च.वि.१.२३

विकिपुस्तकानि तः
Jump to navigation Jump to search

सूत्रम् -
एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेवस्यात्; नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किञ्चित् ॥ च.वि.१.२३॥

पदच्छेदः-
एषां विशेषाः शुभ-अशुभ-फलाः परस्पर-उपकारकाः भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुः एव स्यात्; न च मोहात् प्रमादाद् वा प्रियम् अहितम् असुखोदर्कम् उपसेव्यम् आहारजातम् अन्यद् वा किञ्चित् ॥ च.वि.१.२३॥

अन्वयः-
एषां विशेषाः शुभ-अशुभ-फलाः परस्पर-उपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुः एव स्यात्; मोहात् प्रमादाद् वा प्रियम् अहितम् असुखोदर्कम् आहारजातम् अन्यद् वा किञ्चित् न च उपसेव्यम् ॥ च.वि.१.२३॥

सरलार्थः-
एतेषां अष्टानाम् आहारविधिविशेषायतनानां विशेषाः सम्भवन्ति।ते विशेषाः क्वचित् शुभफलाः सन्ति, क्वचिद् अशुभफलाः सन्ति।ते च विशेषाः परस्परम् उपकारकाः भवन्ति।तान् विशेषान् वैद्यः जानीयात्।तान् ज्ञात्वा हितम् एव इच्छेत्।अज्ञानेन अथवा प्रमादेन किञ्चिद् अहितं दुःखरूपफलदम् आहारादिकं, प्रियम् अस्ति चेदपि, न सेवनीयम्। च.वि.१.२३

आयुर्वेददीपिका-
एषाम् इत्यादौ शुभफलाः विशेषाः अशुभफलाः च परस्पर-उपकारकाः भवन्ति इति ज्ञेयम्। तत्र प्रकृत्या लाघवादिः शुभफलः, गुर्वादिः च अशुभफलः। करणादि-आधेयः अपि विशेषः शास्त्रोक्तः शुभः, निषिद्धः तु अशुभः। देश-आसात्म्यं निन्दितदेश-भवत्वादि च द्रव्यस्य अशुभफलम्। एवं काल-असात्म्यम् अशुभफलं च अजीर्ण-भोजनादि, तथा ओक-असात्म्यं च अशुभम् अशुभफलम् इति ज्ञेयं; विपरीतं तु शुभफलम्।मोहाद् इति अज्ञानात्, प्रमादाद् इति ज्ञात्वा अपि रागाद् इति अर्थः। प्रियम् इति तदात्व-मात्र-प्रियम्। अहितम् इति अस्य विवरणम् असुखोदर्कम् इति। असुखं दुःखरूपम्, उदर्कः उत्तरकालीनं फलं, यस्य सः तथा। अन्यद् वा इति भेषजविहारादि॥ च.वि.१.२३॥

सुशीला पञ्जिका-
शुभ-अशुभ-फलाः इति।शुभानि च अशुभानि च शुभाशुभानि। शुभाशुभानि फलानि येषां ते शुभाशुभफलाः।विशेषाः इत्यस्य विशेषणम्।
परस्पर-उपकारकाःइति।परस्परम् उपकारकाः परस्परोपकारकाः।उपकुर्वन्ति इति उपकारकाः। एतदपि विशेषाः इत्यस्य विशेषणम्।

ण्वुलतृचौ।(अष्टा.३.१.१३३)

इत्यनेन कर्तरि ण्वुल्प्रत्ययः।
हितेप्सुः इति।आप्तुम् इच्छा ईप्सा।सा अस्ति यस्य सः ईप्सुः।हितम् ईप्सुः हितेप्सुः।यः हितं प्राप्तुमिच्छति सः पुरुषः।
असुखोदर्कम् इति।न सुखम् असुखम्।दुःखमित्यर्थः।भाविफलकं कर्म उदर्कः। असुखम् उदर्कः यस्य तद् असुखोदर्कम्।आहारजातम् इत्यस्य विशेषणम्।
आहारजातम् इति।जातम् इति समूहार्थकः शब्दः।आहारस्य समूहः आहाजातम्।
अहितम् इति।न हितम्।आहारजातस्य विशेषणम्।
बुभुत्सेत इति। बोद्धुम् इच्छेत् इत्यर्थः।

धातोः कर्मणः समानकर्तृकादिच्छायां वा।(अष्टा.३.१.७)

इत्यनेन साधितं बुधिधातोः सन्प्रत्ययान्तं रूपम्। च.वि.१.२३॥

च.वि.१.२२.       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका        च.वि.१.२४
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.२३&oldid=6443" इत्यस्माद् प्रतिप्राप्तम्