तीव्र-आघात-.....स्यन्दन-आलोक-भीतः ॥१.३३॥

विकिपुस्तकानि तः

तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोक भीतः ॥१.३३॥

पदच्छेदः-
तीव्र-आघात-प्रतिहततरुस्कन्ध-लग्न-एकदन्तः पाद-आकृष्टव्रतति-वलय-आसङ्ग-सञ्जातपाशः।
मूर्तः विघ्नः तपसः इव नः भिन्नसारङ्गयूथः धर्म-अरण्यं प्रविशति गजः स्यन्दन-आलोक-भीतः॥१.३३॥

अन्वयः-
स्यन्दन-आलोक-भीतः, तीव्र-आघात-प्रतिहत-तरुस्कन्ध-लग्न-एकदन्तः, पाद-आकृष्ट-व्रतति-वलय-आसङ्ग-सञ्जातपाशः,भिन्नसारङ्गयूथः, नः तपसः मूर्तः विघ्नः इव गजः धर्म-अरण्यं प्रविशति ॥१.३३॥

सन्दर्भः-

सरलार्थः-
दुष्यन्तस्य रथस्य दर्शनात् भीतः अयं गजः धर्मारण्यं प्रविशति।अनेन गजेन वृक्षे तीव्रः आघातः कृतः।तेन तस्य एकः दन्तः वृक्षस्य स्कन्धे लग्नः अस्ति।लतानां कुञ्जः अनेन पादेन आकृष्टः।इदानीं सः एव लताकुञ्जः तस्य पादे पाशः इव सञ्जातः।मृगानां यूथम् अनेन विद्रावितम्। अयं गजः अस्माकं तपसः मूर्तिमान् विघ्नः एव।१.३३

वृत्तम् –
मन्दाक्रान्ता

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि        अभिज्ञानशाकुन्तले मन्दाक्रान्ता-वृत्तनिबद्धानि पद्यानि
तुरग-खुर-हतः .....आश्रमद्रुमेषु ॥१.३२॥   गच्छति पुरः .....नीयमानस्य ॥१.३४॥