अनुयास्यन् .....प्रतिनिवृत्तः ॥१.२९॥

विकिपुस्तकानि तः

अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः। स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥१.२९॥

पदच्छेदः-
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः स्थानाद् अनुच्चलन् अपि गत्वा इव पुनः प्रतिनिवृत्तः ॥१.२९॥

अन्वयः-
मुनितनयाम् अनुयास्यन्, सहसा विनयेन वारितप्रसरः(अहं) स्थानाद् अनुच्चलन् अपि गत्वा इव पुनः प्रतिनिवृत्तः ॥१.२९॥

सन्दर्भः-

सरलार्थः-
मुनिकन्याम् अनु गन्तुकामः अहम्।तथापि अकस्मात् विनयेन मम गमनं निवारितम्।तेन स्थानाद् अहं न विचलितः, परं गत्वा निवर्तितः इति भावयामि।१.२९

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि   अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि
भव हृदय .....रत्नम् ॥१.२८॥      स्रस्तांसौ .....मूर्धजाः ॥१.३०॥