वाचं .....दृष्टिः अस्याः ॥१.३१॥

विकिपुस्तकानि तः

वाचं न मिश्रयति यद्यपि मे वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥१.३१॥

पदच्छेदः-
वाचं न मिश्रयति यद्यपि मे वचोभिः कर्णं ददाति अभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना भूयिष्ठम् अन्यविषया न तु दृष्टिः अस्याः ॥१.३१॥

अन्वयः-
यद्यपि (एषा) मे वचोभिः वाचं न मिश्रयति, (तथापि) मयि भाषमाणे अभिमुखं कर्णं ददाति ।कामं मदाननसंमुखीना भूयिष्ठं न तिष्ठति, (तथापि) अस्याः दृष्टिः अन्यविषया तु न ॥१.३१॥

सन्दर्भः-

सरलार्थः-

शकुन्तला यद्यपि मम वचनेषु स्वस्य वचनं न सम्मेलयति, तथापि यदा अहं वचनम् आरभे तदा सा पुरतः कर्णं ददाति।मम अभिमुखं दीर्घकालं न तिष्ठति।अस्तु, तथापि अस्याः दृष्टिः अन्यत्र न गच्छति।१.३१

वृत्तम् –
वसन्ततिलका

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि   अभिज्ञानशाकुन्तले वसन्ततिलका-वृत्तनिबद्धानि पद्यानि
स्रस्तांसौ .....मूर्धजाः ॥१.३०॥     तुरग-खुर-हतः .....आश्रमद्रुमेषु ॥१.३२॥