अध्यात्मरामायण/अयोध्याकाण्डम्
<poem> .. अध्यात्मरामयणे अयोध्याकाण्डम् ..
.. अयोध्याकाण्डम् ..
.. प्रथमः सर्गः ..
एकदा सुखमासीनं रामम् स्वान्तःपुराजिरे . सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् .. १.. नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् . सीतया रथदण्डेन चामरेणाथ वीजितम् .. २.. विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् . नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः .. ३.. शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः . अतर्कितमुपायातो नारदो दिव्यदर्शनः .. ४.. तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः . ननाम शिरसा भूमौ सीतया सह भक्तिमान् .. ५.. उवाच नारदं रामः प्रीत्या परमया युतः . संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् . अस्माकं विषयासक्तचेतसां नितरां मुनेः .. ६.. अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः . संसारिणापि हि मुने लभ्यते सत्समागमः .. ७.. अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर . किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः .. ८.. अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् . किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः .. ९.. संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभोः . जगतामादिभूता या सा माया गृहिणी तव .. १०.. त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः . त्वदाश्रया सदा भाति माया या त्रिगुणात्मिका .. ११.. सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः . लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः .. १२.. त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा . ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा .. १३.. भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा . शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् .. १४.. यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो . निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा .. १५.. राम त्वमेव वरुणो भार्गवी जानकी शुभा . वायुस्त्वं राम सीता तु सदागतिरितीरिता .. १६.. कुबेरस्त्वं राम सीता सर्वसम्पत्प्रकीर्तिता . रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् .. १७.. लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा . पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव .. १८.. तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन .. १९.. त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते . तस्मान्महांस्ततः सूत्रं लिङ्गं सर्वात्मकं ततः .. २०.. अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च . लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् .. २१.. स एव जीवसंज्ञश्च लोके भाति जगन्मयः . अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते .. २२.. स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः . एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः .. २३.. जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते . तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम .. २४.. त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् . त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् .. २५.. रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् . परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते .. २६.. चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः . त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् .. २७.. अज्ञानान्न्यस्यते सर्वं त्वयि रज्जो भुजङ्गवत् . त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् .. २८.. त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् . तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि .. २९.. अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः . अतो मामनुगृह्णीष्व मोहयस्व न मां प्रभो .. ३०.. त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो . अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव .. ३१.. इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः . उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् .. ३२.. रावणस्य वधार्थाय जातोऽसिरघुसत्तम . इदानीं राज्यरक्षार्थं पिता त्वाम्भिषेक्ष्यति .. ३३.. यदि राज्याभिसंसक्तो रावणं न हनिष्यसि . प्रतिज्ञा ते कृता राम भूभारहरणाय वै .. ३४.. तत्सत्यं कुरु राजेन्द्र सत्यसन्धस्त्वमेव हि . श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् .. ३५.. शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् . प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः .. ३६.. किन्तु कालानुरोधेन तत्तत्प्रारब्धसङ्क्षयात् . हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् .. ३७.. रावणस्य विनाशार्थं श्वो गन्ता दण्डककाननम् . चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .. ३८.. सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् . एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह .. ३९.. प्रदक्षिणत्रयं कृवा दण्डवत्प्रणिपत्य तम् . अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः .. ४०.. संवादं पठति शृणोति संस्मरेद्वा यो नित्यं
मुनिवररामयोः सभक्त्या .
सम्प्राप्नोत्यमरसुदुर्लभं विमोक्षं
कैवल्यं विरतिपुरःसरं क्रमेण .. ४१..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे प्रथमः सर्गः .. १..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्या काण्डम् ..
.. अथ द्वितीयः सर्गः ..
अथ राजा दशरथः कदाचिद्रहसि स्थितः . वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत .. १.. भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः . पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः .. २.. ततः सर्वगुणोपेतं रामं राजीवलोचनम् . ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव .. ३.. भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः . अभिषेक्ष्ये श्व एवाशु भवांस्तच्चानुमोदताम् .. ४.. सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् . उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः .. ५.. तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै . आहूय मन्त्रिणां राजा सुमन्त्रं मन्त्रिसत्तमम् ..६.. आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय . यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् .. ७.. तथेते हर्षात्स मुनिं किं करोमीत्यभाषत . तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः .. ८.. श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः . तिष्ठन्तु षोडश गजाः स्वर्णरत्नादिभूषिताः .. ९.. चतुर्दन्तः समायातु ऐरावतकुलोद्भवः . नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः .. १०.. स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय . श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् .. ११.. दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च . मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः .. १२.. नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा . नानावादित्रकुशला वादयन्तु नृपाङ्गणे .. १३.. हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः . नगरे यानि तिष्ठन्ति देवतायतनानि च .. १४.. तेषु प्रवर्ततां पूजा नानाबलिभिरावृता . राजानः शीघ्रमायान्तु नानोपायनपाणयः .. १५.. इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् . स्वयं जगाम भवनं राघवस्यातिशोभनम् .. १६.. रथमारुह्य भगवान्वसिष्ठो मुनिसत्तमः . त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् .. १७.. अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः . गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः .. १८.. प्रत्युद्गम्य नमस्कृत्य दण्डवद् भक्तिसंयुतः . स्वर्णपात्रेण पानीयमानिनायाशु जानकी .. १९.. रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः . तदपः शिरसा धृत्वा सीताया सह राघवः .. २०.. धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् . श्रीरामेणैवमुक्तस्तु प्रहसन्मुनिरब्रवीत् .. २१.. त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः .. २२.. इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् . जानामि त्वां परात्मानं लक्ष्म्या सञ्जातमीश्वरम् .. २३.. देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये . रावणस्य वधार्थाय जातं जानामि राघव .. २४.. तथापि देवकार्यार्थं गुह्यं नोद्घाटयाम्यहम् . तथा त्वं मायया सर्वं करोषि रघुनन्दन .. २५.. तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् . गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः .. २६.. अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः . शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् .. २७.. मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया . पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् .. २८.. इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते . इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा .. २९.. ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया . अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये .. ३०.. ततो मनोरथो मेऽद्य फलितो रघुनन्दन . त्वदधीना महामाया सर्वलोकैकमोहिनी .. ३१.. मां यथा मोहयेन्नैव तथा कुरु रघूद्वह . गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे .. ३२.. प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया . राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह .. ३३.. त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव . अद्य त्वं सीतया सार्धमुपवासं यथाविधि .. ३४.. कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः . गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि .. ३५.. इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् . रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् .. ३६.. सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति . निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि .. ३७ मम त्वं बहिः प्राणो नात्र कार्या विचारणा . ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् .. ३८.. वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् . वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् .. ३९.. यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ . कौसल्यायै राममात्रे सुमित्रायै तथैव च .. ४०.. श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् . तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला .. ४१.. लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये . सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् .. ४२.. कैकेयीवशगः किन्तु कामुकः किं करिष्यति . इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् .. ४३.. एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् . गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः .. ४४.. रामाभिषेकविघ्नार्थं यतस्वं ब्रह्मवाक्यतः . मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् .. ४५.. ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे . तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् .. ४६.. सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् . नगरं परितो दृष्ट्वा सर्वतः समलंङ्कृतम् .. ४७.. नानातोरणसम्बाधं पताकाभिरलङ्कृतम् . दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४८.. धात्रीं पप्रच्छ मातः किं नगरं समलङकृतम् . दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४९.. ददाति विप्रमुख्येभो वस्त्राणि विविधानि च . तामुवाच तदा धात्री रामचन्द्राभिषेचनम् .. ५०.. श्वो भविष्यति तेनाद्य सर्वतोऽलङ्कृतं पुरम् . तच्छ्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् .. ५१.. पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् . किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् .. ५२.. न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी .. ५३.. रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति . तच्छ्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी .. ५४.. तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् . हर्षस्थाने किमिति मे कथ्यते भयमागतम् .. ५५.. भरताधिको रामः प्रियकृन्मे प्रियंवदः . कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् .. ५६.. रामाद्भयं किमापन्नं तव मूढे वदस्व मे . तच्छ्रुत्वा विषसादाथ कुब्जाकारणवैरिणी .. ५७.. शृणु मद्वचनं देवि यथार्थं ते महद्भयम् . त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते .. ५८.. कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् . कार्यं करोति तस्या वै राममातुः सुपुष्कलम् .. ५९.. मनस्येतन्निधायैव प्रेषयामास ते सुतम् . भरतं मातुलकुले प्रेषयामास सानुजम् .. ६०.. सुमित्रायाः समीचीनं भविष्यति न संशयः . लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति .. ६१.. भरतो राघवस्याग्रे किङ्करो वा भविष्यति . विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् .. ६२.. त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि . ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः .. ६३.. अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने . रामस्य वनवासार्थं वर्षाणि नव पञ्च च .. ६४.. ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति . उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् .. ६५.. पुरा देवासुरे युद्धे राजा दशरथः स्वयम् . इन्द्रेण याचितो धन्वी सहायार्थं महारथः .. ६६.. जगाम सेनया सार्धं त्वया सह शुभानने . युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः .. ६७.. तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः . त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः .. ६८.. स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया . ततो हत्वासुरान्सर्वान् ददर्श त्वामरिन्दमः .. ६९.. आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः . वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् .. ७०.. वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् . त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयम् .. ७१.. त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ . यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् .. ७२.. तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते . त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् .. ७३.. अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता . विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च .. ७४.. भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि . यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते .. ७५.. श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी . तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा .. ७६.. तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी . एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि .. ७७.. भरतो यदि मे भविष्यति सुतः प्रियः . ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा .. ७८.. इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा . विमुच्य सर्वाभरणं परिकीर्य समन्ततः .. ७९.. भूमौ शयाना मलिना मलिनाम्बरधारिणी . प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् .. ८०.. प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि . निश्चयं कुरु कल्याणि कल्याणं ते भविष्यसि .. ८१.. इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् .. ८२.. धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा
नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा .
दुष्टानामतिपापभावितधियां सङ्गं सदा वेद्भजेत्
तद्बुद्ध्या परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् .. ८३..
अत सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि . दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका .. ८४.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे द्वितीयः सर्गः .. २..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्याकाण्डम् ..
.. अथ तृतीयः सर्गः ..
ततो दशरथो राजा रामाभ्युदयकारणात् . आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् .. १.. तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः . या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना .. २.. हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते . इत्यात्मन्येव सञ्चिन्त्य मनसातिविदूयता .. ३.. पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा . नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना .. ४.. ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे . कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि .. ५.. इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः . उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् .. ६.. किं शेषे वसुधापृष्टे पर्यङ्कादीन् विहाय च . मां त्वं खेदयसे भीरु यतो मां नावभाषसे .. ७.. अलङ्कारं परित्यज्य भूमौ मलिनवाससा . किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् .. ८.. को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा . स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः .. ९.. ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः . तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् .. १०.. जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् . तथापि मां खेदयसे वृथा तव परिश्रमः .. ११.. ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् . धनिनं क्षणमात्रेण निर्धनं च तवाहितम् .. १२.. ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे . किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये .. १३.. मम प्राणात्प्रियतरो रामो राजीवलोचनः . तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् .. १४.. इति ब्रुवाणं राजानं शपन्तं राघवोपरि . शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत .. १५.. यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि . याच्ञां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि .. १६.. पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः . तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा .. १७.. तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत . तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् .. १८.. एभिः संभृतसम्भारैर्यौवराज्येऽभिषेचय . अपरेण वरेणाशु रामो गच्छतु दण्डकान् .. १९.. मुनिवेषधरः श्रीमान् जटावल्कलभूषणः . चतुर्दश समास्तत्र कन्दमूलफलाशनः .. २०.. पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् . प्रभाते गच्छतु वनं रामो राजीवलोचनः .. २१.. यदि किञ्चिद्विलम्बेत प्राणांस्त्यक्ष्ये तवाग्रतः . भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् .. २२.. श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् . निपपात महीपालो वज्राहत इवाचलः .. २३.. शनैरुन्मील्य नयने विमृज्य परया भिया . दुःस्वप्नो वा मया दृष्टो ह्यथवा चित्तविभ्रमः .. २४.. इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थितम् . किमिदं भाषसे भद्रे मम प्राणहरं वचः .. २५.. रामः कमपराधं ते कृतवान्कमलेक्षणः . ममाग्रे राघवगुणान्वर्णयस्यनिशं शुभान् .. २६.. कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा . इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा .. २७.. राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे . अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव .. २८.. इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह . कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना .. २९.. राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा . मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् .. ३०.. वनं न गच्छेद्यदि रामचन्द्रः
प्रभातकालेऽजिनचीरयुक्तः .
उद्बन्धनं वा विषभक्षणं वा
कृत्वा मरिष्ये पुरतस्तवाहम् .. ३१..
सत्यप्रतिज्ञोऽहमितीह लोके
विडम्बसे सर्वसभान्तरेषु .
रामोपरि त्वं शपथं च कृत्वा
मिथ्याप्रतिज्ञो नरकं प्रयाहि .. ३२..
इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः . मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा .. ३३.. एवं रात्रिर्गता तस्य दुःखात्स्ंवत्सरोपमा . अरुणोदयकाले तु वन्दिनो गायका जगुः .. ३४.. निवारयित्वा तान् सर्वान्कैकेयी रोषमास्थिता . ततः प्रभातसमये मध्यकक्षमुपस्थिताः .. ३५.. ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा . छत्रं च चामरं दिव्यं गजो वाजी तथैव च .. ३६.. अन्याश्च वारमुख्या याः पौरजानपदास्तथा . वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् .. ३७.. स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे . कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् .. ३८.. सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् . कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् .. ३९.. अभिषिक्तं समायातं गजारूढं स्मिताननम् . श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् .. ४०.. रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् . इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः .. ४१.. नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् . सुमन्त्रः शनकैः प्रायाद्यत्र राजावतिष्ठते .. ४२.. वर्धयन् जयशब्देन प्रणमन्शिरसा नृपम् . अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत .. ४३.. देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा . तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् .. ४४.. राम रामेति रामेति राममेवानुचिन्तयन् . प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते . राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति .. ४५.. अश्रुत्वा राजवचनं कथं गच्छामि भामिनि . तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् .. ४६.. सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् . इत्युक्त्वस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् .. ४७.. अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् . शीघ्रमागच्छ भद्रं ते राम राजीवलोचन .. ४८.. पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति . इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ .. ४९.. रामः सारथिना सार्धं लक्ष्मणेन समन्वितः . मध्यकक्षे वसिष्ठादीन् पश्यन्नेव त्वरान्वितः .. ५०.. पितुः समीपं सङ्गम्य ननाम चरणौ पितुः . राममालिलिङ्ग्य राजा समुत्थाय ससम्भ्रमः .. ५१.. बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह . हा हेति रामस्तं शीघ्रमालिङ्ग्याङ्के न्यवेशयत् .. ५२.. राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः . किमर्थं रोदनमिति वसिष्ठोऽपि समाविशत् .. ५३.. रामः पप्रच्छ किमिदं राज्ञो दुःखस्य कारणम् . एवं पृच्छति रामे सा कैकेयी राममब्रवीत् .. ५४.. त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये . किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् .. ५५.. कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् . राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा .. ५६.. त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः . सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि .. ५७.. पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता . रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा .. ५८.. व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे . पित्रार्थे जीवितं दास्ये पिबेयं विषमुल्बणम् .. ५९.. सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् . अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः .. ६०.. उक्तः करोति यः पुत्रः स मध्यम उदाहृतः . उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते .. ६१.. अतः करोमि तत्सर्वं यन्मामाह पिता मम . सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते .. ६२.. इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे . राम त्वद्भिषेकार्थं सम्भाराः सम्भृताश्च ये .. ६३.. तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम . अपरेण वरेणाशु चीरवासा जटाधरः .. ६४.. वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया . चतुर्दश समास्तत्र वस मुन्यन्नभोजनः .. ६५.. एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि . राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन .. ६६..
श्रीराम उवाच
भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् . किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् .. ६७.. श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् . प्राह राजा दशरथो दुःखितो दुःखितं वचः .. ६८.. स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् . निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् .. ६९.. एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन . इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा .. ७०.. हा राम हा जगन्नाथ हा मम प्राणवल्लभ . मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि .. ७१.. इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह . विसृज्य नयने रामः पितुः सजलपाणिना .. ७२.. आश्वासयामास नृपं शनैः स नयकोविदः . किमत्र दुःखेन विभो राज्यं शास्तु मेऽनुजः .. ७३.. अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् . राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः .. ७४.. त्वत्सत्यपालनं देवकार्यं चापि भविष्यति . कैकेय्याश्च प्रियो राजन्वनवासो महागुणः .. ७५.. इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः . सम्भारश्चोपहीयन्तामभिषेकार्थमाहृताः .. ७६.. मातरं च समनुश्वास्य अनुनीय च जानकीम् . आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् .. ७७.. इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ . कौसल्यापि हरेः पूजां कुरुते रामकारणात् .. ७८.. होमं च कारयामास ब्राह्मणेभ्यो ददौ धनम् . ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता .. ७९.. अन्तःस्थमेकं घनचित्प्रकाशं
निरस्तसर्वातिशयस्वरूपम् .
विष्णुं सदानन्दमयं हृदब्जे
सा भावयन्ती न ददर्श रामम् .. ८०..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे तृतीयः सर्गः .. ३..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्याकाण्डम् ..
.. अथ चतुर्थः सर्गः ..
ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा . कौसल्यां बोधयामास रामोऽयं समुपस्थितः .. १.. श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता . रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् .. २.. मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छविम् . भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः .. ३.. रामः प्राह न मे मातर्भोजनावसरः कुतः . दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः .. ४.. कैकेयीवरदानेन सत्यसन्धः पिता मम . भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् .. ५.. चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् . आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि .. ६.. तच्छ्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता . आह रामं सुदुःखार्ता दुःखसागरसम्प्लुता .. ७.. यदि राम वनं सत्यं यासि चेन्नय मामपि . त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् .. ८.. यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् . तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् .. ९.. भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु . किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् .. १०.. कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु . त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा .. ११.. पिता गुरुर्यथा राम तवाहमधिका ततः . पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् .. १२.. यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः . तदा प्राणान्परित्यज्य गच्छामि यमसादनम् .. १३.. लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा . उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् .. १४.. उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् . बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि .. १५.. अद्य पश्यन्तु मे शौर्यं लोकान्प्रदहतः पुरा . राम त्वमभिषेकाय कुरु यत्नमरिन्दम .. १६.. धनुष्पाणिरहं तत्र निहन्त्य विघ्नकारिणः . इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः .. १७.. शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः . जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि .. १८.. यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् . यदि सत्यं भवेत्तत्र आयासः सफलश्च ते .. १९.. भोगा मेघवितानस्यविद्युल्लेखेव चञ्चलाः . आयुरप्यग्निसन्तप्तलोहस्यजलबिन्दुवत् .. २०.. यथा व्यालगलस्योऽपि भेको दंशानपेक्षते . तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् .. २१.. करोति दुःखेन हि कर्मतन्त्रं
शरीरभोगार्थमहर्निशं नरः .
देहस्तु भिन्नः पुरुषात्समीक्ष्यते
को वात्र भोगः पुरुषेण भुज्यते .. २२..
पितृमातृसुतभ्रातृदारबन्धवादिसङ्गमः . प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः .. २३.. छायेव लक्ष्मीश्चपला प्रतीता
तारुण्यमम्बूर्मिवदध्रुवं च .
स्वप्नोपमं स्त्रीसुखमायुरल्पं
तथापि जन्तोरभिमान एषः .. २४..
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला . गान्धर्वनगरप्रख्या मूढस्तामनुवर्तते .. २५.. आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः . दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते .. २६.. स एव दिवसः सैव रात्रिरित्येव मूढधीः . भोगाननुपतत्येव कालवेगं न पश्यति .. २७.. प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् . सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो .. २८.. जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते . मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते .. २९.. देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः . इत्यस्मिन्मनुते जन्तुः कृमिविड्भस्मसंज्ञिते .. ३०.. त्वगस्थिमांसविण्मूत्ररेतोरक्तादिसंयुतः . विकारी परिणामी च देह आत्मा कथं वद .. ३१.. यमास्थाय भवाँल्लोके दग्धुमिच्छति लक्ष्मण . देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि .. ३२.. देहोऽहमिति यो बुद्धिरविद्या सा प्रकीर्तिता . नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते .. ३३.. अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका . तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः . कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन .. ३४.. तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा . येनाविष्टः पुमान्हन्ति पितृभ्रातृसुहृत्सखीन् .. ३५.. क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् . धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज .. ३६.. क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी . सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् .. ३७.. तस्म्मच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते . देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः .. ३८.. आत्मा शुद्धः स्वयञ्ज्योतिरविकारी निराकृतिः . यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः .. ३९.. तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः . तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय .. ४०.. बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः . भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा .. ४१.. प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे . बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव .. ४२.. अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः . एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा .. ४३.. संसारदुःखैरखिलैर्बाध्यसे न कदाचन . त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा .. ४४.. समागमं प्रतीक्षाम्ब न दुःखैः पीड्यसे चिरम् . न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् .. ४५.. यथा प्रवाहपतितप्लवानां सरितां तथा . चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते .. ४६.. अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः . एवं चेत्सुखसंवासो भविष्यति वने मम .. ४७.. इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् . उत्थाप्याङ्केसमावेश्य आशीर्भिरभ्यनन्दयत् .. ४८.. सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः . रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुतम् .. ४९.. इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः . लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः .. ५०.. आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः . यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश .. ५१.. अनुगृह्णीष्व मां राम नोचेत्प्राणांस्त्यजाम्यहम् . तथेति राघवोऽप्याहलक्ष्मणं याहि मा चिरम् .. ५२.. प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः . आगतं पतिमालोक्य सीता सुस्मितभाषिणी .. ५३.. स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः . पप्रच्छ पतिमालोक्य देव किं सेनया विना .. ५४ आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः . वादित्राणि न वान्द्यते किरीटादिविवर्जितः .. ५५.. सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् . इति स्म सीतया पृष्टो रामः सस्मितमब्रवीत् .. ५६.. राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् . अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि .. ५७.. अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा . शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् .. ५८.. इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः . किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना .. ५९.. तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ . भरताय ददौ राज्यं वनवासं ममानघे .. ६०.. चतुर्दश समास्तत्र वासो मे किल याचितः . तया देव्या ददौ राजा सत्यवादी दयापरः .. ६१.. अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि . श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता .. ६२.. अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि . इत्याह मां विना गन्तुं तव राघव नोचितम् .. ६३.. तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् . कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् .. ६४.. राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः . सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः .. ६५.. कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे . अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन .. ६६.. काले काले फलं वापि विद्यते कुत्र सुन्दरि . मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः .. ६७.. गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् . एवं बहुविधं दोषं वनं दण्डकसञ्ज्ञितम् .. ६८.. पादचारेण गन्तव्यं शीतवातातपादिमत् . राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् .. ६९.. तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः . रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता .. ७०.. प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता . कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् .. ७१.. त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः . त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने .. ७२.. फलमूलादिकं यद्यत्तव भुक्तावशेषितम् . तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् .. ७३.. त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः . पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः .. ७४.. अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी . बाल्ये मां वीक्ष्य कश्चिद्वैज्योतिःशास्त्रविशारदः .. ७५.. प्राह ते विपिने वासः पत्या सह भविष्यति . सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह .. ७६.. अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् . रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः .. ७७.. सीतां विना वनं रामो गतः किं कुत्रचिद्वद . अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी .. ७८.. यदि गच्छसि मां त्यत्क्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः . इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः .. ७९.. अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह . अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च .. ८०.. ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् . इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः .. ८१.. ददौ गवां वृन्दशतं धनानि
वस्त्राणि दिव्यानि विभूषणानि .
कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो
मुदा द्विजेभ्यो रघुवंशकेतुः .. ८२..
अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च . रामो मातुः सेवकेभ्यो ददौ धनमनेकधा .. ८३.. स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च . पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः .. ८४.. लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् . धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः .. ८५.. रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् .. ८६.. श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः . पौरान् जानपदान् कुतूहलदृशः सानन्दमुद्वीक्षयन् . श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् . पादन्यासपवित्रिताखिलजगत् प्रापालयं तत्पितुः .. ८७.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे चतुर्थः सर्गः .. ४..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्याकाण्डम् ..
.. अथ पञ्चमः सर्गः ..
आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् . लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् .. १.. कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः . बत राजा दशरथः सत्यसन्धं प्रियं सुतम् .. २.. स्त्रीहेतोरत्यजत्कामी तस्य सत्यव्रतं कुतः . कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् .. ३.. विवासयामास कथं क्रूरकर्मातिमूढधीः . हे जना नात्र वस्तव्यं गच्छामोऽद्यैव काननम् .. ४.. यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति . पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् .. ५.. पुम्भिः कदाचिद्दृष्टा वा जानकी लोकसुन्दरी . सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता .. ६.. रामोऽपि पादचारेण गजाश्वादिविवर्जितः . गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् .. ७.. राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी . रामस्यापि भवेद्दुःखं सीतायाः पादयानतः .. ८.. बलवान्विधिरेवात्र पुम्प्रयत्नो हि दुर्बलः . इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः .. ९.. अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः . मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः .. १०.. एष रामः परो विष्णुरादिनारायणः स्मृतः . एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता .. ११.. असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् . एष मायागुणैर्युक्तस्तत्तदाकारवानिव .. १२.. एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः . सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः .. १३.. एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् . एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् .. १४.. नाव्यारोप्य लयस्यान्ते पालयामास राघवः . समुद्रमथने पूर्वं मन्दरे सुतलं गते .. १५.. अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः . मही रसातलं याता प्रलये सूकरोऽभवत् .. १६.. तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः . नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा .. १७.. त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः . पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा .. १८.. वामनत्वमुपागम्य याञ्चया चाहरत्पुनः . दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् .. १९.. स एव जगतां नाथ इदानीं रामतां गतः . रावणादीनि रक्षांसि कोटिशो निहनिष्यति .. २०.. मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः . राज्ञा दशरथेनापि तपसाराधितो हरिः .. २१.. पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः . स एव विष्णुः श्रीरामो रावणादिवधाय हि .. २२.. गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् . एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी .. २३.. राजा वा कैकेयी वापि नात्र कारणमण्वपि . पूर्वेद्युर्नारदः प्राह भूभारहरणाय च .. २४.. रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् . अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः .. २५.. रामरामेति ये नित्यं जपन्ति मनुजा भुवि . तेषां मृत्युभयादीनि न भवन्ति कदाचन .. २६.. का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः . रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् .. २७.. मायामानुषरूपेण विडम्बयति लोककृत् . भक्तानां भजनार्थाय रावणस्य वधाय च .. २८.. राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः . इत्युक्त्वा विररामाथ वामदेवो महामुनिः .. २९.. श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् . जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् .. ३०.. य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः . तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका .. ३१.. रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः . इत्युक्त्वा प्रययौ विप्रास्तेऽपि रामं परं विदुः .. ३२.. ततो रामः समाविश्य पितृगेहमवारितः . सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् .. ३३.. आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् . गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता .. ३४.. इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् . रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् .. ३५.. रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् . लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती .. ३६.. हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत . रामो गृहीत्वा तच्चीरमंशुके पर्यचेष्टयत् .. ३७.. तद् दृष्ट्वा रुरुदः सर्वे राजदाराः समन्ततः . वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा .. ३८.. कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः . वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि .. ३९.. यदि रामं समन्वेति सीता भक्त्या पतिव्रता . दिव्याम्बरधरा नित्यं सर्वाभरणभूषितम् .. ४०.. रमयत्वनिशं रामं वनदुःखनिवारिणी . राजा दशरथोऽप्याह सुमन्त्रं रथमानय .. ४१.. रथमारुह्य गच्छन्तु वनं वनचरप्रियाः . इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् .. ४२.. दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः . आरुरोह रथं सीता शीघ्रं रामस्य पश्यतः .. ४३.. रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् . लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा .. ४४.. गृहीत्वा रथमारुह्य नोदयामास सारथिम् . तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् .. ४५.. गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् . रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि .. ४६.. पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः . तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः .. ४७.. राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति . कौसल्याया राममातुरित्याह परिचारकान् .. ४८.. किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे . अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः .. ४९.. ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह . मूर्च्छितश्च चिराद्बुद्ध्वा तूष्णीमेवावतस्थिवान् .. ५०.. रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी . जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः .. ५१.. सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः . पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः .. ५२.. पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः . शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम् .. ५३.. इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः . नाहं गच्छामि नगरमेते वै क्लेशभागिनः .. ५४.. भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् . इदानीमेव गच्छामः सुमन्त्र रथमानय .. ५५.. इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् . आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् .. ५६.. अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः . तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः .. ५७.. रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः . हृदि रामं ससीतं ते ध्यायन्तस्तथुरन्वहम् .. ५८.. सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् . स्फीतान् जनपदान्पश्यन् रामः सीतासमन्वितः .. ५९.. गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः . गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः .. ६०.. शिंशिपावृक्षमूले स निषसाद रघूत्तमः . ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् .. ६१.. सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् . फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः .. ६२.. रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि . गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे .. ६३.. सम्पृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् . धन्योऽहमद्य मे जन्म नैषादं लोकपावन .. ६४.. बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम . नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम .. ६५.. त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह . आगच्छ यामो नगरं पावनं कुरु मे गृहम् .. ६६.. गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे . अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम .. ६७.. रामस्तमाह सुप्रीतो वचनं शृणु मे सखे . न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च .. ६८.. दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन . राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः .. ६९.. वटक्षीरं समानाय्य जटामुकुटमादरात् . बबन्ध लक्ष्मणेनाथ सहितो रथुनन्दनः .. ७०.. जलमात्रं तु सम्प्राश्य सीतया सह राघवः . आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि .. ७१.. उवास तत्र नगरप्रासादाग्रे यथा पुरा . सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते .. ७२.. ततोऽविदूरे परिगृह्य चापं
सबाणतूणीरधनुः स लक्ष्मणः .
ररक्ष रामं परितो विपश्यन्
गुहेन सार्धं सशरासनेन .. ७३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे पञ्चमः सर्गः .. ५..
________________________________________
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. अथ षष्ठः सर्गः ..
सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः . लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् .. १.. शयानं कुशपत्रौघसंस्तरे सीतया सह . यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे .. २.. कैकेयी रामदुःखस्य कारणं विधिना कृता . मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् .. ३.. तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम . कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च .. ४.. स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः .. ५.. सुखस्य दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा .
अहं करोमीति वृथाभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः .. ६..
सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः . स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते .. ७.. सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः . यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् .. ८.. न मे भोगागमे वाञ्छा न मे भोगविवर्जने . आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् .. ९.. स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा . कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा .. १०.. अलं हर्षविषादाभ्यां शुभाशुभफलोदये . विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः .. ११.. सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते . शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् .. १२.. सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् . द्वयमेतद्धि जन्तूनामालङ्घ्य दिनरात्रिवत् .. १३.. सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् . द्वयमन्योन्यसंयुक्तं प्रोच्यते जलकङ्कवत् .. १४.. तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु . न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् .. १५.. गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः . बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः .. १६.. उवाच शीघ्रं सुदृढं नावमानय मे सखे . श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः .. १७.. स्वयमेव दृढं नावमानिनाय सुलक्षणाम् . स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च .. १८.. वाहये ज्ञातिभिः सार्धमहमेव समाहितः . तथेति राघवः सीतामारोप्य शुभलक्षणाम् .. १९.. गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः . आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च .. २०.. गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् . गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी .. २१.. देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः . रामेण सहिताहं त्वां लक्ष्मणेन च पूजये .. २२.. सुरामांसोपहारैश्च नानाबलिभिरादृता . इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः .. २३.. गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह . अनुज्ञां देहि राजेन्द्र नोचेत्प्राणांस्त्यजाम्यहम् .. २४.. श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् . चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् .. २५.. आयास्याभ्युदितं सत्यं नासत्यं रामभाषितम् . इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः .. २६.. निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् .. २७.. तत्र मेध्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः . भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् .. २८.. ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः . भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः . तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो .. २९.. रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः . आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ .. ३०.. तच्छ्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः . स्वामिन् रामः समागत्य वनाद् बहिरवस्थितः .. ३१.. सभार्यः सानुजः श्रीमानाह मां देवसन्निभः . भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् .. ३२.. तच्छ्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः . गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ .. ३३.. दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् . आह मे पर्णशालां भो राम राजीवलोचन .. ३४.. आगच्छ पादरजसा पुनीहि रघुनन्दन . इत्युक्त्वोटजमानीय सीतया सह राघवौ .. ३५.. भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् . अद्याहं तपसः पारं गतोऽमि तव सङ्गमात् .. ३६.. ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् . जानामि त्वां परात्मानं मायया कार्यमानुषम् .. ३७.. यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा . यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः .. ३८.. जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् . इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम .. ३९.. यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् . रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः .. ४०.. अनुग्राह्यस्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः . इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ .. ४१.. प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः . कृताप्लवने मुनिना दृष्टमार्गेण राघवः .. ४२.. प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः . गत्वा रामोऽथ वाल्मीकेराश्रमं ऋषिसङ्कुलम् .. ४३.. नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् . तत्र दृष्ट्वा समासीनं वाल्मीकिं मुनिसत्तमम् .. ४४.. ननाम शिरसा रामो लक्ष्मणेन च सीतया . दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् .. ४५.. जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् . कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् .. ४६.. दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः . आलिङ्ग्य परमानन्दं रामं हर्षाश्रुलोचनः .. ४७.. पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरादृतः . फलमूलैः स मधुरैर्भोजयित्वा च लालितः .. ४८.. राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः . पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् .. ४९.. भवन्तो यदि जानन्ति किं वक्ष्यामोऽत्र कारणम् . यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् .. ५०.. सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् . इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् .. ५१.. त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् . तवापि सर्वभूतानि निवाससदनानि हि .. ५२.. एवं साधारणं स्थानमुक्तं ते रघुनन्दन . सीतया सहितस्येति विशेषं पृच्छतस्तव . तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् .. ५३.. शान्तानां समदृष्टीनामद्वेष्टाणां च जन्तुषु . त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् .. ५४.. धर्माधर्मान्परित्यज्य त्वामेव भजतोऽनिशम् . सीतया सह ते राम तस्य हृत्सुखमन्दिरम् .. ५५.. त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः . निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् .. ५६.. निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः . समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् .. ५७.. त्वयि दत्तमनोबुद्धिर्यः सन्तुष्ट सदाः भवेत् . त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् .. ५८.. यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यते . सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् .. ५९.. षड्भावादिविकारान्यो देहे पश्यति नात्मनि . क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते .. ६०.. संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् .. ६१.. पश्यन्ति ये सर्वगुहाशयस्थं
त्वां चिद्घनं सत्यमनन्तमेकम् .
अलेपकं सर्वगतं वरेण्यं
तेषां हृदब्जे सह सीतया वस .. ६२..
निरन्तराभ्यासदृढीकृतात्मनां
त्वत्पादसेवापरिनिष्ठितानाम् .
त्वन्नामकीर्त्या हतकल्मषाणां
सीतासमेतस्य गृहं हृदब्जे .. ६३..
राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् . यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् .. ६४.. अहं पुरा किरातेषु किरातैः सह वर्धितः . जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा .. ६५.. शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः . ततश्चोरैश्च सङ्गम्य चौरोऽहमभवं पुरा .. ६६.. धनुर्बाणधरो नित्यं जीवानामन्तकोपमः . एकदा मुनयः सप्त दृष्टा महति कानने .. ६७.. साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभः . तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् .. ६८.. ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् . दृष्ट्वा मां मुनयोऽपृच्छन्किमायासि द्विजाधम .. ६९.. अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः . पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः .. ७०.. तेषां संरक्षणार्थाय चरामि गिरिकानने . ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् .. ७१.. यो यो मया प्रतिदिनं क्रियते पापसञ्चयः . यूयं तद्भागिनः किं वा नेति वेति पृथक्पृथक् .. ७२.. वयं स्थास्यामहे तावदागमिष्यसि निश्चयः . तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् .. ७३.. अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघूत्तम . पापं तवैव तत्सर्वं वयं तु फलभागिनः .. ७४.. तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् . मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः .. ७५.. मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् . धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम् .. ७६.. रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् . इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः .. ७७.. उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः . उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे .. ७८.. परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः . उपेक्ष्य एव सद्वृत्तस्तथापि शरणं गतः . रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः .. ७९.. इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् . एकाग्रमनसात्रैव मरेति जप सर्वदा .. ८०.. आगच्छामः पुनर्यावत्तावदुक्तं सदा जप . इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनः .. ८१.. अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा . जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् .. ८२.. एवं बहुतिथे काले गते निश्चलरूपिणः . सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि .. ८३.. ततो युगसहस्रान्ते ऋषयः पुनरागमन् . मामूचुर्निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः .. ८४.. वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः . मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर .. ८५.. वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् . इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम .. ८६.. अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् . अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च .. ८७.. रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः . आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् .. ८८.. एवमुक्त्वा मुनिः श्रीमाँल्लक्ष्मणेन समन्वितः . शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः .. ८९.. तत्र शालां सुविस्तीर्णं कारयामास वासभूः . प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् .. ९०.. जानक्या सहितो रामो लक्ष्मणेन समन्वितः . तत्र ते देवसदृशा ह्यवसन् भवनात्तमे .. ९१.. वाल्मीकिना तत्र सुपूजितोऽयं
रामः ससीतः सह लक्ष्मणेन .
देवैर्मुनीन्द्रैः सहितो मुदास्ते
स्वर्गे यथा देवपतिः सशच्या .. ९२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे षष्ठः सर्गः .. ६..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्याकाण्डम् ..
.. अथ सप्तमः सर्गः ..
सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह . वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः .. १.. बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ . जयशब्देन राजानं स्तुत्वा तं प्रणनाम ह .. २.. ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् . सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च .. ३.. कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् . सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् .. ४.. हा राम हा गुणनिधे हा सीते प्रियवादिनि . दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि .. ५.. विलप्यैवं चिरं राजा निमग्नो दुःखसागरे . एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् .. ६.. रामः सीता च सौमित्रिर्मया नीता रथेन ते . शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः .. ७.. गुहेन किञ्चिदानीतं फलमूलादिकं च यत् . स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् .. ८.. वटक्षीरः समानाय्य गुहेन रघुनन्दनः . जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् .. ९.. सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते . साकेतादधिकं सौख्यं विपिने नो भविष्यति .. १०.. मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते . आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् .. ११.. सीता चाश्रुपरीताक्षी मामाह नृपसत्तम . दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती .. १२.. साष्टाङ्गं प्रणिपातं मे ब्रूहि श्वश्रोः पदाम्बुजे . इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी .. १३.. ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा . यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः .. १४.. ततो दुःखेन महता पुनरेवाहमागतः . ततो रुदन्ती कौसल्या राजनमिदमब्रवीत् .. १५.. कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान्वरम् . त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः .. १६.. कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि . कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना .. १७.. पुनः शाकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् . दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् .. १८.. इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः . शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा .. १९.. पुराहं यौवने दृप्तचापबाणधरो निशि . अचरं मृगयासक्तो नद्यास्तीरे महावने .. २०.. तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः . पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः . अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् .. २१.. गजः पिबति पानीयमिति मत्वा महानिशि . बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् .. २२.. हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः . कस्यापि न कृतो दोषो मया केन हतो विधे .. २३.. प्रतीक्षते मां माता च पिता च जलकाङ्क्षया . तच्छ्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः .. २४.. शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् . अजानता मया विद्धस्त्रातुमर्हसि मां मुने .. २५.. इत्युक्त्वा पादयोस्तस्य पतितो गद्गदाक्षरः . तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम .. २६.. ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः . पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ .. २७.. तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् . न चेत्त्वां भस्मसात्कुर्यात्पितामे यदि कुप्यति .. २८.. जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय . शल्यमुद्धर मे देहात्प्राणांस्त्यक्ष्यामि पीडितः .. २९.. इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः . सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती .. ३०.. अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि . नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् .. ३१.. अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ . आवामुपेक्षते किं वा भक्तिमानावयोः सुतः .. ३२.. इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् . श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया .. ३३.. देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक . इत्येवं लपतोर्भीत्या सकाशमगमं शनैः .. ३४.. पादयोः प्रणिपत्याहमब्रवं विनयान्वितः . नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् .. ३५.. पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः . जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् .. ३६.. श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् . हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः .. ३७.. जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् . भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् .. ३८.. मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते . मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् .. ३९.. इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः . रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् .. ४०.. इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् . पतितौ नौ सुतो यत्र नय तत्राविलम्बयन् .. ४१.. ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती . स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः .. ४२.. हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम् . जलं देहीति पुत्रेति किमर्थं न ददास्यलम् .. ४३.. ततो मामूचतुः शीघ्रं चितिं रचय भूपते . मया तदैव रचिता चितिस्तत्र निवेशिताः . त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः .. ४४.. तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि . पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम .. ४५.. स इदानीं मम प्राप्तः शापकालोऽनिवारितः . इत्युक्त्वा विललापाथ राजा शोकसमाकुलः .. ४६.. हा राम पुत्र हा सीतेति लक्ष्मण गुणाकर . त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् .. ४७.. वदन्नेवं दशरथः प्राणांस्त्यक्त्वा दिवं गतः . कौसल्या च सुमित्रा च तथान्या राजयोषितः .. ४८.. चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् . वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः .. ४९.. तैलद्रोण्यां दशरथं क्षित्वा दूतानथाब्रवीत् . गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति .. ५०.. तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः . उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया .. ५१.. अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु . इत्युक्त्वास्त्वरितं दूता गत्वा भरतमातुलम् .. ५२.. युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति . वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः .. ५३.. शीघ्रमागच्छतु पुरीमयोध्यामविचारयन् . इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः .. ५४.. आययौ गुरुणादिष्टः सह दूतैस्तु सानुजः . राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् .. ५५.. इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ . नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् .. ५६.. उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् . प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् .. ५७.. अपश्यत्कैकेयीं तत्र एकामेवासने स्थितम् . ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः .. ५८.. आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् . उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता .. ५९.. मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा . पिता मे कुशलो भ्राता माता च शुभलक्षणा .. ६०.. दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक . इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः .. ६१.. दूयमानेन मनसा मातरं समपृच्छत . मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता .. ६२.. त्वया विना न मे तातः कदाचिद्रहसि स्थितः . इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद .. ६३.. अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते . अथाह कैकेयी पुत्र किं दुःखेन तवानघ .. ६४.. या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् . तां गतिं गतवानद्य पिता ते पितृवत्सल .. ६५.. तच्छ्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः . हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे .. ६६.. असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः . इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् .. ६७.. उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् . समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया .. ६८.. तामाह भरतस्तातो म्रियमाणः किमब्रवीत् . तमाह कैकेयी देवी भरतं भयवर्जिता .. ६९.. हा राम राम सीतेति लक्ष्मणेति पुनः पुनः . विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ .. ७०.. तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् . तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः .. ७१.. रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः . तव राज्यप्रदानाय तदाहं विघ्नमाचरम् .. ७२.. राज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् . याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् .. ७३.. राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् . ततः सत्यपरो राजा राज्यं दत्त्वा तदैव हि .. ७४.. रामं सम्प्रेषयामास वनमेव पिता तव . सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता .. ७५.. सौभ्रात्रं दर्शयन्राममनुयातोऽपि लक्ष्मणः . वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् .. ७६.. प्रलपन् राम रामेति ममार नृपसत्तमः . इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः .. ७७.. पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा . कैकेयी पुनरप्याह वत्स शोकेन किं तव .. ७८.. राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः . इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव .. ७९.. असम्भाष्यासि पापे मे घोरे त्वं भर्तृघातिनी . पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् . अहमग्निं प्रवेक्ष्यामि विषं वा भक्षयाम्यहम् .. ८०.. खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् . भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि .. ८१.. इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ . सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह .. ८२.. पादयोः पतितस्तस्या भरतोऽपि तदारुदत् . आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी . कृशातिदीनवदना साश्रुनेत्रेदमब्रवीत् .. ८३.. पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् . उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् .. ८४.. पुत्रः सभार्यो वनमेव यातः
सलक्ष्मणो मे रघुरामचन्द्रः .
चीराम्बरो बद्धजटाकलापः
सन्त्यज्य मां दुःखसमुद्रमग्नाम् .. ८५..
हा राम हा मे रघुवंशनाथ
जातोऽसि मे त्वं परतः परात्मा .
तथापि दुःखं न जहाति मां वै
विधिर्बलीयानिति मे मनीषा .. ८६..
स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा . पादौ गृहीत्वा प्राहेदं शृणु मातर्वचो मम .. ८७.. कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने . अन्यद्वा यदि जानामि सा मया नोदिता यदि .. ८८.. पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् . हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् .. ८९.. भूयात्तत्पापमखिलं मम जानामि यद्यहम् . इत्येवं शपथं कृत्वा रुरोद भरतस्तदा .. ९०.. कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः . एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् .. ९१.. वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् . रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् .. ९२.. वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः . भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः .. ९३.. अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् . अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः .. ९४.. तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् . आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः .. ९५.. शरीरं जडमत्यर्थमपवित्रं विनश्वरम् . विचार्यमाणे शोकस्य नावकाशः कथञ्चन .. ९६.. पिता वा तनयो वापि यदि मृत्युवशं गतः . मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् .. ९७.. निःसारे खलु संसारे वियोगो ज्ञानिनां यदा . भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च .. ९८.. जन्मवान्यदि लोकेऽस्मिंस्तर्हि तं मृत्युरन्वगात् . तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा .. ९९.. स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ . विजानन्नप्यविद्वान्यः कथं शोचति बान्धवान् .. १००.. ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः . शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते .. १०१.. चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् . आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव .. १०२.. देही प्राक्तनदेहोत्थकर्मणा देहवान्पुनः . तद्देहोत्थेन च पुनरेवं देहः सदात्मनः .. १०३.. यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् . तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् .. १०४.. भजत्येव सदा तत्र शोकस्यावसरः कुतः . आत्मा न म्रियते जातु जायते न च वर्धते .. १०५.. षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः . आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः .. १०६.. एक एव परो ह्यात्मा
ह्यद्वितीयः समः स्थितः .
इत्यात्मानं दृढं ज्ञात्वा
त्यक्त्वा शोकं कुरु क्रियाम् .. १०७..
तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह . कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन .. १०८.. इति सम्बोधितः साक्षाद् गुरुणा भरतस्तदा . विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् .. १०९.. गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि . संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा .. ११०.. एकादशेऽहनि प्राप्ते ब्राह्मणान्वेदपारगान् . भोजयामास विधिवच्छतशोऽथ सहस्रशः .. १११.. उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु . ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च .. ११२.. अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् . वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः .. ११३.. रामेऽरण्यं प्रयाते सह जनकसुता लक्ष्मणाभ्यां सुघोरं माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः . गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे .. ११४.. इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे सप्तमः सर्गः .. ७..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्याकाण्डम् ..
.. अष्टमः सर्गः ..
वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः . राज्ञः सभां देवसभासन्निभामविशद्विभुः .. १.. तत्रासने समासीनश्चतुर्मुख इवापरः . आनीय भरतं तत्र उपवेश्य सहानुजम् .. २.. अब्रवीद्वचनं देशकालोचितमरिन्दमम् . वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् .. ३.. कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ . सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल .. ४.. अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् . तच्छ्रुत्वा भरतोऽप्याह मम राज्येन किं मुने .. ५.. रामो राजाधिराजश्च वयं तस्यैव किङ्कराः . श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा .. ६.. अहं यूयं मातरश्च कैकेयीं राक्षसीं विना . हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् .. ७.. किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते . तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् .. ८.. शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा . रामो यथा वने यातस्तथाहं वल्कलाम्बरः .. ९.. फलमूलकृताहारः शत्रुघ्नसहितो मुने . भूमिशायी जटाधारी यावद्रामो निवर्तते .. १०.. इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् . साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः .. ११.. ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः . अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः .. १२.. कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः . छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः .. १३.. शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः . उवास महती सेना शत्रुघ्नपरिचोदिता .. १४.. आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः . महत्या सेनया सार्धमागतो भरतः किल .. १५.. पापं कर्तुं न वा याति रामस्याविदितात्मनः . गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति .. १६.. गङ्गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः . ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतो दिशम् .. १७.. इति सर्वान्समादिश्य गुहो भरतमागतः . उपायनानि सङ्गृह्य विविधानि बहून्यपि .. १८.. प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः . निवेद्योपयानान्यग्रे भरतस्य समन्ततः .. १९.. दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः . चीराम्बरं घनश्यामं जटामुकुटधारिणम् .. २०.. राममेवानुशोचन्तं रामरामेति वादिनम् . ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् .. २१.. शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् . पृष्ट्वाऽनामयमव्यग्रः सखायमिदमब्रवीत् .. २२.. भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः . रामेणालिङ्गितः सार्द्रनयनेनामलात्मना .. २३.. धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः . रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया .. २४.. यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत . सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे .. २५. त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् . इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः .. २६.. गुहेन सहितस्तत्र यत्र रामः स्थितो निशि . ययौ ददर्श शयनस्थलं कुशसमास्तृतम् .. २७.. सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् . दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् .. २८.. अहोऽतिसुकुमारी या सीता जनकनन्दिनी . प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे .. २९.. रामेण सहिता शेते सा कथं कुशविष्टरे . सीता रामेण सहिता दुःखेन मम दोषतः .. ३०.. धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः . मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः .. ३१.. अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः . राममेव सदान्वेति वनस्थमपि हृष्टधीः .. ३२.. अहं रामस्य दासा ये तेषां दासस्य किङ्करः . यदि स्यां सफलं जन्म मम भूयान्न संशयः .. ३३.. भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् . यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा .. ३४.. गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् . देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी .. ३५.. रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा . चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः .. ३६.. मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः . जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः .. ३७.. तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि . इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह .. ३८.. समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् . स्वयमेवानिनायैकां राजनावं गुहस्तदा .. ३९.. आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् . वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः .. ४०.. तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति . दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ .. ४१.. आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् . दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः .. ४२.. ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् . पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् .. ४३.. राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् . आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् .. ४४.. भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः . सर्वं जानासि भगवन् सर्वभूताशयस्थितः .. ४५.. तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे . कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् .. ४६.. वनवासादिकं वापि न हि जानामि किञ्चन . भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम .. ४७.. इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः . ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा .. ४८.. मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि . किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः .. ४९.. अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके . पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् .. ५०.. अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह . नेष्येऽयोध्यां रमानाथं दासः सेवेऽतिनीचवत् .. ५१.. इत्युदीरितमाकर्ण्य भरतस्य वचो मुनिः . आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः .. ५२.. वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा . मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि .. ५३.. आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ . अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् .. ५४.. यथाऽऽज्ञापयति भवांस्तथेति भरतोऽब्रवीत् . भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः .. ५५.. दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः . असृजत्कामधुक् सर्वं यथाकाममलौकिकम् .. ५६.. भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् . यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः .. ५७.. वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा . पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् .. ५८.. उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे . अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः .. ५९.. भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् . चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् . रामसंदर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् .. ६०.. शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः . तपस्विमण्डलं सर्वं विचित्वानो न्यववर्त .. ६१.. अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् . कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः .. ६२.. ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे . विविक्तं रामसदनं रम्यं काननमण्डितम् .. ६३.. सफलैराम्रपनसैः कदलीखण्डसंवृतम् . चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा .. ६४.. एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः . हर्षाद् ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह .. ६५.. ददर्श दूरादतिभासुरं शुभं
रामस्य गेहं मुनिवृन्दसेवितम् .
वृक्षाग्रसंलग्नसुवल्कलाजिनं
रामाभिरामं भरतः सहानुजः .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे अष्टमः सर्गः .. ८..
________________________________________
.. अध्यात्मरामायणम् ..
.. अयोध्याकाण्डम् ..
.. अथ नवमः सर्गः ..
अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा . सीतारामपदैर्युक्तं पवित्रमतिशोभनम् .. १.. स तत्र वज्राङ्कुशवारिजाञ्चित
ध्वजादिचिह्नानि पदानि सर्वतः .
ददर्श रामस्य भुवोऽतिमङ्गलानि
अचेष्टयत्पादरजःसु सानुजः .. २..
अहो सुधन्योऽहममूनिराम-
पादारविन्दाङ्कितभूतलानि .
पश्यामि यत्पादरजो विमृग्यं
ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् .. ३..
इत्यद्भुतप्रेमरसाप्लुताशयो
विगाढचेता रघुनाथभावने .
आनन्दजाश्रुस्नपितस्तनान्तरः
शनैरवापाश्रमसन्निधिं हरेः .. ४..
स तत्र दृष्ट्वा रघुनाथमास्थितं
दूर्वादलश्यामलमायतेक्षणम् .
जटाकिरीटं नववल्कलाम्बरं
प्रसन्नवक्त्रं तरुणारुणद्युतिम् .. ५..
विलोकयन्तं जनकात्मजां शुभां
सौमित्रिणा सेवितपादपङ्कजम् .
तदाभिदुद्राव रघूत्तमं शुचा
हर्षाच्च तत्पादयुगं त्वराग्रहीत् .. ६..
रामस्तमाकृष्य सुदीर्घबाहु-
र्दोर्भ्यां परिष्वज्य सिषिञ्च नेत्रजैः .
जलैरथाङ्कोपरि संन्यवेशयत्
पुनः पुनः संपरिषस्वजे विभुः .. ७..
अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः . राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् .. ८.. रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः . ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता .. ९.. इतराश्च तथा नत्वा जननी रघुनन्दनः . ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् .. १०.. साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः . यथार्हमुपवेश्याह सर्वानेव रघूद्वहः .. ११.. पिता मे कुशली किं वा मां किमाहातिदुःखितः . वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन .. १२.. त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् . राम रामेति सीतेति लक्ष्मणेति ममार ह .. १३.. श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा . हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः .. १४.. ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे . हा तात मां परित्यज्य क्व गताऽसि घृणाकर .. १५.. अनाथोऽस्मि महाबाहो मां को वा लालयेदितः . सीता च लक्ष्मणश्चैव विलेपतुरतो भृशम् .. १६.. वसिष्ठः शान्तवचनैः शमयामास तां शुचम् . ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः .. १७.. राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे . पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः .. १८.. इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् . वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः .. १९.. इति दुखाश्रुपूर्णाक्षः पुनः स्नात्वा गृहं ययौ . सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् .. २०.. तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे . ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले .. २१.. उपविष्टं समागम्य भरतो राममब्रवीत् . राम राम महाभाग स्वात्मानमभिषेचय .. २२.. राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा . क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् .. २३.. इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे . राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् .. २४.. इदानीं वनवासस्य कालो नैव प्रसीद मे . मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः .. २५.. इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः . रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि .. २६.. उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः . उवाच भरतं रामः स्नेहार्द्रनयनः शनैः .. २७.. शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् . किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च .. २८.. उषित्वा दण्डकारणे पुरं पश्चात्समाविश . इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् .. २९.. ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि . दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च .. ३०.. अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः . पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते .. ३१.. स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् . तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपालकाः .. ३२.. भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता . स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति . तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः .. ३३..
श्रीराम उवाच
न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधीः . पूर्वं प्रातिश्रुतं तस्य सत्यवादी ददौ भयात् .. ३४.. असत्याद्भीतिरधिका महतां नरकादपि . करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् .. ३५.. कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् . इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् .. ३६..
श्रीभरत उवाच
तथैव चीरवसनो वने वत्स्यामि सुव्रते . चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् .. ३७..
श्रीराम उवाच
पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ . व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् .. ३८.. अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा . नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् .. ३९.. इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे . मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः .. ४०.. भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः . नेत्रान्तसञ्ज्ञां गुरवे चकार रघुनन्दनः .. ४१.. एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः . वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् .. ४२.. रामो नारायणः साक्षाद् ब्रह्मणा याचितः पुरा . रावणस्य वधार्थाय जातो दशरथात्मजः .. ४३.. योगमायापि सीतेति जाता जनकनन्दिनी . शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा .. ४४.. रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः . कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् .. ४५.. सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम् . तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने .. ४६.. निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् . रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति .. ४७.. इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः . गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः .. ४८.. पादुके देहि राजेन्द्र राज्याय तव पूजिते . तयोः सेवां करोम्येव यावदागमनं तव.. ४९.. इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः . रामस्य ते ददौ रामो भरतायातिभक्तितः .. ५० गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते . रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः .. ५१.. भरतः पुनराहेदं भक्त्या गद्गदया गिरा . नवपञ्चसमान्ते तु प्रथमे दिवसे यदि .. ५२.. नागमिष्यसि चेद्राम प्रविश्यामि महानलम् . बाढमित्येव तं रामो भरतं संन्यवर्तयत् .. ५३.. ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः . मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे .. ५४.. कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला . प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् .. ५५.. कृतं मया दुष्टधिया मायामोहितचेतसा . क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः .. ५६.. त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः . मायामानुषरूपेण मोहयस्यखिलं जगत् . त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा .. ५७.. त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् . यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया .. ५८.. त्वदधीना तथा माया नर्तकी बहुरूपिणी . त्वयैव प्रेरिताहं च देवकार्यं करिष्यता .. ५९.. पापिष्ठं पापमनसा कर्माचरमरिन्दम . अद्य प्रतीतोऽसि मम देवानामप्यगोचरः .. ६०.. पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते . छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् .. ६१.. त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता . कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् .. ६२.. यदाह मां महाभागे नानृतं सत्यमेव तत् . मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता .. ६३.. देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव . गच्छ त्वं मां हृदा नित्यं भावयन्ती दिवानिशम् .. ६४.. सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् . अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा .. ६५.. नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् . मन्मायामोहितधियो मामम्ब मनुजाकृतिम् .. ६६.. सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः . दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् .. ६७.. स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः . इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया .. ६८.. प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता . भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह .. ६९.. अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् . पौरजानपदान् सर्वानयोध्यायामुदारधीः .. ७०.. स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् . तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः .. ७१.. पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः . राजोपचारैरखिलैः प्रत्यहं नियतव्रतः .. ७२.. फलमूलाशनो दान्तो जटावल्कलधारकः . अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा .. ७३.. राजकार्याणि सर्वाणि यावन्ति पृथिवीतले . तानि पादुकयोः सम्यङ्निवेदयति राघवः .. ७४.. गणयन् दिवसान्येव रामागमनकाङ्क्षया . स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा .. ७५.. रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः . सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् .. ७६.. नागराश्च सदा यान्ति रामदर्शनलालसाः . चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च .. ७७.. दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् . दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् .. ७८.. अन्वगात्सीतया भ्रात्रा ह्यत्रेराश्रममुत्तमम् . सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् .. ७९.. गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् . दण्डवत्प्रणिपत्याह रामोऽहमभिवादये .. ८०.. पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः . वनवासमिषेणापि धन्योऽहं दर्शनात्तव .. ८१.. श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् . पूजयामास विधिवद्भक्त्या परमया मुनिः .. ८२.. वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् . सीतां च लक्ष्मणं चैव सन्तुष्टो वाक्यमब्रवीत् .. ८३.. भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता . तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला .. ८४.. अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन . तथेति जानकीं प्राह रामो राजीवलोचनः .. ८५.. गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे . तथेति रामवचनं सीता चापि तथाकरोत् .. ८६.. दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्टधीः . अनसूया समालिङ्ग्य वत्से सीतेति सादरम् .. ८७.. दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा . दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता .. ८८.. अङ्गरागं च सीतायै ददौ दिव्यं शुभानना . न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने .. ८९.. पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि . कुशली राघवो यातु त्वया सह पुनर्गृहम् .. ९०.. भोजयित्वा यथान्यायं रामं सीतासमन्वितम् . लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः .. ९१.. राम त्वमेव भुवनानि विधाय तेषां
संरक्षणाय सुरमानुषतिर्यगादीन् .
देहान्बिभर्षि न च देहगुणैर्विलिप्तस्त्वत्तो
बिभेत्यखिलमोहकरी च माया .. ९३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे नवमः सर्गः .. ९..