पक्षानुसारम्

विकिपुस्तकानि तः

अत्र पक्ष: साध्यम् हेतु: व्याप्ति: दृष्टान्त: सन्दर्भ:इति एतेन क्रमेण वर्णनमस्ति

[सम्पाद्यताम्]

अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:)
क्वचिदाश्रित: गुणत्वात् यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं यथा तन्तु:।

[सम्पाद्यताम्]

आकाशं
नित्यं विभुत्वात् यत्र विभुत्वं तत्र नित्यत्वम् आत्मवत् ब्र.सू.शां भा. २.३.७

आकाशं
विकाररूपं, विभक्तत्वात् यत्र विभक्तत्वं तत्र विकाररूपत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

आकाशं
विभु एकत्वे सति सर्वत्रोपलब्धे: यत्र एकत्वे सति सर्वत्रोपलब्धि:तत्र विभुत्वम्कालवत् ब्र.सू.शां भा. २.३.७

आकाशम्
अनित्यम् अनित्यगुणाश्रयत्वात् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

आत्मा
निराकर्तुमशक्य: निराकर्तु: स्वरूपभूतत्वात् यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं यथा वह्ने: औष्ण्यम् ब्र.सू.शां भा. २.३.७

आत्मा
न निराकरणार्ह:, प्रमाणानामविषयत्वात् यन्नैवं तन्नैवं यथा आकाशादि ब्र.सू.शां भा. २.३.७

आत्मा
सद्वितीय: विच्छेदकरत्वात् यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् सेतुवत् ब्र.सू.पराधिकरणं३.२.३१-३७

[सम्पाद्यताम्]

कर्तृत्वम् आत्मन:
न स्वाभाविकम् तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:।यथा अग्ने: औष्ण्यम् ब्र.सू.भाष्यम्२.३.४०

क्षित्यङ्कुरादिकं
कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।

[सम्पाद्यताम्]

घटादय:
स्वानुगतप्रतिभासे वस्तुनि कल्पिता: विभक्तत्वात् यत्र... तत्र... अद्वैतसिद्धि: परिच्छिन्नत्वप्र.

घटादिकं
सद्रूपे कल्पितम्, प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्। अ.सि.

[सम्पाद्यताम्]

चैतन्यं
देहधर्म: ।देहे सति सत्त्वात्, देहाभावे असत्त्वात्।यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम् यथा गौरवर्ण:

[सम्पाद्यताम्]

जगत्
चेतनकर्तृकम् नामरूपाभ्यां व्याकृतत्वात् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं घटादिवत् भामती १.१.२

जलं (निर्मल-)
तद्गतपृथिवीगन्धवत् पृथिवीसंयोगात् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् चन्दनोदकादिवत् न्या.र.म.

जलम् (इदं)
पृथ्वीसंयुक्तं, गन्धात् यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् चन्दनमिश्रितोदकवत्। न्या.र.म.

[सम्पाद्यताम्]

द्व्यणुक: (त्र्यणुक- अवयव:)
सावयव: महदारम्भकत्वात् यत्र महदारम्भकत्वं तत्र सावयवत्वम् तन्तुवत्

[सम्पाद्यताम्]

नाड्यादीनां
विकल्पसद्भाव:, एकार्थत्वात्, यत्र एकार्थत्वं तत्र विकल्पसद्भाव: व्रीहियवादिवत्।

नाड्यादीनाम्
एकार्थत्वम्, समानविभक्तिकत्वात्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम् यथा व्रीहिभिर्यजेत यवैर्यजेत।३.२.७

[सम्पाद्यताम्]

पट: अयं
एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, अंशित्वात्, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् इतरांशिवत् अद्वैतसिद्धि: अंशित्वप्र. -प्रागभाव: (घट-)घटात्यन्ताभावानधिकरण: घटप्रागभावविरोधित्वात् यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् प्रतियोगिघटवत्। अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्

[सम्पाद्यताम्]

ब्रह्म
उत्पत्तिमत्, विकारजनकत्वात्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् आकाशादिवत्। ब्र.सू.२.३.९

ब्रह्म
सद्वितीयं उन्मितत्वात यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् कार्षापणादिवत् पराधिकरणं३.२.३१-३७

ब्रह्म
सद्वितीयं सम्बन्धित्वात् यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् नरनगरवत् पराधिकरणं३.२.३१-३७

[सम्पाद्यताम्]

मन:
विभु स्पर्शरहितत्वात् यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं यथा आकाशम्

मुग्ध:
न जागरितावस्थ: इन्द्रियैर्विषयानीक्षणात्,यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् सुप्तवत् ।३.२.१०

मुग्ध:
न मृत: पुनरुत्थानात् यत्र पुनरुत्थानं तत्र अमृतत्वं यथा जागरितो देवदत्त: ३.२.१०

मुग्ध:
न मृत: प्राणोष्मणो: सद्भावात् यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं यथा जीवद्देवदत्त:। ३.२.१०

मुग्ध:
न स्वप्नावस्थ: नि:संज्ञत्वात् यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् यथा कश्चन उदयन: ३.२.१०

[सम्पाद्यताम्]

रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं)
सावयवम् चाक्षुषत्वात् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वं यथा पट:।

[सम्पाद्यताम्]

वायु:
प्रत्यक्ष: प्रत्यक्षस्पर्शाश्रयत्वात् यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम् घटवत्

विमतं(जगत्)
मिथ्या परिच्छिन्नत्वात् यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् शुक्तिरजतवत् अ.सि. ग्रन्थारम्भ:

विमतम् (जगत्)
अचेतनप्रकृतिकं कार्यत्वात्, यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् घटवत् न्या.र.म१.१.५

वेदगतसर्वार्थप्रकाशन-शक्ति:
तदुपादानगता कार्यगतप्रकाशशक्तित्वात् यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् दीपगतप्रकाशशक्तिवत् न्या.र.म१.१.३

[सम्पाद्यताम्]

सुवर्णं
न आप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव: घृतवत्

सुवर्णं
पार्थिवं पीतत्वात् यत्र पीतत्वं तत्र पार्थिवत्वम् हरिद्रावत्

सुवर्णं
न पार्थिवम् अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम् घृतवत्

सुवर्णं
न वाय्वादिष्वन्तर्भूतम् रूपवत्वात् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न घटवत्

 साध्यानुसारम्      हेत्वनुसारम्      दृष्टान्तानुसारम्    अनुमानप्रयोगकोश:
"https://sa.wikibooks.org/w/index.php?title=पक्षानुसारम्&oldid=5925" इत्यस्माद् प्रतिप्राप्तम्