च.वि.१.२१

विकिपुस्तकानि तः

सूत्रम् -
तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा-प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि (भवन्ति)। च.वि.१.२१।

पदच्छेदः-
तत्र खलु इमानि अष्टौ आहार-विधि-विशेषायतनानि भवन्ति; तद् यथा- प्रकृति- करण-संयोग-राशि-देश-काल-उपयोगसंस्था-उपयोक्तृ-अष्टमानि (भवन्ति)। च.वि.१.२१।

अन्वयः-
तत्र खलु इमानि अष्टौ आहार-विधि-विशेषायतनानि भवन्ति; तद् यथा- प्रकृति- करण-संयोग-राशि-देश-काल-उपयोगसंस्था-उपयोक्तृ-अष्टमानि (भवन्ति)। च.वि.१.२१।

सरलार्थः-
प्रकृतिः, करणं, संयोगः, राशिः, देशः,कालः,उपयोगसंस्था तथा उपयोक्ता इति एतानि अष्टौ आहार-विधि-विशेषायतनानि भवन्ति । च.वि.१.२१।

आयुर्वेददीपिका-
आहारस्य विधिः प्रकारः विधानं वा इति आहारविधिः, तस्य विशेषः हितत्वम् अहितत्वं च, तस्य आयतनानि हेतून् इति आहारविधि-विशेष-आयतनानि। आहार-प्रकारस्य हितत्वम् अहितत्वं च प्रकृत्यादिहेतुकम् इति अर्थः। उपयोक्ता अष्टमः येषां तानि उपयोक्तृ-अष्टमानि॥ च.वि.१.२१॥

सुशीला पञ्जिका-
प्रकृति-करण-संयोग-राशि-देश-काल-उपयोगसंस्था-उपयोक्तृ-अष्टमानि इति। प्रकृतिः च करणं च संयोगः च राशिः च देशः च कालः च उपयोगसंस्था च प्रकृतिकरणसंयोगराशिदेशकालोपयोसंस्थाः।उपयोक्ता अष्टमः येषां तानि उपयोक्त्रष्टमानि। प्रकृतिकरणसंयोगराशिदेशकालोपयोसंस्थाः च तानि उपयोक्त्रष्टमानि च प्रकृति- करण-संयोग-राशि-देश-काल-उपयोगसंस्था-उपयोक्तृ-अष्टमानि। च.वि.१.२१।


च.वि.१.२०      चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका         च.वि.१.२२
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.२१&oldid=7309" इत्यस्माद् प्रतिप्राप्तम्