स्रस्तांसौ .....मूर्धजाः ॥१.३०॥

विकिपुस्तकानि तः

स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा – दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बध्दं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥१.३०॥

पदच्छेदः-
स्रस्तांसौ अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात् अद्य अपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बध्दं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं बन्धे स्रंसिनि च एकहस्तयमिताः पर्याकुलाः मूर्धजाः ॥१.३०॥

अन्वयः-
घटोत्क्षेपणात् (शकुन्तलायाः) बाहू स्रस्तांसौ अतिमात्रलोहिततलौ (स्तः) प्रमाणाधिकः श्वासः अद्य अपि स्तनवेपथुं जनयति ।वदने कर्णशिरीष-रोधि घर्माम्भसां जालकं बध्दम्।बन्धे स्रंसिनि च एकहस्तयमिताः मूर्धजाः पर्याकुलाः (सन्ति) ॥१.३०॥

सन्दर्भः-

सरलार्थः-
इयं शकुन्तला घटम् उद्धरति।तेन तस्याः अंसौ अवनतौ, करतलौ आरक्तवर्णौ।तस्याः श्वासवेगः वर्धितः।तेन स्तनयोः कम्पः अधुनापि वर्तते।मुखे घर्मबिन्दवः सन्ति।तेन कर्णे स्थापितस्य शिरीषकुसुमस्य अवरोधः कृतः।केशबन्धः शिथिलः जातः।एकेन हस्तेन सा तं केशबन्धं संवारयति, परं केशाः विकीर्णाः एव जाताः।

वृत्तम् –
शार्दूलविक्रीडितम्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि     अभिज्ञानशाकुन्तले शार्दूलविक्रीडित-वृत्तनिबद्धानि पद्यानि
अनुयास्यन् .....प्रतिनिवृत्तः ॥१.२९॥   वाचं .....दृष्टिः अस्याः ॥१.३१॥