१२ मार्गम् तावत् शृणु ...

विकिपुस्तकानि तः

मार्गं तावत् शृणु कथयतः तवत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयं ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां च उपभुज्य ॥


अन्वयः- तवत्प्रयाणानुरूपं कथयतः मार्गं तावत् शृणु। जलद! श्रोत्रपेयं मे संदेशं तदनु श्रोष्यसि। यत्र खिन्नः किन्नः सिखरिषु पदं न्यस्य गन्तासि। क्षीण क्षीण स्रोतसां परिलघु पयः उपभुज्य च (गन्तासि)।