या सृष्टिः ..... अष्टाभिरीशः॥१.०१

विकिपुस्तकानि तः

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रूतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १.०१॥

पदच्छेदः-
या सृष्टिः स्रष्टुः आद्या वहति विधिहुतं या हविः या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
याम् आहुः सर्वबीजप्रकृतिः इति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नः तनुभिः अवतु वः ताभिः अष्टाभिः ईशः ॥ १.०१॥

अन्वयः-
या स्रष्टुः आद्या सृष्टिः, या विधिहुतं हविः वहति, या च होत्री,
ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या विश्वं व्याप्य स्थिता,
यां ‘सर्वबीजप्रकृतिः’ इति आहुः, यया प्राणिनः प्राणवन्तः,
ताभिः प्रत्यक्षाभिः अष्टाभिः तनुभिः प्रपन्नः ईशः वः अवतु ॥ १.०१॥

सन्दर्भः-
रूपकारम्भे कालिदासेन कृतमिदं मङ्गलम्।

सरलार्थः-
वृत्तम् – स्रग्धरा।

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि      अभिज्ञानशाकुन्तले स्रग्धरावृत्तनिबद्धानि पद्यानि

आ परितोषाद् .....अप्रत्ययं चेतः ॥१.०२