पाशुपतदर्शनं तथा वैष्णवदर्शनम् (माध्वरामानुजसम्प्रदायौ) इत्यत्र वैमत्यं प्रदर्शयत।

विकिपुस्तकानि तः

पाशुपतदर्शनं तथा वैष्णवदर्शनम् (माध्वरामानुजसम्प्रदायौ) इत्यत्र वैमत्यं प्रदर्शयत।

वैष्णवमते जीवः मुक्तिदशायाम् अपि परतन्त्रः, ईश्वरस्य दासः एव भवति।सः पारमैश्वर्यं न लभते।अतः नेतादृशो मोक्षः तेषाम् अभीष्टः।

वैष्णवमतखण्डनाय तैः इदम् अनुमानं प्रयुक्तम्-
पर(वैष्णव)-अभिमतानां (पक्षः) मुक्त्यभावः (साध्यम्),
परतन्त्रत्वाद् पारमैश्वर्यरहितत्वात् च (हेतू)
यत्र परतन्त्रत्वं पारमैश्वर्यरहितत्वं च तत्र मुक्त्यभावः यथा अस्माकम्।(व्याप्तिः दृष्टान्तश्च)

मुक्तानां पारमैश्वर्यं साधयन्ति अनुमानेन।
मुक्ताः (पक्षः) परमेश्वरगुणसम्बन्धिनः (साध्यम्)
पुरुषत्वे सति समस्तदुःखबीजध्वंसात्, यथा परमेश्वरः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्