गच्छति पुरः .....नीयमानस्य ॥१.३४॥

विकिपुस्तकानि तः

गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥१.३४॥

पदच्छेदः-
गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः । चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥१.३४॥

अन्वयः-
शरीरं पुरः गच्छति।प्रतिवातं नीयमानस्य केतोः चीनांशुकम् इव चेतः असंस्तुतं पश्चाद् धावति॥१.३४॥

सन्दर्भः-

सरलार्थः-

मम देहः अग्रे गच्छति।परं ध्वजस्य वस्त्रं यथा विरुद्धवातेन पश्चाद् गच्छति, तथा मम मनः अपरिचितं पश्चाद्देशं धावति।१.३४

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि              अभिज्ञानशाकुन्तले आर्यावृत्तनिबद्धानि पद्यानि
तीव्र-आघात-.....स्यन्दन-आलोक-भीतः ॥१.३३॥