ईषद् ईषत् ..... शिरीषकुसुमानि ॥१.०४॥

विकिपुस्तकानि तः

ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥१.०४॥

पदच्छेदः-
ईषद् ईषत् चुम्बितानि भ्रमरैः सुकुमार-केसरशिखानि ।अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥१.०४॥

अन्वयः-
दयमानाः प्रमदाः, भ्रमरैः ईषद् ईषत् चुम्बितानि सुकुमार-केसरशिखानि शिरीषकुसुमानि अवतंसयन्ति ॥१.०४॥

सन्दर्भः-

सरलार्थः-
शिरीषपुष्पाणां कोमलाः केसरशिखाः भ्रमरैः अल्पशः चुम्बिताः। तादृशानि शिरीषपुष्पाणि मदोत्कटाः स्त्रियः अलङ्काररूपेण धारयन्ति।

वृत्तम् –

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि                  अभिज्ञानशाकुन्तले ...वृत्तनिबद्धानि पद्यानि
सुभग-सलिल-अवगाहाः.....परिणामरमणीयाः ॥१.०३॥    तव अस्मि .....अतिरंहसा ॥१.०५॥