणमेव।दर्शपूर्णमासयोस्तु विशेष: ’यदाग्नेयोऽष्टाकपालोऽमावास्यायाञ्च पौर्णमास्याञ्चाऽच्युतो भवति।’ ’इत्याग्नेययागो विहित:’ ताभ्यामेतमग्निषोमीयमेकादशकपालं पूर्णमासे प्रायच्छद् इत्यग्निषोमीययागो विहित:, ,उपांशुयाजमन्तरा यजति’ इति उपांशुयाग: ’तावब्रूतामग्निषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्’ इति वाक्यात् पौर्णमास्यां विहित:।एतानि पौर्णमास्यां प्रधानानि।एषामाग्नेयाग्निषोमीयोपांशुयागानां तत्तद्वाक्यावगतपौर्णमासीकालसम्बन्धं निमित्तीकृत्य ’य एव विद्वान् पौर्णमासीं यजते’ इति विद्वद्वाक्ये पौर्णमासीपदेन एकवचनान्तेन समुदायरूपेणानुवाद:।तेन वेदे यत्र यत्र पौर्णमासीशब्दस्तत्र तत्राग्नेयादिसमुदायोपस्थिति:।

                                यजिपदाश्रवणेऽपि यागविधानम्

ननु ’ यदाग्नेयम्’ इति वाक्ये यागवाचकपदस्याश्रवणात् कथं यागविधायकत्वमिति चेन्मैवम्। अग्निर्देवता अस्य पुरोडाशस्य इत्यर्थे विहितदेवतातद्धितान्त आग्नेयशब्द:।तस्य पुरोडाशपदसामानाधिकरण्याद् द्रव्यदेवतासम्बन्धोऽवगत:।स च यागमन्तरा न सम्भवति,द्रव्यदेवतासम्बन्धस्य यागादन्यत्र क्रियायामसम्भवाद् इति यागक्रियायामेव सम्बन्धो वाच्य:। देवतोद्देशेन द्रव्यत्यागस्य यागरूपत्वाङ्गीकारात्। अत: श्रुतद्रव्यदेवतासम्बन्धानुमितो यागो यजेतेति कल्पितेन पदेन विधीयते।अग्निदैवत्यपुरोडाशद्रव्यकामावास्यादिकालकर्त्तव्ययागेनेष्टं भावयेद् इति।एवं यत्र यत्र द्रव्यदेवतासम्बन्धमात्रं श्रूयते, ’सौर्य्यञ्चरूं निर्वपेत्’ इत्यादौ तत्र सूर्यदेवतादिचारूद्रव्यसम्बन्धानुमितो यागो विधीयते इति न कश्चित् दोष:।

                            लिङ्प्रत्ययाद्यभावेऽपि विधिकल्पना

ननूपांशुयागवाक्ये यजे: श्रवणेऽपि विधिप्रत्ययलिङ्देरभावात् कथं विधायकत्वमिति चेन्मैवम्। यजतीत्यस्य यजेतेति विपरिणामेन विधायकत्वसम्भवात्। एवं यत्र लिङ्गादिर्न श्रूयते ’व्रीहीन् प्रोक्षति’ ’समिधो यजति’ इत्यादावपि विपरिणामो बोध्य:। केचित्तु यजतीत्यस्य पञ्चमलकारत्वाङ्गीकाताद् विधायकत्वसम्भव इत्याहु:।

तथा=’ ऐन्द्रं दध्यमावास्याम्’  ’ऐन्द्रं पयोऽमावास्यायाम्’ इति वाक्यविहितौ सान्नाय्ययागौ, ’यदाग्नेय’ इति वाक्यविहिताग्नेयश्चामावास्यायां प्रधानानि’। एषां त्रयाणां ’य एवं विद्वानमावास्यां यजते’  इति वाक्ये अमावास्यामिति नाम्ना द्वितीयैकवचनान्तेन समुदायरूपेणानुवाद:। तेन वेदे यत्र दर्शशब्दोऽमावास्याशब्दो वा श्रुतस्तत्र यागसमुदायोपस्थिति:। त्रिकस्य त्रिकस्यामावास्यापौर्णमासीशब्दाभ्यां समुदायरूपेण विद्वद्वाक्येऽनुवादस्य प्रयोजनन्तु ’दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यादौ द्ववचनोपपत्ति:।अन्यथा षण्णामाग्नेयादियागानां बहुत्वाद्दर्शपूर्णमासैरिति बहुवचनं स्यात्। मानान्तरेण प्राप्तार्थस्य पुन:श्रवणमनुवाद:।तथा फलवदाग्नेयादिसन्निधौ आम्नातानि प्रयाजाज्यभागानुयाजादीनि षण्णां यागानामङ्गभूतानि।    
                              त्रिकापूर्वाद्युत्पत्ति:

एवं स्थिते ’दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यस्याऽयमर्थ: - दर्शपूर्णमासाभ्यां समुदायाभ्यां परस्परसहिताभ्यां स्वर्गापूर्वं कुर्याद् इति।तत्र कथं कालद्वयवर्तिनो: समुदाययो: परस्परसाहित्यमित्याकाङ्क्षायां स्वरूपेण साहित्याभावेऽपि त्रिकात्त्रिकादेकैकमपूर्वं जायते तद्द्वारा द्वयो: समुदाययो: साहित्यमित्युच्यते।

"https://sa.wikibooks.org/w/index.php?title=Meemaamsaa&oldid=5912" इत्यस्माद् प्रतिप्राप्तम्