जन्म यस्य..... आप्नुहि ॥१.१२॥

विकिपुस्तकानि तः

जन्म यस्य पुरोर्वंशे युक्तरुपमिदं तव ।पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥१.१२॥

पदच्छेदः-
जन्म यस्य पुरोः वंशे युक्तरूपम् इदं तव ।पुत्रम् एवं गुण-उपेतं चक्रवर्तिनम् आप्नुहि ॥१.१२॥

अन्वयः-
यस्य तव जन्म पुरोः वंशे (तस्य) युक्तरूपम् इदं (कार्यम्) ।एवं गुण-उपेतं चक्रवर्तिनम् पुत्रम् आप्नुहि ॥१.१२॥

सन्दर्भः-
तपस्विनः प्रार्थनाम् आदृत्य दुष्यन्तेन हरिणाय उद्धृतः बाणः प्रतिसंहृतः। ततः तपस्विनः एतदाशीर्वचनम्।

सरलार्थः-
हे राजन् तव जन्म पुरुवंशे जातम्।अतः तव एतत् कार्यम् उचितमेव। एतादृशैः गुणैः युक्तं चक्रवर्तिनं पुत्रं त्वं लभस्व।॥१.१२

वृत्तम् –
अनुष्टुप्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि            अभिज्ञानशाकुन्तले अनुष्टुभ्-वृत्तनिबद्धानि पद्यानि
तत् साधुकृतसन्धानं..... अनागसि ॥१.११॥     रम्याः तपोधनानां..... -अङ्कः इति ॥१.१३॥