च.वि.१.२२

विकिपुस्तकानि तः

सूत्रम् -
तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादि-गुणयोगः; तद्यथामाषमुद्गयोः, शूकरैणयोश्च च.वि.१.२२.१

पदच्छेदः-
तत्र प्रकृतिः उच्यते स्वभावः यः, सः पुनः आहार-औषध-द्रव्याणां स्वाभाविकः गुरु-आदि-गुण-योगः; तद् यथा माष-मुद्गयोः, शूकर-एणयोः च॥ च.वि.१.२२.१

अन्वयः-
तत्र प्रकृतिः स्वभावः यः उच्यते , सः पुनः आहार-औषध-द्रव्याणां स्वाभाविकः गुरु-आदि-गुण-योगः; तद् यथा माष-मुद्गयोः, शूकर-एणयोः च॥ च.वि.१.२२.१

सरलार्थः-
तेषु आयतनेषु प्रकृतिः नाम द्रव्याणां स्वभावः।स्वभावः नाम आहारद्रव्याणाम् औषधद्रव्याणां च नैसर्गिकः गुर्वादिगुणाः।यथा माषस्य अथवा मुद्गस्य।यथा च शूकरमांसस्य अथवा एणमांसस्य। च.वि.१.२२.१

सुशीला पञ्जिका-
आहार-औषध-द्रव्याणाम् इति।आहाराः च औषधानि च आहारौषधानि।द्रव्यपदं द्वन्द्वान्ते विद्यते।

द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते

इति नियमात् द्रव्यपदस्य सम्बन्धः आहारेण अपि, औषधेन अपि भवति ।ततः आहारद्रव्याणाम् औषधद्रव्याणां च इति अर्थः गम्यते।
गुरु-आदि-गुण-योगः इति। गुरुः आदिः येषां ते गुर्वादयः।गुर्वादयः च ते गुणाः गुर्वादिगुणाः।गुर्वादिगुणानां योगः गुरु-आदि-गुण-योगः।योगः इति सम्बन्धः
माष-मुद्गयोः इति।माषः च मुद्गः च माषमुद्गौ।तयोः माषमुद्गयोः स्वभावतः गुर्वादिगुणैः सह सम्बन्धः इत्यर्थः।
शूकर-एणयोः इति।शूकरः च एणः च शूकरैणौ।तयोः शूकरैणयोः स्वभावतः गुर्वादिगुणैः सह सम्बन्धः इति अर्थः॥ च.वि.१.२२.१

आयुर्वेददीपिका-
उक्तानि प्रकृत्यादिना आविभजते तत्र इत्यादिना। स्वाभाविकः इति संस्कारादि-अकृतः। माषमुद्गयोः इति प्रकृत्या माषे गुरुत्वं, मुद्गे च लघुत्वं; शूकरे गुरुत्वं, एणे च लघुत्वम्॥ च.वि.१.२२.१

सूत्रम् -
करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः।संस्कारो हि गुणान्तराधानमुच्यते। ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्ष-भाजनादिभिश्चाधीयन्ते ॥ च.वि.१.२२.२

पदच्छेदः-
करणं पुनः स्वाभाविकानां द्रव्याणाम् अभिसंस्कारः।संस्कारः हि गुणान्तर-आधानम् उच्यते।ते गुणाः तोय-अग्नि-सन्निकर्ष-शौच-मन्थन-देश-काल-वासन-भावना-आदिभिः काल-प्रकर्ष-भाजन-आदिभिः च आधीयन्ते च.वि.१.२२.२

अन्वयः-
करणं पुनः स्वाभाविकानां द्रव्याणाम् अभिसंस्कारः।संस्कारः हि गुणान्तर-आधानम् उच्यते।ते गुणाः तोय-अग्नि-सन्निकर्ष-शौच-मन्थन-देश-काल-वासन-भावना-आदिभिः काल-प्रकर्ष-भाजन-आदिभिः च आधीयन्ते च.वि.१.२२.२

सरलार्थः-
करणं नाम स्वभावतः विद्यमानानां द्रव्यगुणानां संस्कारः।संस्कारः नाम अन्यगुणस्य आधानम्। जलम्, अग्निः, सान्निध्य, शुचिता, मन्थनं, देशः, कालः, वासनं, भावना, कालप्रकर्षः, भाण्डम् इत्यादिभिः ते अन्ये गुणाः द्रव्ये संस्थाप्यन्ते। च.वि.१.२२.२

आयुर्वेददीपिका-
द्रव्याणाम् इति वक्तव्ये स्वाभाविकानाम् इति यत् करोति, तेन उत्पत्तिकाले जनकभूतैः स्वगुण-आरोपणं, संस्कारः तु उत्पन्नस्य एव तोयादिना गुणान्तराधानम् इति दर्शयति। तत् च प्राकृतगुणोपमर्देन एव क्रियते, यथा तोयाग्निसन्निकर्षशौचैः तण्डुलस्थं गौरवम् उपहत्य लाघवम् अन्ने क्रियते। यदुक्तं -“सुधौतः प्रस्रुतः स्विन्नः सन्तप्तश्चौदनो लघुः” (सू.अ.२७) तथा रक्तशाल्यादेः लघोः अपि अग्निसंयोगादिना लाघवं वर्धते।मन्थनाद् गुणाधानं यथा “शोथकृद्दधि शोथघ्नं सस्नेहमपि मन्थनात्” इति। देशेन यथा “भस्मराशेरधः स्थापयेत्” (चि.अ.१.पा.१) इत्यादौ।वासनेन गुणाधानं यथा- अपाम् उत्पलादिवासनेन सुगन्धानुकरणम्। भावनया च स्वरसादि-कृतया स्थितस्य एव आमलकादेः गुणस्य उत्कर्षः भवति। कालप्रकर्षाद् यथा “पक्षात् जातरसं पिबेत्” (चि.अ.१५) इत्यादि।भाजनेन यथा “त्रैफलेनायसीं पात्रीं कल्केनालेपयेत्” (चि.अ.१. पा.१) इत्यादौ।आदिग्रहणात् पेषण-अभिमन्त्रणादि गृह्यते ।ननु, संस्कार-आधेयेन गुणेन कथं स्वाभाविक-गुणनाशः क्रियते, यतः “स्वभावो निष्प्रतिक्रियः” इति उक्तं; यदि हि संस्कारेण स्वाभाविक-गुरुत्वं प्रतिक्रियते, तदा “स्वभावो निष्प्रतिक्रियः” इति कथं? ब्रूमः -“स्वभावो निष्प्रतिक्रियः” इति स्वभावः भावानाम् उत्पत्तौ न अन्यथा क्रियते। तेन, जातिप्रतिबद्धं माषादीनां गुरुत्वं न तज्जातौ स्फोटयितुं पार्यते, संस्कारेण तु तद् अन्यथाकरणम् अनुमतम् एव दृष्टत्वात्। कश्चित् तु गुणः द्रव्याणां संस्कारादिना अपि न अन्यथा क्रियते, यथा वह्नेः औष्ण्यं, वायोः चलत्वं, तैलस्य स्नेहः इत्यादि। एते हि यावद्द्रव्यभाविनः एव गुणाः। गौरवादयः तु पुराणधान्य-आदिषु अपि अपगम-दर्शनात् न यावद्द्रव्यभाविनः। उक्तं हि “गुणो द्रव्यविनाशाद् वा विनाशम् उपगच्छति। गुणान्तरोपधानाद् वा” इति। यत्र तु संस्कारेण व्रीहेः लाज-लक्षणं द्रव्यान्तरम् एव जन्यते, तत्र गुणान्तरोत्पादः सुष्ठु एव ॥ च.वि.१.२२.२

सुशीला पञ्जिका-
गुणान्तर-आधानम् इति।अन्यः गुणः गुणान्तरम्।

मयूरव्यंसकादयश्च।(अष्टा.२.१.७२)

इत्यनेन समासः।गुणान्तरस्य आधानं स्थापनं गुणान्तराधानम्।
तोय-अग्नि-सन्निकर्ष-शौच-मन्थन-देश-काल-वासन-भावना-आदिभिः इति। तोयं च अग्निः च तोयाग्नी।तयोः तोयाग्न्योः सन्निकर्षः तोयाग्निसन्निकर्षः। तोयाग्निसम्बन्धः इत्यर्थः।तोयाग्निसन्निकर्षः च शौचं च मन्थनं च देशः च कालः च वासनं च भावना च तोय-अग्नि-सन्निकर्ष-शौच-मन्थन-देश-काल-वासन-भावनाः। तोय-अग्नि-सन्निकर्ष-शौच-मन्थन-देश-काल-वासन-भावनाः आदिः येषां ते तोय-अग्नि-सन्निकर्ष-शौच-मन्थन-देश-काल-वासन-भावनादयः उपायाः।तैः उपायैः गुणान्तराधानं क्रियते इत्यर्थः।
काल-प्रकर्ष-भाजन-आदिभिः इति।कालस्य प्रकर्षः कालप्रकर्षः।कालप्रकर्षः च भाजनं च कालप्रकर्षभाजने।एते आदिः येषां ते कालप्रकर्षभाजनादयः उपायाः।एतैः अपि उपायैः गुणान्तराधानं क्रियते। च.वि.१.२२.२

सूत्रम् -
संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याण्यारभन्ते; तद्यथा-मधुसर्पिषोः, मधुमत्स्यपयसां च संयोगः । च.वि.१.२२.३

पदच्छेदः-
संयोगः पुनः द्वयोः बहूनां वा द्रव्याणां संहतीभावः, सः विशेषम् आरभते, यं पुनः न एकैकशः द्रव्याणि आरभन्ते; तद् यथा मधुसर्पिषोः,मधु-मत्स्य-पयसां च संयोगः। च.वि.१.२२.३

अन्वयः-
संयोगः पुनः द्वयोः बहूनां वा द्रव्याणां संहतीभावः, सः विशेषम् आरभते, यं पुनः एकैकशः द्रव्याणि न आरभन्ते; तद् यथा मधुसर्पिषोः,मधु-मत्स्य-पयसां च संयोगः। च.वि.१.२२.३

सरलार्थः-
द्वयोः बहूनां वा द्रव्याणाम् एकत्रीकरणं संयोगः।एकम् एकं घटकद्रव्यं यं विशेषं न कुरुते, तं विशेषं संयोगः जनयति।यथा मधुघृतयोः संयोगः, मधुमत्स्यदुग्धानां संयोगः च। च.वि.१.२२.३

आयुर्वेददीपिका-
संयोगम् आह - संयोगः तु इत्यादि। सः विशेषम् आरभते इति संयुज्यमान-द्रव्य-एकदेशे अदृष्टं कार्यम् आरभते इति अर्थः। यं न एकैकशः इति यं विशेषं प्रत्येकम् असंयुज्यमानानि द्रव्याणि न आरभन्त इति अर्थः। मधुसर्पिषी हि प्रत्येकम् अमारके मिलिते तु मारके भवतः, क्षीरमत्स्यादिसंयोगः च कुष्ठादिकरः भवति। संयोगः तु इह प्राधान्येन एव उपलभ्यमानद्रव्यमेलकः विवक्षितः , तेन भावनादिषु अपि यद्यपि संयोगः अस्ति, तथा अपि तत्र भावना-द्रव्याणां प्राधान्येन अनुपलब्धेः न संयोगेन ग्रहणम्॥ च.वि.१.२२.३

सुशीला पञ्जिका-
संहतीभावः इति।

कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः।(अष्टा.५.४.५०)

इति अनेन साधितं रूपम्।असंहतं संहतं भवति इति अर्थः।
एकैकशः इति।

सङ्ख्यैकवचनाच्च वीप्सायाम्।(अष्टा.५.४.४२)

इत्यनेन एकैकशब्दात् कारकार्थे शस्प्रत्ययः।प्रत्येकमित्यर्थः।द्रव्याणां संहतीभावः तं विशेषमारभते, यं प्रत्येकं द्रव्यं नारभते इति वाक्यार्थः।
मधुसर्पिषोः इति।मधु च सर्पिः च मधुसर्पिषी।तयोः संयोगः इत्यर्थः।
मधु-मत्स्य-पयसाम् इति।मधु च मत्स्यः च पयः च मधुमत्स्यपयांसि।तेषां संयोगः। च.वि.१.२२.३

सूत्रम् -
राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः।तत्र सर्वस्याहारस्य प्रमाणग्रहण-मेकपिण्डेन सर्वग्रहः, परिग्रहः पुनःप्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम्।सर्वस्य हि ग्रहः सर्वग्रहः, सर्वतश्च ग्रहः परिग्रह उच्यते । च.वि.१.२२.४

पदच्छेदः-
राशिः तु सर्वग्रह-परिग्रहौ मात्रा-अमात्र-फल-विनिश्चयार्थः।तत्र सर्वस्य आहारस्य प्रमाण-ग्रहणम् एकपिण्डेन सर्वग्रहः, परिग्रहः पुनः प्रमाणग्रहणम् एकैकश्येन आहार-द्रव्याणाम्।सर्वस्य हि ग्रहः सर्वग्रहः, सर्वतः च ग्रहः परिग्रहः उच्यते । च.वि.१.२२.४

अन्वयः-
राशिः तु सर्वग्रह-परिग्रहौ मात्रा-अमात्र-फल-विनिश्चयार्थः।तत्र सर्वस्य आहारस्य प्रमाण-ग्रहणम् एकपिण्डेन सर्वग्रहः, परिग्रहः पुनः प्रमाणग्रहणम् एकैकश्येन आहार-द्रव्याणाम्।सर्वस्य हि ग्रहः सर्वग्रहः, सर्वतः च ग्रहः परिग्रहः उच्यते । च.वि.१.२२.४

सरलार्थः-
राशिः तु सर्वग्रह-परिग्रहरूपः भवति।सः मात्राहारस्य फलं निश्चितं करोति, अमात्राहारस्य च फलं निश्चितं करोति।तत्र एकं पिण्डं कृत्वा सर्वस्य आहारस्य प्रमाण-ग्रहणम् सर्वग्रहराशिः।एकस्य एकस्य आहारद्रव्यस्य प्रमाणम् आलोच्य प्रमाणग्रहणम् परिग्रहः।सर्वस्य आहारस्य ग्रहणं नाम सर्वग्रहः।सर्वेभ्यः आहारघटकेभ्यः मात्राग्रहणं नाम परिग्रहः। च.वि.१.२२.४

आयुर्वेददीपिका-
राशिः प्रमाणम्। मात्र-अमात्रफल-विनिश्चयार्थः इति मात्रावद्-आहारस्य औषधस्य च यत् फलं शुभम्, अमात्रस्य हीनस्य अतिरिक्तस्य वा यत् फलम् अशुभम्। यदुक्तं- “तस्य ज्ञानार्थम् उचितप्रमाणम् अनुचितप्रमाणं च राशि-सञ्ज्ञं भवति”। सर्वग्रहं विवृणोति तत्र इत्यादि। सर्वस्य इति मिश्रीकृतस्य अन्न-मांस-सूपादेः एकपिण्डेन मानम्। परिग्रहं विवृणोति परिग्रहः पुनरित्यादि। एकैकश्येन इति अन्नस्य कुडवः, सूपस्य पलं, मांसस्य द्विपलम् इत्यादि अवयव-मानपूर्वकं समुदायमानम्। सर्वग्रहे प्रत्यवयव-माननियमः न अस्ति; तेन येन केनचिद् आहारेण प्रत्येकम् अनियत-मानेन सम्पूर्ण-आहारमात्रा-नियमनं सर्वग्रहः। एतद् एव शब्दव्युत्पत्त्या दर्शयति सर्वस्य हि इत्यादि। सर्वतः इति प्रत्येक-अवयवतः इति अर्थः॥ च.वि.१.२२.४॥

सुशीला पञ्जिका-
सर्वग्रह-परिग्रहौ इति।सर्वस्य ग्रहः सर्वग्रहः।परितः ग्रहः परिग्रहः।परितः इति प्रत्येकम् अवयवशः।सर्वग्रहः च परिग्रहः च सर्वग्रहपरिग्रहौ।
मात्रा-अमात्र-फल-विनिश्चयार्थः इति।मात्रा च अमात्रा च मात्रामात्रे।तयोः मात्रामात्रयोः फले शुभाशुभरूपे मात्रामात्रफले।मात्रामात्रफलयोः विनिश्चयः मात्रामात्र-फलविनिश्चयः।मात्रामात्रफलविनिश्चयः अर्थः प्रयोजनं यस्य सः मात्रामात्रफल-विनिश्चयार्थः।राशेः विशेषणमिदम्।
प्रमाण-ग्रहणम् इति।प्रमाणस्य ग्रहणं प्रमाणग्रहणम्। च.वि.१.२२.४

सूत्रम् -
देशः पुनः स्थानं; स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे च.वि.१.२२.५

पदच्छेदः-
देशः पुनः स्थानं; सः द्रव्याणाम् उत्पत्ति-प्रचारौ देशसात्म्यं च आचष्टे च.वि.१.२२.५

अन्वयः-
देशः पुनः स्थानं; सः द्रव्याणाम् उत्पत्ति-प्रचारौ देशसात्म्यं च आचष्टे। च.वि.१.२२.५

सरलार्थः-
देशः नाम स्थानम्।सः देशः भोज्यद्रव्याणाम् उत्पत्तिं ,भोज्यद्रव्याणां सञ्चारं तथा भोक्तुः देशसात्म्यं सूचयति। च.वि.१.२२.५

आयुर्वेददीपिका-
देशं विभजते देशः इत्यादि। स्थानग्रहणेन आहारद्रव्यस्य तथा भोक्तुः च स्थानं दर्शयति। आचष्टे इति द्रव्यस्य उत्पत्ति-प्रचारादिकृत-गुणज्ञानहेतुः भवति। तत्र उत्पत्त्या हिमवति जातं गुणवद् भवति, मरौ जातं लघु भवति, इत्यादि। प्रचारेण लघु-भक्ष्याणां प्राणिनां तथा धन्वप्रचारिणां बहुक्रियाणां च लाघवं, विपर्यये च गौरवं गृह्यते। देशसात्म्येन च देशविपरीतगुणं सात्म्यं गृह्यते; यथा आनूपे उष्णरूक्षादि, धन्वनि च शीतस्निग्धादि,ओकसात्म्यं तु उपयोक्तृ-ग्रहणेन गृहीतम्॥ च.वि.१.२२.५

सुशीला पञ्जिका-
उत्पत्ति-प्रचारौ इति। उत्पत्तिःच प्रचारः च उत्पत्तिप्रचारौ।
देशसात्म्यम् इति।देशे सात्म्यम् इति।देशस्य सात्म्यम् इति विग्रहः न कार्यः।आहारः केन कारणेन हितकरः भवति, केन कारणेन अहितकरः भवति इति आहारविधिविशेषायतनानि व्याख्याति सूत्रकारः।तत्र अन्यतमम् आयतनं देशः इति।अतः कस्य देशस्य सात्म्यम् अस्ति इति विचारः अत्र अप्रस्तुतः।कस्मिन् देशः कः आहारः सात्म्यः भवति इति विचारः प्रस्तुतः।तस्मात् देशे सात्म्यम् इत्येव विग्रहः औचित्यमावहति। अनेनैव अभिप्रायेण चक्रपाणिः देशसात्म्यस्य उदाहरणं ब्रूते –

यथा आनूपे उष्णरूक्षादि, धन्वनि च शीतस्निग्धादि... च.वि.१.२२.५

सूत्रम् -
कालो हि नित्यगश्चावस्थिकश्च; तत्रावस्थिको विकारमपेक्षते, नित्यगस्तुऋतु-सात्म्यापेक्षः। च.वि.१.२२.६

पदच्छेदः-
कालः हि नित्यगः च आवस्थिकः च; तत्र आवस्थिकः विकारम् अपेक्षते,नित्यगः तु ऋतु-सात्म्य-अपेक्षः। च.वि.१.२२.६

अन्वयः-
कालः हि नित्यगः च आवस्थिकः च; तत्र आवस्थिकः (कालः) विकारम् अपेक्षते,नित्यगः (कालः) तु ऋतु-सात्म्य-अपेक्षः। च.वि.१.२२.६

सरलार्थः-
कालः नित्यगः तथा आवस्थिकः इति द्विविधः अस्ति।तयोः आवस्थिकः कालः विकारम् अपेक्ष्य आहारं नियमयति।नित्यगः कालः तु ऋतुसात्म्यम् अपेक्ष्य कालं नियमयति। च.वि.१.२२.६

आयुर्वेददीपिका-
नित्यगः इति अहोरात्रादिरूपः। आवस्थिकः इति रोगित्व-बाल्य-आदि-अवस्था-विशेषितः इत्यर्थः। विकारम् अपेक्षते इति बाल्यादिकृतं तु श्लेष्मविकारं ज्वरादिकं च आहारनियमार्थम् अपेक्षते इत्यर्थः। ऋतुसात्म्यं हि ऋतुम् अपेक्षते इति ऋतुसात्म्य-अपेक्षः॥ च.वि.१.२२.६

सुशीला पञ्जिका-
नित्यगः इति।नित्यं गच्छति नित्यगः।

अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः।(अष्टा.३.२.४८)
अन्यत्रापि दृश्यते इति वक्तव्यम्।(वार्तिकम्)

अनेन वार्तिकेन नित्यगः इति रूपं सिद्ध्यति।गमेः टिभागस्य लोपः।
आवस्थिकः इति।

कालात् ठञ्।(अष्टा.४.३.११)

इत्यनेन अवस्थाशब्दात् ठञ्प्रत्ययः।अवस्थायां भवति सः आवस्थिकः।अवस्था च प्रकृते विकाररूपा।
ऋतु-सात्म्य-अपेक्षः इति। ऋतौ सात्म्यम् ऋतुसात्म्यम्।ऋतुसात्म्यम् अपेक्षते इति ऋतुसात्म्यापेक्षः।

कर्मण्यण् (अष्टा.३.२.१)

इति अण्प्रत्ययः।। च.वि.१.२२.६

सूत्रम् -
उपयोगसंस्था तूपयोगनियमः; स जीर्णलक्षणापेक्षः ।च.वि.१.२२.७

पदच्छेदः-
उपयोगसंस्था तु उपयोगनियमः; सः जीर्णलक्षण-अपेक्षः। च.वि.१. २२.७

अन्वयः-
उपयोगसंस्था तु उपयोगनियमः; सः जीर्णलक्षण-अपेक्षः। च.वि.१. २२.७

सरलार्थः-
उपयोगसंस्था नाम आहरोपयोगविषयकः नियमः।सः नियमः प्राधान्येन आहारस्य जरणम् अपेक्ष्य आहारं नियमयति। च.वि.१.२२.७

आयुर्वेददीपिका-
एवम् आहार-उपयोगः कर्तव्यः एवं न कर्तव्यः इति उपयोग-नियमः, सः जीर्णलक्षण-अपेक्षः इति प्राधान्येन उक्तः। तेन इह ‘अजल्पन्नहसन्नातिद्रुतं नातिविलम्बितम्’ इत्यादि उपयोगनियमम् अपि अपेक्षते एव; अजीर्णभोजने तु महान् त्रिदोषकोप-लक्षणः दोषः भवति इति अयम् एव उदाहृतः॥ च.वि.१.२२.७

सुशीला पञ्जिका-
उपयोगसंस्था इति। उपयोगस्य संस्था।
उपयोगनियमः इति।उपयोगस्य नियमः।
जीर्णलक्षण-अपेक्षः इति।जीर्णस्य लक्षणं जीर्णलक्षणम्।जीर्णलक्षणम् अपेक्षते इति जीर्णलक्षणापेक्षः। च.वि.१.२२.७

सूत्रम् -
उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्म्यम्। इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति॥ च.वि.१.२२॥

पदच्छेदः-
उपयोक्ता पुनः यः तम् आहारम् उपयुङ्क्ते, यद्-आयत्तम् ओकसात्म्यम्। इति अष्टौ आहार-विधि-विशेष-आयतनानि व्याख्यातानि भवन्ति॥ च.वि.१.२२॥

अन्वयः- उपयोक्ता पुनः यः तम् आहारम् उपयुङ्क्ते, यद्-आयत्तम् ओकसात्म्यम्। इति अष्टौ आहार-विधि-विशेष-आयतनानि व्याख्यातानि भवन्ति॥ च.वि.१.२२॥

सरलार्थः-
उपयोक्ता नाम आहारस्य उपभोक्ता।ओकसात्म्यं तस्य अधीनम् अस्ति। एवम् अष्टानाम् आहार-विधि-विशेष-आयतनानां व्याख्यानं कृतम्। च.वि.१.२२

आयुर्वेददीपिका-
यद्-आयत्तम् ओकसात्म्यम् इति भोक्तृपुरुष-अपेक्षं हि अभ्यास-सात्म्यं भवति; कस्यचिद् हि किञ्चिद् एव अभ्यासात् पथ्यम् अपथ्यं वा सात्म्यं भवति॥ च.वि.१.२२॥

सुशीला पञ्जिका-
यद्-आयत्तम् इति।यस्य आयत्तम् यदायत्तम्।आयत्तम् इति अधीनम्।यत्सर्वनाम्ना प्रकृते भोक्ता पुरुषः परामृश्यते।यदायत्तम् इति भोक्तृपुरुषाधीनम्।
ओकसात्म्यम् इति।अभ्याससात्म्ये रूढा संज्ञा। च.वि.१.२२

 च.वि.१.२१       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका        च.वि.१.२३
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.२२&oldid=7308" इत्यस्माद् प्रतिप्राप्तम्