भव हृदय .....रत्नम् ॥१.२८॥
पठन सेटिंग्स
भव हृदय साभिलाषं संप्रति सन्देहनिर्णयो जातः । आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥१.२८॥
पदच्छेदः-
भव हृदय साभिलाषं संप्रति सन्देहनिर्णयः जातः ।
आशङ्कसे यद् अग्निं तद् इदं स्पर्शक्षमं रत्नम् ॥१.२८॥
अन्वयः-
हे हृदय, साभिलाषं भव। संप्रति सन्देहनिर्णयः जातः ।यद् अग्निम् आशङ्कसे, तद् इदं स्पर्शक्षमं रत्नम् ॥१.२८॥
सन्दर्भः-
सरलार्थः-
हे मम हृदय, इदानीं त्वम् अस्य अभिलाषं कर्तुम् अर्हति।अधुना सन्देहस्य निराकरणं जातम्।अग्निः इति यद्विषये आशङ्का आसीत्, तद् एतद् स्पर्शार्हं रत्नम् अस्ति॥१.२८
वृत्तम् –
आर्या
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि वैखानसं .....हरिणाङ्गनाभिः ॥१.२७॥ अनुयास्यन् .....प्रतिनिवृत्तः ॥१.२९॥