अन्यथात्वाधिकरणं...

विकिपुस्तकानि तः

उ.- अधिकरणसङ्गति:- पूर्वाधिकरणे समाख्यैक्याद् विद्यैक्यं प्रतिपादितम्।अत्रापि समाख्यैक्यं विद्यते।अत: अत्रापि विद्यैक्यं मन्तव्यमिति दृष्टान्तसङ्गत्या अधिकरणमिदमारभ्यते। अत्र विद्यमानानि सूत्राणि एतानि-
अन्यथात्वं शब्दादिति चेन्नाविशेषात्।३.३.६
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्।३.३.७
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि।३.३.८
विषय: -
१ अथ हेमासन्यं प्राणमूचु: त्वं न उद्गायेति।तथेति तेभ्य एव प्राण उदगायत्।बृ.१.३.७
२ अथ ह व एवायं मुख्य: प्राण: तमुद्गीथमुपासाञ्चक्रिरे।छा.१.२.७
विशय: -एतयो: विध्यो: एका एव देवता आहोस्विद् भिन्ना इति संशय:।
पूर्वपक्ष:- उभयत्र एका एव देवता।
१ उद्गातृत्वम् उद्गीथत्वमिति शब्दभेदेऽपि देवासुरसङ्ग्राम:, तत्र देवानामतिक्रम: इत्यादिक: आशय: उभयत्र अविशेष: (समान:)। (...चेन्नाविशेषात्।३.३.६)
२ उभयत्र उद्गीथविद्या इति संज्ञा समाना अस्ति। अत: संज्ञात: विद्यैक्यं सिद्ध्यति।(३.३.८)

उत्तरपक्ष:- उभयत्र विद्या न मन्तव्या।
१ त्वं न उद्गायेति इति शब्दप्रयोग: एकत्र विद्यते तथा तमुद्गीथमुपासाञ्चक्रिरे इति शब्द: अपरत्र।प्रथमे शब्दे उद्गातृत्वम् (ऋत्विक्त्वम्)इति अर्थ: अस्ति अपरत्र उद्गीथत्वम् (उपास्यत्वम्) इति अर्थ: अस्ति। अत: शब्दाद् अन्यथात्वं सिदध्यति।(अन्यथात्वं शब्दादि...)
२ उभयत्र उपक्रमभेद: अपि दृश्यते।छान्दोग्ये ‘ओमित्येतदक्षरम् उद्गीथमुपासीत।(छा.१.१.१) इति ओङ्कारे प्राणदृष्टे: उपदेश: विद्यते।बृहदारण्यके त्वं न उद्गाय इति उद्गाता ज्ञायते। एवमुपक्रमभेदाद् विद्याभेदो मन्तव्य:।अत्र दृष्टान्त: परोवरीयसत्वादे:। परमात्मदृष्ट्या सर्वं ब्रह्मणि अध्यस्तम् तथापि परोवरीयस्त्वादिविशिष्टस्य उद्गीथस्य उपासनम् अक्षिविशिष्टोद्गीथोपासनाद् भिन्नम्। परोवरीयस्त्वादिविशिष्टस्य उद्गीथस्य उपासनम् आदित्यविशिष्टोद्गीथोपासनाद् भिन्नम्। एवमेवात्र दार्ष्टान्तिके ओङ्कारविशिष्टोद्गीथोपासनं प्राणविशिष्टोद्गीथोपासनाद् भिन्नम्।
३ संज्ञासामान्येऽपि प्रकरणभेदाद् विद्याभेद एव मन्तव्य:।कठकनाम्निग्रन्थे उक्तानां भिन्नतया प्रदिद्धानाम् अग्निहोत्रादिकर्मणाम् ‘काठकम्’ इति समाना संज्ञा भवति। तावता तेषामैक्यं न सिद्ध्यति।
४ छान्दोग्ये उद्गीथावयव: ओङ्कार: उपास्य: तथा बृहदारण्यके इन्द्रियप्रेरक: प्राण: उपास्य: इति उपास्यभेदाद् विद्याभेद:।
निर्णय:- छान्दोग्यकाण्वयो: उद्गीथविद्ये भिन्ने।

ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:     ३.३
"https://sa.wikibooks.org/w/index.php?title=अन्यथात्वाधिकरणं...&oldid=7373" इत्यस्माद् प्रतिप्राप्तम्