सुभग-सलिल-अवगाहाः.....परिणामरमणीयाः ॥१.०३॥

विकिपुस्तकानि तः

सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताःप्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥१.०३॥

पदच्छेदः-
सुभग-सलिल-अवगाहाः पाटलसंसर्गसुरभि-वनवाताःप्रच्छाय-सुलभनिद्राः दिवसाः परिणामरमणीयाः ॥१.०३॥

अन्वयः-
सुभग-सलिल-अवगाहाः, पाटलसंसर्गसुरभि-वनवाताः,प्रच्छाय-सुलभनिद्राः परिणामरमणीयाः दिवसाः ॥१.०३॥

सन्दर्भः-
सूत्रकारेण कृतं ग्रीष्मवर्णनमिदम्।

सरलार्थः-
ग्रीष्मे जले अवगाहः सुखदः भवति।पाटलपुष्पाणां संसर्गेण वनवाताः सुरभयः भवन्ति।वृक्षाणां निबिडासु छायासु निद्रा सुखेन प्राप्यते। दिवसानाम् अन्तिमः भागः (सायंकालः) रमणीयः भवति।

वृत्तम् –

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि             अभिज्ञानशाकुन्तले ...वृत्तनिबद्धानि पद्यानि
आ परितोषाद् .....अप्रत्ययं चेतः ॥१.०२        ईषद् ईषत् ..... शिरीषकुसुमानि ॥१.०४॥