सामग्री पर जाएँ

कामसूत्र

विकिपुस्तकानि तः

साधारणम्

[सम्पाद्यताम्]

शास्त्रसंग्रहः

[सम्पाद्यताम्]

१.१.१> धर्मअर्थकामेभ्यो नमः//(पृष्ठ २)

१.१.२> शास्त्रे प्रकृतत्वात्//(पृष्ठ २)

१.१.३> तत्समयअवबोधकेभ्यश् चआचार्येभ्यः//(पृष्ठ ३)

१.१.४> तत्संबन्धात्//(पृष्ठ ३)

१.१.५> प्रजापतिर् हि प्रजाः सृष्ट्वा ताषां स्थितिनिबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणअग्रे प्रोवाच//(पृष्ठ ३)

१.१.६> तस्यएकदेशिकं मनुः स्वायंभुवो धर्मअधिकारिकं पृथक् चकार//(पृष्ठ ४)

१.१.७> बृहस्पतिर् अर्थअधिकारिकम्//(पृष्ठ ४)

१.१.८> महादेवअनुचरश् च नन्दी सहस्रेणअध्यायानां पृथक् कामसूत्रं प्रोवाच//(पृष्ठ ४)

१.१.९> तद् एव तु पञ्चभिर् अध्यायशतैर् औद्दालकिः श्वेतकेतुः संचिक्षेप//(पृष्ठ ४)

१.१.१०> तद् एव तु पुनर् अध्यर्धेनअध्यायशतेन साधारणसांप्रयोगिककन्यासंप्रयुक्तकभार्याअधिकारिकपारदारिकवैशि कऔपनिषदिकः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप//(पृष्ठ ५)

१.१.११> तस्य षष्ठं वैशिकम् अधिकरणं पाटलिपुत्रिकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार//(पृष्ठ ५)

१.१.१२> तत्प्रसङ्गाच् चारायणः साधारणम् अधिकरणं पृथक् प्रोवाच/ सुवर्णनाभः सांप्रयोगिकम्/ घोटकमुखः कन्यासंप्रयुक्तकम्/ गोनर्दीयो भार्याअधिकारिकम्/ गोणिकापुत्रः पारदारिकम्/ कुचुमार औपनिषदिकम् इति/

१.१.१३> एवं बहुभिर् आचार्यैस् तच्छास्त्रं खण्डशः प्रणीतम् उत्सन्नकल्पम् अभूत्/

१.१.१४> तत्र दत्तकआदिभिः प्रणीतानां शास्त्रअवयवानाम् एकदेशत्वात्, महद् इति च बाभ्रवीयस्य दुरध्येयत्वात्, संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्//(पृष्ठ ६)

१.१.१५> तस्यअयं प्रकरणअधिकरणसमुद्देशः ---(पृष्ठ ७)

१.१.१६> शास्त्रसंग्रहः/ त्रिवर्गप्रतिपत्तिः/ विद्यासमुद्देशः/ नागरिकवृत्तम्/ नायकसहायदूतीकर्मविमर्शः/ इति साधारणं प्रथमम् अधिकरणम्/ अध्यायाः पञ्च/ प्रकरणानि पञ्च/(पृष्ठ ७)

१.१.१७> प्रमाणकालभावेभ्यो रतअवस्थापनम्/ प्रीतिविशेषाः/ आलिङ्गनविचाराः/ चुम्बनविकल्पाः/ नखरदनजातयः/ दशनच्छेद्यविधयः/ देश्या उपचाराः/ संवेशनप्रकाराः/ चित्ररतानि/ प्रहणनयोगाः/ तद्युक्ताश् च सीत्कृतौपक्रमाः/ पुरुषायितम्/ पुरुषोपसृप्तानि/ औपरिष्टकम्/ रतआरम्भअवसानिकम्/ रतविशेषाः/ प्रणयकलहः/ इति सांप्रयोगिकं द्वितीयम् अधिकरणम्/ अध्याया दश/ प्रकरणानि सप्तदश/(पृष्ठ ७)

१.१.१८> वरणविधानम्/ संबन्धनिर्णयः/ कन्याविस्रम्भणम्/ *बालाया[अन्यत्र : बालायाः] उपक्रमाः/ इङ्गितआकारसूचनम्/ एकपुरुषअभियोगः/ प्रयोज्यस्यौपावर्तनम्/ अभियोगतश् च कन्यायाः प्रतिपत्तिः/ विवाहयोगः/ इति कन्यासंप्रयुक्तकं तृतीयम् अधिकरणम्/ अध्यायाः पञ्च/ प्रकरणानि नव/(पृष्ठ ७)

१.१.१९> एकचारिणीवृत्तम्/ प्रवासचर्या/ सपत्नीषु ज्येष्ठावृत्तम्/ कनिष्ठावृत्तम्/ पुनर्भूवृत्तम्/ दुर्भगावृत्तम्/ *आन्तःपुरिकम्[अन्यत्र : न्तःपुरिकम्]/ पुरुषस्य (पृष्ठ ८) बह्वीषु प्रतिपत्तिः/ इति भार्याअधिकारिकं चतुर्थम् अधिकरणम्/ अध्यायौ द्वौ/ प्रकरणान्य् अष्टौ/(पृष्ठ ८)

१.१.२०> स्त्रीपुरुषशीलअवस्थापनम्/ व्यावर्तनकारणानि/ स्त्रीषु सिद्धाः पुरुषाः/ अयत्नसाध्या योषितः/ परिचयकारणानि/ अभियोगाः/ भावपरीक्षा/ दूतीकर्माणि/ ईश्वरकामितम्/ आन्तःपुरिकं दाररक्षितकम्/ इति पारदारिकं पञ्चमम् अधिकरणम्/ अध्यायाः षट्/ प्रकरणानि दश/(पृष्ठ ८)

१.१.२१> गम्यचिन्ता/ गमनकारणानि/ उपावर्तनविधिः/ कान्तअनुवर्तनम्/ अर्थआगमौपायाः/ विरक्तलिङ्गानि/ विरक्तप्रतिपत्तिः/ निष्कासनप्रकाराः/ विशीर्णप्रतिसंधानम्/ लाभविशेषः/ अर्थअनर्थअनुबन्धसंशयविचारः/ वेश्याविशेषाश् च/ इति वैशिकं षष्ठम् अधिकरणम्/ अध्यायाः षट्/ प्रकरणानि द्वादश/(पृष्ठ ८)

१.१.२२> सुभगंकरणम्/ वशीकरणम्/ वृष्याश् च योगाः/ नष्टरागप्रत्यानयनम्/ वृद्धिविधयः/ चित्राश् च योगाः/ इत्य् औपनिषदिकं सप्तमम् अधिकरणम्/ अध्यायौ द्वौ/ प्रकरणानि षट्/ (पृष्ठ ८)

१.१.२३> एवं षट्त्रिंशद् अध्यायाः/ चतुःषष्टिः प्रकरणानि/ अधिकरणानि सप्त/ सपादं श्लोकसहस्रम्/ इति शास्त्रस्य संग्रहः//(पृष्ठ ८)

१.१.२४क > संक्षेपम् इमम् उक्त्वाअस्य विस्तरो +अतः प्रवक्ष्यते/(पृष्ठ ९)

१.१.२४ख > इष्टं हि विदुषां लोके समासव्यासभाषणम्//(पृष्ठ ९)

त्रिवर्गप्रतिपत्तिः

[सम्पाद्यताम्]

१.२.१> शतआयुर् वै पुरुषो विभज्य कालम् अन्योन्यअनुबद्धं परस्परस्यअनुपघातकं त्रिवर्गं सेवेत//(पृष्ठ १०)

१.२.२> बाल्ये विद्याग्रहणआदीन् अर्थान्//(पृष्ठ १०)

१.२.३> कामं च यौवने//(पृष्ठ ११)

१.२.४> स्थाविरे धर्मं मोक्षं च//(पृष्ठ ११)

१.२.५> अनित्यत्वाद् आयुषो यथाउपपादं वा सेवेत//(पृष्ठ ११)

१.२.६> ब्रह्मचर्यम् एव त्व् आ विद्याग्रहणात्//(पृष्ठ ११)

१.२.७> अलौकिकत्वाद् अदृष्टअर्थत्वाद् अप्रवृत्तानां यज्ञाआदीनां शास्त्रात् प्रवर्तनम्, *लौकिकत्वाद्[अन्यत्र : लौकित्वाद्] दृष्टअर्थत्वाच् च प्रवृत्तेभ्यश् च मांसभक्षणआदिभ्यः शास्त्राद् एव निवारणं धर्मः//(पृष्ठ १२)

१.२.८> तं श्रुतेर् धर्मज्ञसमवायाच् च प्रतिपद्येत//(पृष्ठ १२)

१.२.९> विद्याभूमिहिरण्यपशुधान्यभाण्डौपस्करमित्रआदीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः//(पृष्ठ १२)

१.२.१०> तम् अध्यक्षप्रचाराद् वार्तासमयविद्भ्यो वणिग्भ्यश् चैति//(पृष्ठ १३)

१.२.११> स्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानाम् आत्मसंयुक्तेन मनसाअधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः//(पृष्ठ १३)

१.२.१२> स्पर्शविशेषविषयात् त्व् अस्यअभिमानिकसुखअनुविद्धा फलवत्य् अर्थप्रतीतिः प्राधान्यात् कामः//(पृष्ठ १४)

१.२.१३> तं कामसूत्रान् नागरिकजनसमवायाच् च प्रतिपद्येत//(पृष्ठ १५)

१.२.१४> एषां समवाये पूर्वः पूर्वो गरीयान्//(पृष्ठ १५)

१.२.१५> अर्थश् च राज्ञः/ तन्मूलत्वाल् लोकयात्रायाः/ वेश्यायाश् चैति त्रिवर्गप्रतिपत्तिः//(पृष्ठ १५)

१.२.१६> धर्मस्यअलौकिकत्वात् तदभिधायकं शास्त्रं युक्तम्/ उपायपूर्वकत्वाद् अर्थसिद्धेः/ उपायप्रतिपत्तिः शास्त्रात्//(पृष्ठ १६)

१.२.१७> तिर्यग्योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तिइत्य् आचार्याः//(पृष्ठ १६)

१.२.१८> संप्रयोगपराधीनत्वात् स्त्रीपुंसयोर् उपायम् अपेक्षते//(पृष्ठ १६)

१.२.१९> सा चौपायप्रतिपत्तिः कामसूत्राद् इति वात्स्यायनः//(पृष्ठ १७)

१.२.२०> त्रियग्योनिषु पुनर् अनावृतत्वात् स्त्रीजातेश् च, ऋतौ यावद् अर्थं प्रवृत्तेर् अबुद्धिपूर्वकत्वाच् च प्रवृत्तीनाम् अनुपायः प्रत्ययः//(पृष्ठ १७)

१.२.२१> न धर्मांश् चरेत्/ एष्यत्फलत्वात्, सांशयिकत्वाच् च//(पृष्ठ १८)

१.२.२२> को ह्य् अबालिशो हस्तगतं परगतं कुर्यात्//(पृष्ठ १८)

१.२.२३> वरम् अद्य कपोतः श्वो मयूरात्//(पृष्ठ १९)

१.२.२४> वरं सांशयिकान् निष्काद् असांशयिकः कार्षापणः/ इति *लौकायतिकाः[अन्यत्र : लौकायातिकाः]//(पृष्ठ १९)

१.२.२५> शास्त्रस्यअनभिशङ्क्यत्वाद् अभिचारअनुव्याहारयोश् च क्वचित् फलदर्शनान् नक्षत्रचन्द्रसूर्यताराग्रहचक्रस्य लोकअर्थं बुद्धिपूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्णआश्रमआचारस्थितिलक्षणत्वाच् च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यअर्थे त्यागदर्शनाच् चरेद् धर्मान् इति वात्स्यायनः//(पृष्ठ १९)

१.२.२६> नअर्थांश् चरेत्/ प्रयत्नतो +अपि ह्य् एते +अनुष्ठीयमाना नएव कदाचित् स्युः// अननुष्ठीयमाना अपि यदृच्छया भवेयुः//(पृष्ठ २१)

१.२.२७> तत्सर्वं कालकारितम् इति//(पृष्ठ २१)

१.२.२८> काल एव हि पुरुषान् अर्थअनर्थयोर् जयपराजययोः सुखदुःखयोश् च स्थापयति//(पृष्ठ २१)

१.२.२९> कालेन बलिर् इन्द्रः कृतः/ कालेन *व्यवरोपितः[अन्यत्र : व्यपरोपितः]/ काल एव पुनर् अप्य् एनं कर्ताइति कालकारणिकाः//(पृष्ठ २२)

१.२.३०> पुरुषकारपूर्वकत्वात् सर्वप्रवृत्तीनाम् उपायः प्रत्ययः//(पृष्ठ २२)

१.२.३१> अवश्यं भाविनो +अप्य् अर्थस्यौपायपूर्वकत्वाद् एव/ न निष्कर्मणो भद्रम् अस्तिइति वात्स्यायनः//(पृष्ठ २३)

१.२.३२> न कामांश् चरेत्/ धर्मअर्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्/ अनर्थजनसंसर्गम् असद्व्यवसायम् अशौचम् अनायतिं चएते पुरुषस्य जनयन्ति//(पृष्ठ २३)

१.२.३३> तथा प्रमादं लाघवम् अप्रत्ययम् अग्राह्यतां च/(पृष्ठ २३)

१.२.३४> बहवश् च कामवशगाः सगणा एव विनष्टाः श्रूयन्ते//(पृष्ठ २४)

१.२.३५> यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्याम् अभिमन्यमानः सबन्धुराष्ट्रो विननाश//(पृष्ठ २४)

१.२.३६> देवराजश् चअहल्याम् अतिबलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चअन्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्य् अर्थचिन्तकाः//(पृष्ठ २४)

१.२.३७> शरीरस्थितिहेतुत्वाद् आहारसधर्माणो हि कामाः/ फलभूताश् च धर्मअर्थयोः//(पृष्ठ २५)

१.२.३८> बोद्धव्यं तु दोषेष्व् इव/ न हि भिक्षुकाः सन्तिइति स्थाल्यो नअधिश्रीयन्ते/ न हि मृगाः सन्तिइति यवा नौपयन्त इति वात्स्यायनः//(पृष्ठ २५) भवन्ति चअत्र श्लोकाः॒ ---(पृष्ठ २५)

१.२.३९कख> एवम् अर्थं च कामं च धर्मं चौपाचरन् नरः/(पृष्ठ २५)

१.२.३९गघ> इहअमुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते//(पृष्ठ २५)

१.२.४०कख> किं स्यात् परत्रैत्य् आशङ्का कार्ये यस्मिन् न जायते/(पृष्ठ २६)

१.२.४०गघ> न चअर्थघ्नं सुखं चैति शिष्टास् तत्र व्यवस्थिताः//(पृष्ठ २६)

१.२.४१कख> त्रिवर्गसाधकं यत् स्याद् द्वयोर् एकस्य वा पुनः/(पृष्ठ २६)

१.२.४१गघ> कार्यं तद् अपि कुर्वीत न त्व् एकअर्थं द्विबाधकम्//(पृष्ठ २६)



विद्यासमुद्देशः

[सम्पाद्यताम्]

१.३.१> धर्मअर्थअङ्गविद्याकालान् अनुपरोधयन् कामसूत्रं तदङ्गविद्याश् च पुरुषो +अधीयीत//(पृष्ठ २७)

१.३.२> प्राग्यौवनात् स्त्री/ प्रत्ता च पत्युर् अभिप्रायात्/

१.३.३> योषितां शास्त्रग्रहणस्यअभावाद् अनर्थकम् इह शास्त्रे स्त्रीशासनम् इत्य् आचार्याः//(पृष्ठ २७)

१.३.४> प्रयोगग्रहणं त्व् आसाम्/ प्रयोगस्य च शास्त्रपूर्वकत्वाद् इति वात्स्यायनः//(पृष्ठ २८)

१.३.५> तन् न केवलम् इहएव/ सर्वत्र हि लोके कति चिद् एव शास्त्रज्ञाः/ सर्वजनविषयश् च प्रयोगः//(पृष्ठ २८)

१.३.६> प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः//(पृष्ठ २८)

१.३.७> अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते//(पृष्ठ २९)

१.३.८> अस्ति ज्यौतिषम् इति पुण्यअहेषु कर्म कुर्वते//(पृष्ठ २९)

१.३.९> तथाअश्वआरोहा गजआरोहाश् चअश्वान् गजांश् चअनधिगतशास्त्रा अपि विनयन्ते//(पृष्ठ २९)

१.३.१०> तथाअस्ति राजाइति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्//(पृष्ठ २९)

१.३.११> सन्त्य् अपि खलु शास्त्रप्रहतबुद्धयो गणिका राजपुत्र्यो महामात्रदुहितरश् च//(पृष्ठ ३०)

१.३.१२> तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात्//(पृष्ठ ३०)

१.३.१३> अभ्यासप्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत्//(पृष्ठ ३०)

१.३.१४> आचार्यास् तु कन्यानां प्रवृत्तपुरुषसंप्रयोगा सहसंप्रवृद्धा धात्रेयिका/ तथाभूता वा निरत्ययसंभाषणा सखी/ सवयाश् च मातृष्वसा/ विस्रब्धा तत्स्थानीया वृद्धदासी/ पूर्वसंसृष्टा वा भिक्षुकी/ स्वसा च विश्वासप्रयोगात्//(पृष्ठ ३०)

१.३.१५> गीतं, वाद्यं, नृत्यं, आलेख्यं, विशेषकच्छेद्यं, तण्डुलकुसुमवलिविकाराः, पुष्पआस्तरणं, दशनवसनअङ्गरागः, मणिभूमिकाकर्म, शयनरचनम्, उदकवाद्यम्, उदकआघातः, चित्राश् च योगाः, माल्यग्रथनविकल्पाः, शेखरकापीडयोजनं, नेपथ्यप्रयोगाः, कर्णपत्त्रभङ्गाः, गन्धयुक्तिः, भूषणयोजनम्,(पृष्ठ ३२) ऐन्द्रजालाः, कौचुमाराश् च योगाः, हस्तलाघवं, विचित्रशाकयूषभक्ष्यविकारक्रिया, पानकरसरागआसवयोजनं, सूचीवानकर्माणि, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तकवाचनं, नाटकआख्यायिकादर्शनं, काव्यसमस्यापूरणं, पट्टिका*वेत्रवान[अन्यत्र : वान.वेत्र]विकल्पाः, तक्षकर्माणि, तक्षणं, वास्तुविद्या, रूप्य*रत्न[छ् ओमित्स्]परीक्षा, धातुवादः, मणिरागआकरज्ञानं, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनम्, उत्सादने संवाहने केशमर्दने च कौशल्यं[अन्यत्र : कौशलं], अक्षरमुष्टिकाकथनं, म्लेच्छितविकल्पाः, देशभाषाविज्ञानं, पुष्पशकटिका, निमित्तज्ञानं, यन्त्रमातृका, धारणमातृका, संपाथ्यं, मानसी, काव्यक्रिया, अभिधान*कोषः[अन्यत्र : काषः], छन्दोज्ञानं, क्रियाकल्पः, छलितकयोगाः, वस्त्रगोपनानि, *द्यूतिविशेषाः[अन्यत्र : द्यूतविशेषः], आकर्षक्रीडा, बालक्रीडनकानि, वैनयिकीनां (पृष्ठ ३३) वैजयिकीनां व्यायामिकीनां च विद्यानां ज्ञानम्, इति चतुःषष्टिर् अङ्गविद्याः कामसूत्रस्यअवयविन्यः//(पृष्ठ ३४)

१.३.१६> पाञ्चालिकी च चतुःषष्टिर् अपरा/ तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः/ कामस्य तदात्मकत्वात्//(पृष्ठ ४१)

१.३.१७क > आभिर् अभ्युच्छ्रिता वेश्या शीलरूपगुणअन्विता/(पृष्ठ ४१)

१.३.१७ख > लभते गणिकाशब्दं स्थानं च जनसंसदि//(पृष्ठ ४१)

१.३.१८क > पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता/(पृष्ठ ४२)

१.३.१८ख > प्रार्थनीयाअभिगम्या च लक्ष्यभूता च जायते//(पृष्ठ ४२)

१.३.१९क > योगज्ञा राजपुत्री च महामात्रसुता तथा/(पृष्ठ ४२)

१.३.१९ख > सहस्र*अन्तःपुनर्[अन्यत्र : न्तःपुरम्] अपि स्ववशे कुरुते पतिम्//(पृष्ठ ४२)

१.३.२०क > तथा पतिवियोगे च व्यसनं दारुणं गता/(पृष्ठ ४२)

१.३.२०ख > देशअन्तरे +अपि विद्याभिः सा सुखेनएव जीवति//(पृष्ठ ४२)

१.३.२१क > नरः कलासु कुशलो वाचालश् चाटुकारकः/(पृष्ठ ४२)

१.३.२१ख > असंस्तुतो +अपि नारीणां चित्तम् आश्व् एव विन्दति//(पृष्ठ ४२)

१.३.२२क > कलानां ग्रहनाद् एव सौभाग्यम् उपजायते/(पृष्ठ ४२)

१.३.२२ख > देशकालौ त्व् अपेक्ष्यआसां प्रयोगः संभवेन् न वा//(पृष्ठ ४२)



नागरकवृत्तम्

[सम्पाद्यताम्]

१.४.१> गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशअधिगतैर् अर्थैर् अन्वयआगतैर् उभयैर् वा गार्हस्थ्यम् अधिगम्य नागरकवृत्तं वर्तेत//(पृष्ठ ४३)

१.४.२> नगरे पत्तने खर्वटे महति वा सज्जनआश्रये स्थानम्/ यात्रावशाद् वा//(पृष्ठ ४४)

१.४.३> तत्र भवनम् आसन्नौदकं वृक्षवाटिकावद् विभक्तकर्मकक्षं द्विवासगृहं कारयेत्//(पृष्ठ ४४)

१.४.४> बाह्ये च वासगृहे सुश्लक्ष्णम् उभयौपधानं मध्ये विनतं शुक्लौत्तरच्छदं शयनीयं स्यात्/ प्रतिशय्यिका च/ तस्य शिरोभागे कूर्चस्थानम्, वेदिका च/ तत्र रात्रिशेषम् अनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस् ताम्बूलानि च स्युः/ भूमौ पतद्ग्रहः/ नागदन्तअवसक्ता वीणा/चित्रफलकम्/ वर्तिकासमुद्गकः/ यः कश्चित् पुस्तकः/ कुरण्टकमालाश् च/ नातिदूरे भूमौ वृत्तआस्तरणं समस्तकम्/ आकर्षफलकं द्यूतफलकं च/ तस्य बहिः क्रीडाशकुनिपञ्जराणि/ एकान्ते च तक्षतक्षणस्थानम् अन्यासां च क्रीडानाम्/ स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया/ स्थण्डिलपीठिका च सकुसुमेति भवनविन्यासः//(पृष्ठ ४५)

१.४.५> स प्रातर् उत्थाय कृतनियतकृत्यः, गृहीतदन्तधावनः, मात्रयाअनुलेपनं धूपं स्रजम् इति च गृहीत्वा, दत्त्वा सिक्थकम् अलक्तकं च, दृष्ट्वाआदर्शे मुखम्, गृहीतमुखवासताम्बूलः, कार्याण्य् अनुतिष्ठेत्//(पृष्ठ ४७)

१.४.६> नित्यं स्नानम्/ द्वितीयकम् उत्सादनम्/ तृतीयकः फेनकः/ चतुर्थकम् आयुष्यम्/ पञ्चमकं दशमकं वा प्रत्यायुष्यम् इत्य् अहीनम्/ सातत्याच् च संवृतकक्षास्वेदअपनोदः/

१.४.७> पूर्वाह्णअपराह्णयोर् भोजनम्/ सायं चारायणस्य/

१.४.८> भोजनअनन्तरं शुकसारिकाप्रलापनव्यापाराः/ लावक*कुक्कट[अन्यत्र : कुक्कुट]मेषयुद्धानि/ तास् ताश् च कलाक्रीडाः/ पीठमर्दविटविदूषकआयत्ता व्यापाराः/ दिवाशय्या च/

१.४.९> गृहीतप्रसाधनस्यअपराह्णे गोष्ठीविहाराः/

१.४.१०> प्रदोषे च संगीतकानि/ तद् अन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे ससहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्,

१.४.११> दूतीनां प्रेषणम्, स्वयं वा गमनम्/

१.४.१२> आगतानां च मनोहरैर् आलापैर् उपचारैश् च ससहायस्यौपक्रमाः/

१.४.१३> वर्षप्रमृष्टने पथ्यानां दुर्दिनाअभिसारिकाणां स्वयम् एव पुनर् मण्डनम्, मित्रजनेन वा परिचरणम् इत्य् आहोरात्रिकम्//(पृष्ठ ४८)

१.४.१४> घटानिबन्धनम्, गोष्ठीसमवायः, समापानकम्, उद्यानगमनम्, समस्याः क्रीडाश् च प्रवर्तयेत्/

१.४.१५> पक्षस्य मासस्य वा प्रज्ञाते (पृष्ठ ५०) +अहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः/

१.४.१६> कुशीलवाश् चआगन्तवः प्रेक्षणकम् एषां दद्युः/ द्वितीये +अहनि तेभ्यः पूजा नियतं लभेरन्/ ततो यथाश्रद्धम् एषां दर्शनम् उत्सर्गो वा/ व्यसनौत्सवेषु चएषां परस्परस्यएककार्यता/

१.४.१७> आगन्तूनां च कृतसमवायानां पूजनम् अभ्युपपत्तिश् च/ इति गणधर्मः/

१.४.१८> एतेन तं तं देवताविशेषम् उद्दिश्य संभावितस्थितयो घटा व्याख्याताः//(पृष्ठ ५१)

१.४.१९> वेश्याभवने सभायाम् अन्यतमस्य*उदवसिते[अन्यत्र : ुद्वसिते] वा समानविद्याबुद्धिशीलवित्तवयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसनबन्धो गोष्ठी/

१.४.२०> तत्र चएषां काव्यसमस्या कलासमस्या वा/

१.४.२१> तस्याम् उज्ज्वला लोककान्ताः पूज्याः/ प्रीतिसमानाश् *चाहारिताः[अन्यत्र : चाहारितः]//(पृष्ठ ५३)

१.४.२२> परस्परभवनेषु चआपानकानि//(पृष्ठ ५३)

१.४.२३> तत्र मधुमैरेयसुराआसवान् विविधलवणफलहरितशाकतिक्तकटुक(पृष्ठ ५३)अम्लौपदंशान् वेश्याः पाययेयुर् अनुपिबेयुश् च/

१.४.२४> एतेनौद्यानगमनं व्याख्यातम्//(पृष्ठ ५४)

१.४.२५> पूर्वाह्ण एव स्वलंकृतास् तुरगअधिरूढा वेश्याभिः सह परिचारकअनुगता गच्छेयुः/ दैवसिकीं च यात्रां तत्रअनुभूय कुक्कुटयुद्धद्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीततदुद्यानौपभोगचिह्नास् तथाएव प्रत्याव्रजेयुः/

१.४.२६> एतेन रचितौद्ग्राहौदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम्//(पृष्ठ ५४)

१.४.२७> यक्षरात्रिः/ कौमुदीजागरः/ सुवसन्तकः//(पृष्ठ ५५)

१.४.२८> सहकारभञ्जिका, अभ्यूषखादिका, विसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालअनुयानम्, एकशाल्मली, कदम्बयुद्धानि, तास् ताश् च माहिमान्यो देश्याश् च क्रीडा जनेभ्यो विशिष्टम् आचरेयुः/ इति संभूय क्रीडाः//(पृष्ठ ५६)

१.४.२९> एकचारिणश् च विभवसामर्थ्याद्

१.४.३०> गणिकाया नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम्//(पृष्ठ ५७)

१.४.३१> अविभवस् तु शरीरमात्रो मल्लिकाफेनककषायमात्रपरिच्छदः पूज्याद् (पृष्ठ ५७)देशाद् आगतः कलासु विचक्षणस् तदुपदेशेन गोष्ठ्यां वेशौचिते च वृत्ते साधयेद् आत्मानम् इति पीठमर्दः//(पृष्ठ ५८)

१.४.३२> भुक्तविभवस् तु गुणवान् सकलत्रो वेशे गोष्ठ्यां च बहुमतस् तद् उपजीवी च विटः//(पृष्ठ ५८)

१.४.३३> एकदेशविद्यस् तु क्रीडनको विश्वास्यश् च विदूषकः/ वैहासिको वा/

१.४.३४> एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः//(पृष्ठ ५९)

१.४.३५> तैर् भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश् च व्याख्याताः//(पृष्ठ ५९)

१.४.३६> ग्रामवासी च सजातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ् श्रद्धां च जनयंस् तद् एवअनुकुर्वीत/ गोष्ठीश् च प्रवर्तयेत्/ संगत्या जनम् अनुरञ्जयेत्/ कर्मसु च साहाय्येन चअनुगृह्णीयात्/ उपकारयेच् च/ इति नागरकवृत्तम्//(पृष्ठ ५९)

१.४.३७क > नअत्यन्तं संस्कृतेनएव नअत्यन्तं देशभाषया/(पृष्ठ ६०)

१.४.३७ख > कथां गोष्ठीषु कथयंल् लोके बहुमतो भवेत्//(पृष्ठ ६०)

१.४.३८क > या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी/(पृष्ठ ६०)

१.४.३८ख > परहिंसाआत्मिका या च न ताम् अवतरेद् बुधः//(पृष्ठ ६०)

१.४.३९क > लोकचित्तअनुवर्तिन्या क्रीडामात्रएककार्यया/(पृष्ठ ६०)

१.४.३९ख > गोष्ठ्या सहचरन् विद्वांल् लोके सिद्धिं नियच्छति//(पृष्ठ ६०)



नायकसहायदूतीकर्मविमर्शः

[सम्पाद्यताम्]

१.५.१> कामश् चतुर्षु वर्णेषु सवर्णतः शास्त्रतश् चअनन्यपूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति//(पृष्ठ ६१)

१.५.२> तद्विपरीत उत्तमवर्णासु परपरिगृहीतासु च/ प्रतिषिद्धो +अवरवर्णास्व् अनिरवसितासु/ वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः/ सुखअर्थत्वात्//(पृष्ठ ६१)

१.५.३> तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च/ इति//(पृष्ठ ६२)

१.५.४> अन्यकारणवशात् परपरिगृहीतापि पाक्षिकी चतुर्थीइति गोणिकापुत्रः//(पृष्ठ ६३)

१.५.५> स यदा मन्यते स्वैरिणीयम्//(पृष्ठ ६३)

१.५.६> अन्यतो +अपि बहुशो व्यवसितचारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तमवर्णिन्याम् अपि न धर्मपीडां करिष्यति/ पुनर्भूर् इयम्//(पृष्ठ ६३)

१.५.७> अन्यपूर्वाअवरुद्धा नअत्र शङ्काअस्ति//(पृष्ठ ६४)

१.५.८> पतिं वा महान्तम् ईश्वरम् अस्मदमित्रसंसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति/ सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति//(पृष्ठ ६४)

१.५.९> विरसं वा मयि शक्तम् अपकर्तुकामं च प्रकृतिम् आपादयिष्यति//(पृष्ठ ६४)

१.५.१०> तया वा मित्रीकृतेन मित्रकार्यम् अमित्रप्रतीघातम् अन्यद् वा दुष्प्रतिपादकं कार्यं साधयिष्यामि//(पृष्ठ ६५)

१.५.११> संसृष्टो वाअनया हत्वाअस्याः पतिम् अस्मद्भाव्यं तद् ऐश्वर्यम् एवम् अधिगमिष्यामि//(पृष्ठ ६५)

१.५.१२> निरत्ययं वाअस्या गमनम् अर्थअनुबद्धम्/ अहं च निःसारत्वात् क्षीणवृत्त्युपायः/ सो +अहम् अनेनौपायेन तद्धनम् अतिमहद् अकृच्छ्राद् अधिगमिष्यामि/

१.५.१३> मर्मज्ञा वा मयि दृधम् अभिकामा सा माम् अनिच्छन्तं दोषविख्यापानेन दूषयिष्यति//(पृष्ठ ६५)

१.५.१४> असद्भूतं वा दोषं श्रद्धेयं दुष्परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्//(पृष्ठ ६६)

१.५.१५> आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति//(पृष्ठ ६६)

१.५.१६> स्वयं वा तैः सह संसृज्येत/ मदवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि//(पृष्ठ ६६)

१.५.१७> राजनियोगाच् चअन्तर्वर्तिनं शत्रुं वास्य निर्हनिष्यामि//(पृष्ठ ६६)

१.५.१८> यामन्यां कामयिष्ये सास्या वशगा/ ताम् अनेन संक्रमेणअधिगमिष्यामि/

१.५.१९> कन्याम् अलभ्यां वात्माधीनाम् अर्थरूपवतीं मयि संक्रामयिष्यति/

१.५.२०> ममअमित्रो वास्याः पत्या सहैकीभावम् उपगतस् तम् अनया रसेन योजयिष्यामिइत्य् एवम् आदिभिः कारणैः परस्त्रियम् अपि प्रकुर्वीत//(पृष्ठ ६७)

१.५.२१> इति साहसिक्यं न केवलं रागाद् एव/ इति परपरिग्रहगमनकारणानि/

१.५.२२> एतैर् एव कारणैर् महामात्रसंबद्धा राजसंबद्धा वा तत्रएकदेशचारिणी का चिद् अन्या वा कार्यसंपादिनी विधवा पञ्चमीइति चारायणः/

१.५.२३> सैव प्रव्रजिता षष्ठीइति सुवर्णनाभः/

१.५.२४> गणिकाया दुहिता परिचारिका वानन्यपूर्वा सप्तमीइति घोटकमुखः/

१.५.२५> उत्क्रान्तबालभावा कुलयुवतिर् उपचारअन्यत्वाद् अष्टमीइति गोनर्दीयः/

१.५.२६> कार्यअन्तरअभावाद् एतासाम् अपि पूर्वास्व् एवौपलक्षणम्, तस्माच् चतस्र एव नायिका इति वात्स्यायनः/

१.५.२७> भिन्नत्वात् तृतीया प्रकृतिः पञ्चमीइत्य् एके//(पृष्ठ ६७)

१.५.२८> एक एव तु सार्वलौकिको नायकः/ प्रच्छन्नस् तु द्वितीयः/ विशेषालाभात्/ उत्तमअधममध्यमतां तु गुणअगुणतो विद्यात्/ तांस् तुउभयोर् अपि गुणअगुणान् वैशिके वक्ष्यामः//(पृष्ठ ६९)

१.५.२९> अगम्यास् त्व् एवएताः ---कुष्ठिन्य् उन्मत्ता पतिता भिन्नरहस्या प्रकाशप्रार्थिनी गतप्राययौवनाअतिश्वेताअतिकृष्णा दुर्गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धिसखिश्रोत्रियराजदाराश् च//(पृष्ठ ६९)

१.५.३०> दृष्टपञ्चपुरुषा नअगम्या का चिद् अस्तिइति बाभ्रवीयाः//(पृष्ठ ७०)

१.५.३१> संबन्धिसखिश्रोत्रियराजदारवर्जम् इति गोणिकापुत्रः//(पृष्ठ ७०)

१.५.३२> सह पांसुक्रीडितम् उपकारसंबद्धं समानशीलव्यसनं सहअध्यायिनं यश् चअस्य मर्माणि रहस्यानि च विद्यात्, यस्य चअयं विद्याद् वा धात्रपत्यं सहसंवृद्धं मित्रम्//(पृष्ठ ७१)

१.५.३३> पितृपैतामहम् अविसंवादकम् अदृष्टवैकृतं वश्यं ध्रुवम् अलोभशीलम् अपरिहार्यम् अमन्त्रविस्राविइति मित्रसंपत्//(पृष्ठ ७१)

१.५.३४> रजकनापितमालाकारगान्धिकसौरिकभिक्षुकगोपालकताम्बूलिकस् औवर्णिकपीठमर्दविटविदूषकादयो मित्राणि/ तद्योषिन्मित्राश् च नागरकाः स्युर् इति वात्स्यायनः//(पृष्ठ ७२)

१.५.३५> यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सुविस्रब्धं तत्र दूतकर्म//(पृष्ठ ७२)

१.५.३६> पटुता धार्ष्ट्यम् इङ्गिताकारज्ञता प्रतारणकालज्ञता विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सौपाया चैति दूतगुणाः//(पृष्ठ ७२) भवति चअत्र श्लोकः ---(पृष्ठ ७३)

१.५.३७कख> आत्मवान् मित्रवान् युक्तो भावज्ञो देशकालवित्/(पृष्ठ ७३)

१.५.३७गघ> अलभ्याम् अप्य् अयत्नेन स्त्रियं संसाधयेन् नरः//(पृष्ठ ७३)



सांप्रयोगिकं नाम द्वितीयम् अधिकरणम्

[सम्पाद्यताम्]

प्रमाणकालभावेभ्यो रतअवस्थापनम्

[सम्पाद्यताम्]

२.१.१> शशो वृषो +अश्व इति लिङ्गतो नायकविशेषाः/ नायिका पुनर्मृगी वडवा हस्तिनी चैति//(पृष्ठ ७४)

२.१.२> तत्र सदृशसंप्रयोगे समरतानि त्रीणि//(पृष्ठ ७४)

२.१.३> विपर्ययेण विषमाणि षट्/ विषमेष्व् अपि पुरुषआधिक्यं चेद् अनन्तरसंप्रयोगे द्वे उच्चरते/ व्यवहितम् एकम् उच्चतररतम्/ विपर्यये पुनर् द्वे नीचरते/ व्यवहितम् एकं नीचतररतं च/ तेषु समानि श्रेष्ठानि/ तरशब्दअङ्किते द्वे कनिष्ठे/ शेषाणि मध्यमानि//(पृष्ठ ७५)

२.१.४> साम्ये +अप्य् उच्चअङ्कं नीचअङ्काज् ज्यायः/ इति प्रमाणतो नवरतानि//(पृष्ठ ७६)

२.१.५> यस्य संप्रयोगकाले प्रीतिर् उदासीना वीर्यम् अल्पं क्षतानि च न सहते स मन्दवेगः//(पृष्ठ ७६)

२.१.६> तद् विपर्ययौ मध्यमचण्डवेगौ भवतस् तथा नायिकाअपि//(पृष्ठ ७७)

२.१.७> तत्रअपि प्रमाणवद् एव नवरतानि//(पृष्ठ ७७)

२.१.८> तद्वत् कालतो +अपि शीघ्रमध्यचिरकाला नायकाः//(पृष्ठ ७७)

२.१.९> तत्र स्त्रियां विवादः//(पृष्ठ ७७)

२.१.१०> न स्त्री पुरुषवद् एव भावम् अधिगच्छति//(पृष्ठ ७७)

२.१.११> सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते//(पृष्ठ ७७)

२.१.१२> सा पुनर् आभिमानिकेन सुखेन संसृष्टा रसअन्तरं जनयति/ तस्मिन् सुखबुद्धिर् अस्याः/

२.१.१३> पुरुष*प्रतीतेश्[अन्यत्र : प्रीतेश्] चअनभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् अशक्यत्वात्/

२.१.१४> कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य स्वेच्छया विरमति, न स्त्रियम् अपेक्षते, न त्व् एवं स्त्रीइत्य् औद्दालकिः//(पृष्ठ ७८)

२.१.१५> तत्रएतत् स्यात्/ चिरवेगे नायके स्त्रियो +अनुरज्यन्ते शीघ्रवेगस्य भावम् अनासाद्यअवसाने +अभ्यसूयिन्यो *भवति[अन्यत्र : भवन्ति]/ तत् सर्वं भावप्राप्तेर् अप्राप्तेश् च लक्षणम्//(पृष्ठ ७९)

२.१.१६> तच् च न/ कण्डूतिप्रतीकारो +अपि हि दीर्घकालं प्रिय इति/ एतद् उपपद्यत एव/ तस्मात् संदिग्धत्वाद् अलक्षणम् इति//(पृष्ठ ८०)

२.१.१७क > संयोगे योषितः पुंसा कण्डूतिर् अपनुद्यते/(पृष्ठ ८०)

२.१.१७ख > तच् च अभिमानसंसृष्टं सुखम् इत्य् अभिधीयते//(पृष्ठ ८०)

२.१.१८> सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति/ पुरुषः पुनर् अन्त एव/ एतद् उपपन्नतरम्/ न ह्य् असत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः//(पृष्ठ ८०)

२.१.१९> अत्रअपि ताव् एवअशङ्कापरिहारौ भूयः//(पृष्ठ ८१)

२.१.२०> तत्रएतत् स्यात् --- सातत्येन रसप्राप्ताव् आरम्भकाले मध्यस्थचित्तता नअतिसहिष्णुता च/ ततः क्रमेणअधिको रागयोगः शरीरे निरपेक्षत्वम्/ अन्ते च विरामअभीप्साइत्य् एतद् उपपन्नम् इति//(पृष्ठ ८२)

२.१.२१> तच् च न/ सामान्ये +अपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्दवेगता ततश् च क्रमेण पूरणम् वेगस्याइत्य् उपपद्यते/ धातुक्षयाच् च विरामअभीप्साइति/ तस्माद् अनाक्षेपः//(पृष्ठ ८२)

२.१.२२क > सुरताअन्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्/(पृष्ठ ८३)

२.१.२२ख > धातुक्षयनिमित्ता च विरामैच्छाउपजायते//(पृष्ठ ८३)

२.१.२३> तस्मात् पुरुषवद् एव योषितो +अपि रसव्यक्तिर् द्रष्टव्या//

२.१.२४> कथं हि समानायाम् एवआकृताव् एकअर्थम् अभिप्रपन्नयोः कार्यवैलक्षण्यं स्याद्

२.१.२५> उपायवैलक्षण्याद् अभिमानवैलक्षण्याच् च//(पृष्ठ ८३)

२.१.२६> कथम् उपायवैलक्षण्यं तु सर्गात्/ कर्ता हि पुरुषो +अधिकरणं युवतिः/ अन्यथा हि कर्ता क्रियां प्रतिपद्यते +अन्यथा चआधारः/ तस्माच् चौपायवैलक्षण्यात् सर्गाद् अभिमानवैलक्षण्यम् अपि भवति/ अभियोक्ताअहम् इति पुरुषो +अनुरज्यते/ अभियुक्ताअहम् अनेनैति युवतिर् इति वात्स्यायनः//(पृष्ठ ८४)

२.१.२७> तत्रएतत् स्याद् उपायवैलक्षण्यवद् एव हि कार्यवैलक्षण्यम् अपि कस्मान् न स्याद् इति/ तच् च न/ हेतुमद् उपायवैलक्षण्यम्/ तत्र कर्त्राधारयोर् भिन्नलक्षणत्वाद् अहेतुमत् कार्यवैलक्षण्यम् अन्याय्यं स्यात्/ आकृतेर् अभेदाद् इति/ (पृष्ठ ८५)

२.१.२८> तत्रएतत् स्यात्/ संहत्य कारकैर् एको +अर्थो +अभिनिर्वर्त्यते/ पृथक् पृथक् स्वार्थसाधकौ पुनर् इमौ तद् अयुक्तम् इति//(पृष्ठ ८५)

२.१.२९> तच् च न/ युगपद् अनेकअर्थसिद्धिर् अपि दृश्यते/ यथा मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति/ न तत्र कारकभेद इति चेद् इहअपि न वस्तुभेद इति/ उपायवैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात्/ तेनौभयोर् अपि सदृशी सुखप्रतिपत्तिर् इति//(पृष्ठ ८६)

२.१.३०क > जातेर् अभेदाद् दंपत्योः सदृशं सुखम् इष्यते/(पृष्ठ ८७)

२.१.३०ख > तस्मात् तथाउपचर्या स्त्री यथाअग्रे प्राप्नुयाद् रतिम्//(पृष्ठ ८७)

२.१.३१> सदृशत्वस्य सिद्धत्वात्, कालयोगिन्य् अपि भावतो +अपि कालतः प्रमाणवद् एव नव रतानि//(पृष्ठ ८७)

२.१.३२> रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रतिपर्यायाः/ संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः//(पृष्ठ ८८)

२.१.३३> प्रमाणकालभावजानां संप्रयोगाणाम् एकैकस्य नवविधत्वात् तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुम्/ अतिबहुत्वात्//(पृष्ठ ८८)

२.१.३४> तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः//(पृष्ठ ८९)

२.१.३५> प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य, तद् विपरीतम् उत्तरेषु/ योषितः पुनर् एतद् एव विपरीतम्/ आ धातुक्षयात्/

२.१.३६> प्राक् च स्त्रीधातुक्षयात् पुरुषधातुक्षय इति प्रायोवादः//(पृष्ठ ९०)

२.१.३७क > मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् चएव योषितः/(पृष्ठ ९१)

२.१.३७ख > प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् आचार्या व्यवस्थिताः//(पृष्ठ ९१)

२.१.३८क > एतावद् एव युक्तानां व्याख्यातं सांप्रयोगिकम्/(पृष्ठ ९२)

२.१.३८ख > मन्दानाम् अवबोधअर्थं विस्तरो +अतः प्रवक्ष्यते//(पृष्ठ ९२)

२.१.३९क > अभ्यासाद् अभिमानाच् च तथा संप्रत्ययाद् अपि(पृष्ठ ९२)

२.१.३९ख > विषयेभ्यश् च तन्त्रज्ञाः प्रीतिम् आहुश् चतुर्विधाम्//(पृष्ठ ९२)

२.१.४०क > शब्दआदिभ्यो बहिर्भूता या कर्मअभ्यासलक्षणा/(पृष्ठ ९२)

२.१.४०ख > प्रीतिः साभ्यासिकी ज्ञेया मृगयाआदिषु कर्मसु//(पृष्ठ ९२)

२.१.४१क > अनभ्यस्तेष्व् अपि पुरा कर्मस्व् अविषयआत्मिका/(पृष्ठ ९२)

२.१.४१ख > संकल्पाज् जायते प्रीतिर् या सा स्याद् आभिमानिकी//(पृष्ठ ९२)

२.१.४२क > प्रकृतेर् या तृतीयस्याः स्त्रियाश् चएवौपरिष्टके/(पृष्ठ ९३)

२.१.४२ख > तेषु तेषु च विज्ञेया चुम्बनआदिषु कर्मसु//(पृष्ठ ९३)

२.१.४३क > नअन्यो +अयम् इति यत्र स्याद् अन्यस्मिन् प्रीतिकारणे/(पृष्ठ ९३)

२.१.४३ख > तन्त्रज्ञैः कथ्यते साअपि प्रीतिः संप्रत्ययआत्मिका//(पृष्ठ ९३)

२.१.४४क > प्रत्यक्षा लोकतः सिद्धा या प्रीतिर् विषयआत्मिका/(पृष्ठ ९४)

२.१.४४ख > प्रधानफलवत्त्वात् सा तद् अर्थाश् चैतरा अपि//(पृष्ठ ९४)

२.१.४५क > प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्रलक्षणाः/(पृष्ठ ९४)

२.१.४५ख > यो यथा वर्तते भावस् तं तथाएव प्रयोजयेत्//(पृष्ठ ९४)



आलिङ्गनविचारा

[सम्पाद्यताम्]

२.२.१> संप्रयोगअङ्गं चतुःषष्टिर् इत्य् आचक्षते/ चतुःषष्टिप्रकरणत्वात्//(पृष्ठ ९५)

२.२.२> शास्त्रम् एवैदं चतुःषष्टिर् इत्य् आचार्यवादः//(पृष्ठ ९५)

२.२.३> कलानां चतुःषष्टित्वात् तासां च संप्रयोगअङ्गभूतत्वात् कलासमूहो वा चतुःषष्टिर् इति/ ऋचां दशतयीनां च संज्ञितत्वात्/ इहअपि तदर्थसंबन्धात्/ पञ्चालसंबन्धाच् च बह्वृचैर् एषा पूजाअर्थं संज्ञा प्रवर्तिता इत्य् एके//(पृष्ठ ९५)

२.२.४> आलिङ्गनचुम्बननखच्छेद्यदशनच्छेद्यसंवेशनसीत्कृतपुरु षआयितऔपरिष्टकानाम् अष्टानाम् अष्टधा विकल्पभेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः//(पृष्ठ ९६)

२.२.५> विकल्पवर्गाणाम् अष्टानां न्यूनअधिकत्वदर्शनात् प्रहणनविरुतपुरुषोपसृप्तचित्ररतआदीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायोवादो +अयम्/ यथा सप्तपर्णो वृक्षः पञ्चवर्णो बलिर् इति वात्स्यायनः//(पृष्ठ ९६)

२.२.६> तत्रअसमागतयोः प्रीतिलिङ्गद्योतनअर्थम् आलिङ्गनचतुष्टयम् ---स्पृष्टकम्, विद्धकम्, उद्धृष्टकम्, पीडितकम्, इति//(पृष्ठ ९७)

२.२.७> सर्वत्र संज्ञाअर्थेनएव कर्मअतिदेशः//(पृष्ठ ९७)

२.२.८> संमुखआगतायां प्रयोज्यायाम् अन्यअपदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्टकम्//(पृष्ठ ९७)

२.२.९> प्रयोज्यं स्थितम् उपविष्टं वा विजने किंचिद् गृह्णती पयोधरेण *विध्येत्[अन्यत्र : विद्ध्येत्]/ नायको +अपि ताम् अवपीड्य गृह्णीयाद् इति विद्धकम्//(पृष्ठ ९८)

२.२.१०> तदुभयम् अनतिप्रवृत्तसंभाषणयोः//(पृष्ठ ९८)

२.२.११> तमसि जनसंबाधे विजने वाअथ शनकैर् गच्छतोर् नअतिह्रस्वकालम् उद्धर्षणं परस्परस्य गात्राणाम् उद्धृष्टकम्//(पृष्ठ ९८)

२.२.१२> तद् एव कुड्यसंदंशेन स्तम्भसंदंशेन वा स्फुटकम् अवपीडयेद् इति पीडितकम्//(पृष्ठ ९९)

२.२.१३> तद् उभयम् अवगतपरस्परआकारयोः//(पृष्ठ ९९)

२.२.१४> लतावेष्टितकं वृक्षअधिरूढकं तिलतण्डुलकं क्षीरनीरकम् इति चत्वारि संप्रयोगकाले//(पृष्ठ ९९)

२.२.१५> लताइव शालम् आवेष्टयन्ती चुम्बनअर्थं मुखम् अवनमयेत्/ उद्धृत्य मन्दसीत्कृता तम् आश्रिता वा किंचिद् रामणीयकं पश्येत् तल्लताआवेष्टितकम्//(पृष्ठ ९९)

२.२.१६> चरणेन चरणम् आक्रम्य द्वितीयेनऊरुदेशम् आक्रमन्ती वेष्टयन्ती वा तत्पृष्ठसक्तएकबाहुर् द्वितीयेनअंसम् अवनमयन्ती ईषन्मन्दसीत्कृतकूजिता चुम्बनअर्थम् एवअधिरोढुम् इच्छेद् इति वृक्षअधिरूढकम्//(पृष्ठ १००)

२.२.१७> तद् उभयं स्थितकर्म//(पृष्ठ १००)

२.२.१८> शयनगताव् एवऊरूव्यत्यासं भुजव्यत्यासं च ससंघर्षम् इव घनं संस्वजेते तत्तिलतण्डुलकम्//(पृष्ठ १००)

२.२.१९> रागअन्धाव् अनपेक्षितअत्ययौ परस्परम् अनुविशत इवौत्सङ्गगतायाम् अभिमुखौपविष्टायां शयने वाइति क्षीरजलकम्//(पृष्ठ १०१)

२.२.२०> तदुभयं रागकाले//(पृष्ठ १०१)

२.२.२१> इत्य् उपसूहनयोगा बाभ्रवीयाः//(पृष्ठ १०१)

२.२.२२> सुवर्णनाभस्य त्व् अधिकम् एकअङ्गौपगूहनचतुष्टयम्//(पृष्ठ १०२)

२.२.२३> तत्रऊरुसंदंशेनएकम् ऊरुम् ऊरुद्वयं वा सर्वप्राणं पीडयेत् इत्य् ऊरुउपगूहनम्//(पृष्ठ १०२)

२.२.२४> जघनेन जघनम् अवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनप्रहणनचुम्बनप्रयोजनाय तदुपरि लङ्घयेत् तज्जघनौपगूहनम्//(पृष्ठ १०२)

२.२.२५> स्तनाभ्याम् उरः प्रविश्य तत्रएव भारम् आरोपयेद् इति स्तनआलिङ्गनम्//(पृष्ठ १०२)

२.२.२६> मुखे मुखम् आसज्यअक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् सा ललाटिका//(पृष्ठ १०२)

२.२.२७> संवाहनम् अप्य् उपगूहनप्रकारम् इत्य् एके मन्यन्ते/ संस्पर्शत्वात्//(पृष्ठ १०३)

२.२.२८> पृथक् कालत्वाद् भिन्नप्रयोजनत्वाद् असाधारणत्वान् नैति वात्स्यायनः//(पृष्ठ १०३)

२.२.२९क > पृच्छतां शृण्वतां वाअपि तथा कथयताम् अपि/(पृष्ठ १०३)

२.२.२९ख > उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम्//(पृष्ठ १०३)

२.२.३०क > ये +अपि ह्य् अशास्त्रिताः के चित् संयोगा रागवर्धनाः/(पृष्ठ १०३)

२.२.३०ख > आदरेणएव ते +अप्य् अत्र प्रयोज्याः सांप्रयोगिकाः//(पृष्ठ १०३)

२.२.३१क > शास्त्राणां विषयस् तावद् यावन् मन्दरसा नराः/(पृष्ठ १०४)

२.२.३१ख > रतिचक्रे प्रवृत्ते तु नएव शास्त्रं न च क्रमः//(पृष्ठ १०४)

चुम्बनविकल्पास्

[सम्पाद्यताम्]

२.३.१> चुम्बननखदशनच्छेद्यानां न पौर्वअपर्यम् अस्ति/ रागयोगात्/ प्राक्संयोगाद् एषां प्राधान्येन प्रयोगः/ प्रहणनसीत्कृतयोश् च संप्रयोगे//(पृष्ठ १०४)

२.३.२> सर्वं सर्वत्र/ रागस्यान् अपेक्षितत्वात्/ इति वात्स्यायनः//(पृष्ठ १०५)

२.३.३> तानि प्रथमरते नअतिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत/ तथाभूतत्वाद् रागस्य/ ततः परम् अतित्वरया विशेषवत्सम् उच्चयेन रागसंधुक्षणअर्थम्//(पृष्ठ १०५)

२.३.४> ललाटअलककपोलनयनवक्षःस्तनओष्ठअन्तर्मुखेषु चुम्बनम्/

२.३.५> ऊरुसंधिबाहुनाभिमूलयोर् लाटानाम्/

२.३.६> रागवशाद् देशप्रवृत्तेश् च सन्ति तानि तानि स्थानानि, न तु सर्वजनप्रयोज्यानिइति वात्स्यायनः//(पृष्ठ १०६)

२.३.७> तद् यथा --- निमितकं स्फुरितकं घट्टितकम् इति त्रीणि कन्याचुम्बनानि//(पृष्ठ १०६)

२.३.८> बलात् कारेण नियुक्ता मुखे मुखम् आधत्ते न तु विचेष्टत इति निमितकम्//(पृष्ठ १०७)

२.३.९> वदने प्रवेशितं चओष्ठं मनागपत्रपावग्रहीतुम् इच्छन्ती *स्यन्दयति[अन्यत्र : स्पन्दयति] स्वम् ओष्ठं नौत्तरम् उत्सहत इति स्फुरितकम्//(पृष्ठ १०७)

२.३.१०> ईषत्परिगृह्य विनिमीलितनयना करेण च तस्य नयने अवच्छादयन्ती जिह्वाअग्रेण घट्टयति इति घट्टितकम्//(पृष्ठ १०७)

२.३.११> समं तिर्यग् उद्भ्रान्तम् अवपीडितकम् इति चतुर्विधम् अपरे//(पृष्ठ १०७)

२.३.१२> अङ्गुलिसंपुटेन पिण्डीकृत्य निर्दशनम् ओष्ठपुटेनअवपीडयेद् इत्य् अवपीडितकं पञ्चमम् अपि करणम्//(पृष्ठ १०८)

२.३.१३> द्यूतं चअत्र प्रवर्तयेत्//(पृष्ठ १०८)

२.३.१४> पूर्वम् अधरसंपादनेन जितम् इदं स्यात्//(पृष्ठ १०८)

२.३.१५> तत्र जिता सअर्धरुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् आहृता विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात्/ तत्रअपि जिता द्विगुणम् आयस्येत्//(पृष्ठ १०९)

२.३.१६> विश्रब्धस्य प्रमत्तस्य वाअधरम् अवगृह्य दशनअन्तर्गतम् अनिर्गमं कृत्वा हसेद् उत्क्रोशेत् तर्जयेद् वल्गेद् *आह्वयेन्[अन्यत्र : ाह्लयेन्] नृत्येत् प्रनर्तितभ्रुणा च विचलनयनेन मुखेन विहसन्ती तानि तानि च ब्रूयात्/ इति चुम्बनद्यूतकलहः//(पृष्ठ १०९)

२.३.१७> एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः//(पृष्ठ ११०)

२.३.१८> चण्डवेगयोर् एव त्व् एषां प्रयोगः/ तत्सात्म्यात्//(पृष्ठ १११)

२.३.१९> तस्यां चुबन्त्य् आमयम् अप्य् उत्तरं गृह्णीयात्/ इत्य् उत्तरचुम्बितम्//(पृष्ठ १११)

२.३.२०> ओष्ठसंदंशेनअवगृह्यओष्ठद्वयम् अपि चुम्बेत/ इति संपुटकं स्त्रियाः, पुंसो वा +अजातव्यञ् जनस्य//(पृष्ठ १११)

२.३.२१> तस्मिन्न् इतरो +अपि जिह्वयाआस्या दशनान् घट्टयेत् तालु जिह्वां चैति जिह्वायुद्धम्//(पृष्ठ ११२)

२.३.२२> एतेन बलाद् वदनरदनग्रहणं दानं च व्याख्यातम्//(पृष्ठ ११२)

२.३.२३> समं पीडितम् अञ्चितं मृदु शेषअङ्गेषु चुम्बनं स्थानविशेषयोगात्/ इति चुम्बनविशेषाः//(पृष्ठ ११२)

२.३.२४> सुप्तस्य मुखम् *अवलोकयन्त्याः[अन्यत्र : वलोकयन्त्या] स्वअभिप्रायेण चुम्बनं रागदीपनम्//(पृष्ठ ११२)

२.३.२५> प्रमत्तस्य विवदमानस्य वा +अन्यतो +अभिमुखस्य सुप्तअभिमुखस्य वा निद्राव्याघातअर्थं चलितकम्//(पृष्ठ ११३)

२.३.२६> चिररात्राव् आगतस्य शयनसुप्तायाः स्वअभिप्रायचुम्बनं प्रातिबोधिकम्//(पृष्ठ ११३)

२.३.२७> सापि तु भावजिज्ञासअर्थिनी नायकस्यअगमनकालं संलक्ष्य व्याजेन सुप्ता स्यात्//(पृष्ठ ११३)

२.३.२८> आदर्शे कुड्ये सलिले वा प्रयोज्यायाश् छायाचुम्बनम् आकारप्रदर्शनअर्थम् एव कार्यम्//(पृष्ठ ११४)

२.३.२९> बालस्य चित्रकर्मणः प्रतिमायाश् च चुम्बनं संक्रान्तकम् आलिङ्गनं च//(पृष्ठ ११४)

२.३.३०> तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्तअङ्गुलिचुम्बनं संविष्टस्य वा पादअङ्गुलिचुम्बनम्//(पृष्ठ ११४)

२.३.३१> संवाहिकायास् तु नायकम् आकारयन्त्या निद्रावशाद् अकामाया इव तस्यऊर्वोर् वदनस्य निधानम् ऊरुचुम्बनं पादअङ्गुष्ठ*चुम्बनं[अन्यत्र : ोमित्स्] चैत्य् आभियोगिकानि//(पृष्ठ ११५) भवति चअत्र श्लोकः ---(पृष्ठ ११५)

२.३.३२कख> कृते प्रतिकृतं कुर्यात् ताडिते प्रतिताडितम्//(पृष्ठ ११५)

२.३.३२गघ> करणेन च तेनएव चुम्बितेप्रतिचुम्बितम्//(पृष्ठ ११५)

नखरदनजातयः

[सम्पाद्यताम्]

२.४.१> रागवृद्धौ संघर्षआत्मकं नखविलेखनम्//(पृष्ठ ११६)

२.४.२> तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः/ न नित्यम् अचण्डवेगयोः//(पृष्ठ ११६)

२.४.३> तथा दशनच्छेद्यस्य सात्म्यवशाद् वा//(पृष्ठ ११६)

२.४.४> तदाच्छुरितकम् अर्धचन्द्रो मण्डलं रेखा व्याघ्रनखं मयूरपदकं शशप्लुतकम् उत्पलपत्रकम् इति रूपतो +अष्टविकल्पम्//(पृष्ठ ११७)

२.४.५> कक्षौ स्तनौ गलः पृष्ठं जघनम् ऊरू च स्थानानि//(पृष्ठ ११७)

२.४.६> प्रवृत्तरतिचक्राणां न स्थानम् अस्थानं वा विद्यत इति सुवर्णनाभः//(पृष्ठ ११७)

२.४.७> तत्र सव्यहस्तानि प्रत्यग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर् नखानि स्युः//(पृष्ठ ११७)

२.४.८> अनुगतराजि समम् उज्ज्वलम् अमलिनम् अविपाटितं विवर्धिष्णु मृदुस्निग्धदर्शनम् इति नखगुणाः//(पृष्ठ ११८)

२.४.९> दीर्घाणि हस्तशोभीन्य् आलोके च योषितां चित्तग्राहीणि गौडानां नखानि स्युः//(पृष्ठ ११८)

२.४.१०> ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणात्यानाम्//(पृष्ठ ११८)

२.४.११> मध्यमान्य् उभयभाञ्जि महाराष्ट्रकाणाम् इति//(पृष्ठ ११९)

२.४.१२> तैः सुनियमितैर् हनुदेशे स्तनयोर् अधरे वा लघुकरणम् अनुद्गतलेखं स्पर्शमात्रजननाद् रोमाञ् चकरमन्ते संनिपातवर्धमानशब्दम् आच्छुरितकम्//(पृष्ठ ११९)

२.४.१३> प्रयोज्यायां च तस्यअङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः//(पृष्ठ ११९)

२.४.१४> ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशो +अर्धचन्द्रकः//(पृष्ठ १२०)

२.४.१५> ताव् एव द्वौ परस्परअभिमुखौ मण्डलम्//(पृष्ठ १२०)

२.४.१६> नाभिमूलककुन्दरवङ्क्षणेषु तस्य प्रयोगः//(पृष्ठ १२०)

२.४.१७> सर्वस्थानेषु नअतिदीर्घा लेखा//(पृष्ठ १२०)

२.४.१८> सएव वक्रा व्याघ्रनखकमास्तनमुखम्//(पृष्ठ १२०)

२.४.१९> पञ्चभिर् अभिमुखैर् लेखा चूचुकअभिमुखी मयूरपदकम्//(पृष्ठ १२०)

२.४.२०> तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदानि शशप्लुतकम्//(पृष्ठ १२१)

२.४.२१> स्तनपृष्ठे मेखलापथे चौत्पलपत्त्रआकृतिइत्य् उत्पलपत्रकम्//(पृष्ठ १२१)

२.४.२२> ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश् चतस्रस् तिस्रो वा लेखाः/ इति नखकर्माणि//(पृष्ठ १२१)

२.४.२३> आकृतिविकारयुक्तानि चअन्यान्य् अपि कुर्वीत//(पृष्ठ १२१)

२.४.२४> विकल्पानाम् अनन्तत्वाद् आनन्त्याच् च कौशलविधेर् अभ्यासस्य च सर्वगामित्वाद् रागआत्मकत्वाच् छेद्यस्य प्रकारान् को +अभिसमीक्षितुम् अर्हतिइत्य् आचार्याः//(पृष्ठ १२२)

२.४.२५> भवति हि रागे +अपि चित्रअपेक्षा/ वैचित्र्याच् च परस्परं रागो जनयितव्यः/ वैचक्षण्ययुक्ताश् च गणिकास् तत्कामिनश् च परस्परं प्रार्थनीया भवन्ति/ धनुर्वेदाद् इष्व् अपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यम् एवअपेक्ष्यते किं पुनर् इहैति वात्स्यायनः//(पृष्ठ १२२)

२.४.२६> न तु परपरिगृहीतास्व् एवं *कुर्थात्[अन्यत्र : कुर्यात्]/ प्रच्छन्नेषु प्रदेशेषु तासाम् अनुस्मरणअर्थं रागवर्धनाच् च विशेषान् दर्शयेत्//(पृष्ठ १२३)

२.४.२७क > नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः/(पृष्ठ १२३)

२.४.२७ख > चिरौत्सृष्टअप्य् अभिनवा पीतिर् भवति पेशला//(पृष्ठ १२३)

२.४.२८क > चिरौत्सृष्टेषु रागेषु प्रीतिर् गच्छेत् पराभवम्/(पृष्ठ १२३)

२.४.२८ख > रागआयतनसंस्मारि यदि न स्यान् नखक्षतम्//(पृष्ठ १२३)

२.४.२९क > पश्यतो युवतिं दूरान् नखौच्छिष्टपयोधराम्/(पृष्ठ १२४)

२.४.२९ख > बहुमानः परस्यअपि रागयोगश् च जायते//(पृष्ठ १२४)

२.४.३०क > पुरुषश् च प्रदेशेषु नखचिह्नैर् विचिह्नितः/(पृष्ठ १२४)

२.४.३०ख > चित्तं स्थिरम् अपि प्रायश् चलयत्य् एव योषितः//(पृष्ठ १२४)

२.४.३१क > नअन्यत् पटुतरं किं चिद् अस्ति रागविवर्धनम्/(पृष्ठ १२४)

२.४.३१ख > नखदन्तसमुत्थानां कर्मणां गतयो यथा//(पृष्ठ १२४)



दशनच्छेद्यविहयो

[सम्पाद्यताम्]

२.५.१.> उत्तरौष्ठम् अन्तर्मुखं नयनम् इति मुक्त्वा चुम्बनवद् दशनरदनस्थानानि//(पृष्ठ १२५)

२.५.२> समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास् तीक्ष्णअग्रा इति दशनगुणाः//(पृष्ठ १२५)

२.५.३> कुण्ठा राज्युद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः//(पृष्ठ १२५)

२.५.४> गूढकम् उच्छूनकं बिन्दुर् बिन्दुमाला *प्रवास[अन्यत्र : प्रवाल]मणिर् मणिमाला खण्डअभ्रकं वराहचर्वितकम् इति दशनच्छेदनविकल्पाः//(पृष्ठ १२६)

२.५.५> नअतिलोहितेन रागमात्रेण विभावनीयं गूढकम्//(पृष्ठ १२६)

२.५.६> तद् एव पीडनाद् उच्छूनकम्//(पृष्ठ १२६)

२.५.७> तद् उभयं बिन्दुर् अधरमध्य इति//(पृष्ठ १२६)

२.५.८> उच्छूनकं प्रवालमणिश् च कपोले//(पृष्ठ १२६)

२.५.९> कर्णपूरचुम्बनं नखदशनच्छेद्यम् इति सव्यकपोलमण्डनानि//(पृष्ठ १२६)

२.५.१०> दन्तओष्ठसंयोगअभ्यासनिष्पादनात् प्रवालमणिसिद्धिः//(पृष्ठ १२७)

२.५.११> सर्वस्यैयं मणिमालायाश् च//(पृष्ठ १२७)

२.५.१२> अल्पदेशायाश् च त्वचो दशनद्वयसंदंशजा बिन्दुसिद्धिः//(पृष्ठ १२७)

२.५.१३> सर्वैर् बिन्दुमालायाश् च//(पृष्ठ १२७)

२.५.१४> तस्मान् मालाद्वयम् अपि गलकक्षवङ्क्षणप्रदेशेषु//(पृष्ठ १२७)

२.५.१५> ललाटे चऊर्वोर् बिन्दुमाल//(पृष्ठ १२७)

२.५.१६> मण्डलम् इव विषमकूटकयुक्तं खण्डअभ्रकं स्तनपृष्ठ एव//(पृष्ठ १२७)

२.५.१७> संहताः प्रदीर्घा बह्व्यो दशनपदराजयस् ताम्रअन्तराला वराहचर्वितकम्/ स्तनपृष्ठ एव//(पृष्ठ १२८)

२.५.१८> तदुभयम् अपि च चण्डवेगयोः/ इति दशनच्छेद्यानि//(पृष्ठ १२८)

२.५.१९> विशेषके कर्णपूरे पुष्पआपीडे ताम्बूलपलाशे तमालपत्त्रे चैति प्रयोज्यआगामिषु नखदशनच्छेद्यआदीन्य् आभियोगिकानि//(पृष्ठ १२८)

२.५.२०> देशसात्म्याच् च योषित उपचरेत्//(पृष्ठ १२९)

२.५.२१> मध्यदेश्या आर्यप्रायाः शुच्युपचराश् चुम्बननखदन्तपदद्वेषिण्यः//(पृष्ठ १२९)

२.५.२२> बाह्लीकदेश्या आवन्तिकाश् च//(पृष्ठ १२९)

२.५.२३> चित्ररतेषु त्व् आसाम् अभिनिवेशः//(पृष्ठ १२९)

२.५.२४> परिष्वङ्गचुम्बननखदन्तचूषणप्रधानाः क्षतवर्जिताः प्रहणनसाध्या मालव्य आभीर्यश् च//(पृष्ठ १२९)

२.५.२५> सिन्धुषष्ठानां च नदीनाम् अन्तरालीया औपरिष्टकसात्म्याः//(पृष्ठ १३०)

२.५.२६> चण्डवेगा मन्दसीत्कृता आपरान्तिका लाठ्यश् च//(पृष्ठ १३०)

२.५.२७> दृढप्रहणनयोगिन्यः खरवेगा एव, अपद्रव्यप्रधानाः स्त्रीराज्ये कोशलायां च//(पृष्ठ १३०)

२.५.२८> प्रकृत्या मृद्व्यो रतिप्रिया अशुचिरुचयो निराचाराश् चआन्ध्र्यः//(पृष्ठ १३०)

२.५.२९> सकलचतुःषष्टिप्रयोगरागिण्यो +अश्लीलपरुषवाक्यप्रियाः शयने च सरभसौपक्रमा महाराष्ट्रिकाः//(पृष्ठ १३०)

२.५.३०> तथाविधा एव रहसि प्रकाशन्ते नागरिकाः//(पृष्ठ १३१)

२.५.३१> मृद्यमानाश् चअभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः//(पृष्ठ १३१)

२.५.३२> मध्यमवेगाः सर्वंसहाः स्वाङ्गप्रच्छादिन्यः पराङ्गहासिन्यः कुत्सितअश्लीलपरुषपरिहारिण्यो वानवासिकाः//(पृष्ठ १३१)

२.५.३३> मृदुभाषिण्यो +अनुरागवत्यो मृद्व्यङ्ग्यश् च गौड्यः//(पृष्ठ १३१)

२.५.३४> देशसात्म्यात् प्रकृतिसात्म्यं बलीय इति सुवर्णनाभः/ न तत्र देश्या उपचाराः//(पृष्ठ १३२)

२.५.३५> कालयोगाच् च देशाद् देशअन्तरम् उपचारवेषलीलाश् च*अनुगच्छन्ति[अन्यत्र : नुच्छन्ति]/ तच् च विद्यात्//(पृष्ठ १३२)

२.५.३६> उपगूहनआदिषु च रागवर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च//(पृष्ठ १३२)

२.५.३७क > वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम्/(पृष्ठ १३३)

२.५.३७ख > अमृष्यमाणा द्विगुणं तद् एव प्रतियोजयेत्//(पृष्ठ १३३)

२.५.३८क > बिन्दोः प्रतिक्रिया माला मालायाश् चअभ्रखण्डकम्/(पृष्ठ १३३)

२.५.३८ख > इति क्रोधआदिवाविष्टा कलहान् प्रतियोजयेत्//(पृष्ठ १३३)

२.५.३९क > सकचग्रहम् उन्नम्य मुखं तस्य ततः पिबेत्/(पृष्ठ १३३)

२.५.३९ख > निलीयेत दशेच् चएव तत्र तत्र मदेरिता//(पृष्ठ १३३)

२.५.४०क > उन्नम्य कण्ठे कान्तस्य संश्रिता वक्षसः स्थलीम्/(पृष्ठ १३४)

२.५.४०ख > मणिमालां प्रयुञ्जीत यच् चअन्यद् अपि लक्षितम्//(पृष्ठ १३४)

२.५.४१क > दिवाअपि जनसंबाधे नायकेन प्रदर्शितम्/(पृष्ठ १३४)

२.५.४१ख > उद्दिश्य स्वकृतं चिह्नं हसेद् अन्यैर् अलक्षिता//(पृष्ठ १३४)

२.५.४२क > विकूणयन्तिइव मुखं कुत्सयन्तिइव नायकम्/(पृष्ठ १३४)

२.५.४२ख > स्वगात्रस्थानि चिह्नानि सासूयैव प्रदर्शयेत्//(पृष्ठ १३४)

२.५.४३क > परस्परअनुकूल्येन तद् एवं लज्जमानयोः/(पृष्ठ १३४)

२.५.४३ख > संवत्सरशतेनअपि प्रीतिर् न परिहीयते//(पृष्ठ १३४)

संवेशनप्रकाराश्चित्ररतानि

[सम्पाद्यताम्]

२.६.१> रागकाले विशालयन्त्य् एव जघनं मृगी संविशेद् उच्चरते//(पृष्ठ १३५)

२.६.२> अवह्रासयन्तीइव हस्तिनी नीचरते//(पृष्ठ १३५)

२.६.३> न्याय्यो यत्र योगस् तत्र समपृष्ठम्//(पृष्ठ १३५)

२.६.४> आभ्यां वडवा व्याख्याता//(पृष्ठ १३५)

२.६.५> तत्र जघनेन नायकं प्रतिगृह्णीयात्//(पृष्ठ १३६)

२.६.६> अपद्रव्याणि च सविशेषं नीचरते//(पृष्ठ १३६)

२.६.७> उत्फुल्लकं विजृम्भितकम् इन्द्राणिकं चैति त्रितयं मृग्याः प्रायेण//(पृष्ठ १३६)

२.६.८> शिरो विनिपात्यऊर्ध्वं जघनम् उत्फुल्लकम्//(पृष्ठ १३६)

२.६.९> तत्रअपसारं दद्यात्//(पृष्ठ १३७)

२.६.१०> अनीचे सक्थिनी तिर्यग् अवसज्य प्रतीच्छेद् इति विजृम्भितकम्//(पृष्ठ १३७)

२.६.११> पार्श्वयोः समम् ऊरू विन्यस्य पार्श्वयोर् जानुनी निदध्याद् इत्य् अभ्यासयोगाद् इन्द्राणी//(पृष्ठ १३७)

२.६.१२> तयाउच्चतररतस्यअपि परिग्रहः//(पृष्ठ १३७)

२.६.१३> संपुटेन प्रतिग्रहो नीचरते//(पृष्ठ १३७)

२.६.१४> एतेन नीचतररते +अपि हस्तिन्याः//

२.६.१५> संपुटकं पीडितकं वेष्टितकं वाडवकम् इति//

२.६.१६> ऋजुप्रसारिताव् उभाव् अप्य् उभयोश् चरणाव् इति संपुटः//(पृष्ठ १३८)

२.६.१७> स द्विविधः --- पार्श्वसंपुट उत्तानसंपुटश् च/ तथा कर्मयोगात्/

२.६.१८> पार्श्वेण तु शयानो दक्षिणेन नारीम् अधिशयीतेति सार्वत्रिकम् एतत्//(पृष्ठ १३८)

२.६.१९> संपुटकप्रयुक्तयन्त्रेणएव दृढम् ऊरू पीडयेद् इति पीडितकम्//(पृष्ठ १३९)

२.६.२०> ऊरू व्यत्यस्येद् इति वेष्टितकम्//(पृष्ठ १३९)

२.६.२१> वडवाइव निष्ठुरम् अवगृह्णीयाद् इति वाडवकम् आभ्यासिकम्//(पृष्ठ १३९)

२.६.२२> तदाअन्ध्रीषु प्रायेण/ इति संवेशनप्रकारा बाभ्रवीयाः//(पृष्ठ १३९)

२.६.२३> सौवर्णनाभास् तु/

२.६.२४> उभाव् अप्य् ऊरू ऊर्ध्वाव् इति तद्भुग्नकम्//(पृष्ठ १३९)

२.६.२५> चरणाव् ऊर्ध्वं नायको +अस्या धारयेद् इति जृम्भितकम्//(पृष्ठ १४०)

२.६.२६> तत्कुञ्चिताव् उत्पीडितकम्//(पृष्ठ १४०)

२.६.२७> तद् एकस्मिन् प्रसारिते +अर्धपीडितकम्//(पृष्ठ १४०)

२.६.२८> नायकस्यअंस एको द्वितीयकः प्रसारित इति पुनः पुनर् व्यत्यासेन वेणुदारितकम्//(पृष्ठ १४०)

२.६.२९> एकः शिरस उपरि गच्छेद् द्वितीयः प्रसारित इति शूलचितकम् आभ्यासिकम्//(पृष्ठ १४०)

२.६.३०> संकुचितौ *स्वबस्तिदेशे[अन्यत्र : स्वस्तिदेशे] निदध्याद् इति कार्कटकम्//(पृष्ठ १४०)

२.६.३१> ऊर्ध्वाव् ऊरू व्यत्यस्येद् इति पीडितकम्//(पृष्ठ १४१)

२.६.३२> जङ्घाव्यत्यासेन पद्मआसनवत्//(पृष्ठ १४१)

२.६.३३> पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकम् आभ्यासिकम्//(पृष्ठ १४१)

२.६.३४> जले च संविष्टौपविष्टस्थितआत्मकांश् चित्रान् योगान् उपलक्षयेत्/ तथा सुकरत्वाद् इति सुवर्णनाभः//(पृष्ठ १४१)

२.६.३५> वार्तं तु तत्/ शिष्टैर् अपस्मृतत्वाद् इति वात्स्यायनः//(पृष्ठ १४१)

२.६.३६> अथ चित्ररतानि//(पृष्ठ १४२)

२.६.३७> ऊर्ध्वस्थितयोर् यूनोः परस्परअपाश्रययोः कुड्यस्तम्भअपाश्रितयोर् वा स्थितरतम्/(पृष्ठ १४२)

२.६.३८> कुड्यअपाश्रितस्य कण्ठअवसक्तबाहुपाशायास् तद्धस्तपञ्जरौपविष्टाया ऊरुपाशेन जघनम् अभिवेष्टयन्त्या कुड्ये चरणक्रमेण वलन्त्या अवलम्बितकं रतम्//(पृष्ठ १४२)

२.६.३९> भूमौ वा चतुष्पदवद् आस्थिताया वृषलीलयाअवस्कन्दनं धेनुकम्//(पृष्ठ १४३)

२.६.४०> तत्र पृष्ठम् उरःकर्माणि लभते//(पृष्ठ १४३)

२.६.४१> एतेनएव योगेन शौनमैणेयं छागलं गर्दभआक्रान्तं मार्जारललितकं व्याघ्रअवस्कन्दनं गजौपमर्दितं वराहघृष्टकं तुरगअधिरूढकम् इति यत्र यत्र विशेषो योगो +अपूर्वस् तत् तद् उपलक्षयेत्//(पृष्ठ १४३)

२.६.४२> मिश्रीकृतसद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम्//(पृष्ठ १४३)

२.६.४३> बह्वीभिश् च सह गोयूथिकम्//(पृष्ठ १४४)

२.६.४४> वारिक्रीडितकं छागलमैणेयम् इति तत्कर्मअनुकृतियोगात्//(पृष्ठ १४४)

२.६.४५> ग्रामनारिविषये स्त्रीराज्ये च बाह्लीके बहवो युवानो +अन्तःपुरसधर्माण एकैकस्याः परिग्रहभूताः/

२.६.४६> तेषाम् एकैकशो युगपच् च यथासात्म्यं यथायोगं च रञ्जयेयुः//(पृष्ठ १४४)

२.६.४७> एको धारयेद् एनाम् अन्यो निषेवेत/ अन्यो *जघनमुखम्[अन्यत्र : जघनं मुखम्] अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण चअनुतिष्ठेयुः//(पृष्ठ १४५)

२.६.४८> एतया गोष्ठीपरिग्रहा वेश्या राजयोषा*परिग्रहश्[अन्यत्र : परिग्रहाश्] च व्याख्यातः//(पृष्ठ १४५)

२.६.४९> अघोरतं पायाव् अपि दाक्षिणात्यानाम्/ इति चित्ररतानि//(पृष्ठ १४५)

२.६.५०> पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः//(पृष्ठ १४६) भवतश् चअत्र श्लोकौ ---(पृष्ठ १४६) २.६.५१कख> पशूनां मृगजातीनां पतङ्गानां च विभ्रमैः/(पृष्ठ १४६)

२.६.५१गघ> तैस् तैस् उपायैश् चित्तज्ञो रतियोगान् विवर्धयेत्//(पृष्ठ १४६)

२.६.५२कख> तत्सात्म्याद् देशसात्म्याच् च तैस् तैर् भावैः प्रयोजितैः/(पृष्ठ १४६)

२.६.५२गघ> स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते//(पृष्ठ १४६)



सञ्चिका:Rupali
pravin

प्रहणनप्रयोगास् तद्युक्ताश् च सीत्कृतक्रमाः

[सम्पाद्यताम्]

२.७.१> कलहरूपं सुरतम् आचक्षते/ विवादआत्मकत्वाद् वामशीलत्वाच् च कामस्य//(पृष्ठ १४७)

२.७.२> तस्मात् प्रहणनस्थानम् अङ्गम्/ स्कन्धौ शिरः स्तनअन्तरं पृष्ठं जघनं पार्श्व इति स्थानानि//(पृष्ठ १४७)

२.७.३> तच् चतुर्विधम् --- अपहस्तकं प्रसृतकं मुष्टिः समतलकम् इति//(पृष्ठ १४७)

२.७.४> तद् उद्भवं च सीत्कृतम्/ तस्य*अतिरूपत्वात्[अन्यत्र : ार्तिरूपत्वात्]/ तद् अनेकविधम्//(पृष्ठ १४८)

२.७.५> विरुतानि चअष्टौ//(पृष्ठ १४८)

२.७.६> हिंकारस्तनितकूजितरुदितसूत्कृतदूत्कृतफूत्कृतानि//(पृष्ठ १४८)

२.७.७> अम्वार्थाः शब्दा वारणअर्था मोक्षणअर्थाश् चालम् अर्थास् ते ते चअर्थयोगात्//(पृष्ठ १४८)

२.७.८> पारावतपरभृतहारीतशुकमधुकरदात् यूहहंसकारण्डवलावकविरुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत//(पृष्ठ १४९)

२.७.९> उत्सङ्गौपविष्टायाः पृष्ठे मुष्टिना प्रहारः//(पृष्ठ १४९)

२.७.१०> तत्र सासूयाया इव स्तनितरुदितकूजितानि प्रतीघातश् च स्यात्//(पृष्ठ १४९)

२.७.११> युक्तयन्त्रायाः स्तनअन्तरे +अपहस्तकेन प्रहरेत्//(पृष्ठ १४९)

२.७.१२> मन्दौपक्रमं वर्धमानरागमा *परिसमाप्तेः[अन्यत्र : परिसमाप्तः]//(पृष्ठ १४९)

२.७.१३> तत्र हिंकारआदीनाम् अनियमेनअभ्यासेन विकल्पेन च तत्कालम् एव प्रयोगः//(पृष्ठ १५०)

२.७.१४> शिरसि किं चिद् आकुञ्चितअङ्गुलिना करेण विवदन्त्याः फूत्कृत्य प्रहणनं तत्प्रसृतकम्//(पृष्ठ १५०)

२.७.१५> तत्रअन्तर्मुखेन कूजितं फूत्कृतं च//(पृष्ठ १५०)

२.७.१६> रतअन्ते च श्वसितरुदिते/

२.७.१७> वेणोर् इव स्फुटतः शब्दअनुकरणं दूत्कृतम्//(पृष्ठ १५०)

२.७.१८> अप्सु बदरस्यैव निपततः (शब्दअनुकरणं) फूत्कृतम्//(पृष्ठ १५१)

२.७.१९> सर्वत्र चुम्बनआदिष्व् अपक्रान्तायाः ससीत्कृतं तेनएव प्रत्युत्तरम्//(पृष्ठ १५१)

२.७.२०> रागवशात् प्रहणनअभ्यासे वारणमोक्षणालम् अर्थानां शब्दानाम् अम्बअर्थानां च सतान्तश्वसितरुदितस्तनितमिश्रीकृतप्रयोगा विरुतानां च/ रागअवसानकाले जघनपार्श्वयोस् ताडनम् इत्य् अतित्वरया चअपरिसमाप्तेः//(पृष्ठ १५१)

२.७.२१> तत्र लावकहंसविकूजितं त्वरयाएव/इति स्तननप्रहणनयोगाः//(पृष्ठ १५१)

२.७.२२क > पारुष्यं रभसत्वं च पौरुषं तेज उच्यते/(पृष्ठ १५२)

२.७.२२ख > अशक्तिर् आर्तिर्व्यावृत्तिर् अबलत्वं च योषितः//(पृष्ठ १५२)

२.७.२३क > रागात् प्रयोगसात्म्याच् च व्यत्ययो +अपि क्व चिद् भवेत्/(पृष्ठ १५२)

२.७.२३ख > न चिरं तस्य चएवअन्ते प्रकृतेर् एव योजनम्//(पृष्ठ १५२)

२.७.२४> कीलाम् उरसि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश् चैति पूर्वैः सह प्रहणनम् अष्टविधम् इति दाक्षिणात्यानाम्/ तद्युवतीनाम् उरसि कीलानि च तत्कृतानि दृष्यन्ते/ देशसात्म्यम् एतत्//(पृष्ठ १५३)

२.७.२५> कष्टम् अनार्यवृत्तम् अनादृतम् इति वात्स्यायनः//(पृष्ठ १५३)

२.७.२६> तथाअन्यद् अपि देशसात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत्//(पृष्ठ १५३)छेच्केद्

२.७.२७> आत्ययिकं तु तत्रअपि परिहरेत्//(पृष्ठ १५३)

२.७.२८> रतियोगे हि कीलया गणिकां चित्रसेणां चोलराजो जघान/(पृष्ठ १५४)

२.७.२९> कर्तर्या कुन्तलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम्//(पृष्ठ १५४)

२.७.३०> नरदेवः कुपाणिर् विद्धया दुष्प्रयुक्तया नटीं काणां चकार//(पृष्ठ १५४) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १५४)

२.७.३१कख> नास्त्य् अत्र गणना का चिन् न च शास्त्रपरिग्रहः/(पृष्ठ १५४)

२.७.३१गघ> प्रवृत्ते रतिसंयोगे राग एवअत्र कारणम्//(पृष्ठ १५४)

२.७.३२कख> स्वप्नेष्व् अपि न दृश्यन्ते ते भावास् ते च विभ्रमाः/(पृष्ठ १५५)

२.७.३२गघ> सुरतव्यवहारेषु ये स्युस् तत्क्षणकल्पिताः//(पृष्ठ १५५)

२.७.३३कख> यथा हि पञ्चमीं धाराम् आस्थाय तुरगः पथि/(पृष्ठ १५५)

२.७.३३गघ> स्थाणुम् श्वभ्रं दरीं वाअपि वेगअन्धो न समीक्षते//(पृष्ठ १५५)

२.७.३३ग> एवं सुरतसंमर्दे रागअन्धौ कामिनाव् अपि/(पृष्ठ १५५) २.७.३३घ> चण्डवेगौ प्रवर्तेते समीक्षेते न चअत्ययम्//(पृष्ठ १५५)

२.७.३४कख> तस्मान् मृदुत्वं चण्डत्वं युवत्या बलम् एव च/(पृष्ठ १५५)

२.७.३४गघ> आत्मनश् च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्//(पृष्ठ १५५)

२.७.३५कख> न सर्वदा न सर्वासु प्रयोगाः सांप्रयोगिकाः/(पृष्ठ १५६)

२.७.३५गघ> स्थाने देशे च काले च योग एषां विधीयते//(पृष्ठ १५६)

पुरुषोपसृप्तानि पुरुषायितं

[सम्पाद्यताम्]

२.८.१> नायकस्य संततआभ्यासात् परिश्रमम् उपलभ्य रागस्य चअनुपशमम्, अनुमता तेन तमधो +अवपात्य पुरुषआयितेन साहाय्यं दद्यात्/

२.८.२> स्वअभिप्रायाद् वा विकल्पयोजनअर्थिनी

२.८.३> नायककुतूहलाद् वा//(पृष्ठ १५६)

२.८.४> तत्र युक्तयन्त्रेणएवैतरेणौत्थाप्यमाना तमधः पातयेत्/ एवं च रतम् अविच्छिन्नरसं तथा प्रवृत्तम् एव स्यात्/ इत्य् एको +अयं मार्गः/

२.८.५> पुनर् आरम्भेणआदित एवौपक्रमेत्/ इति द्वितीयः//(पृष्ठ १५७)

२.८.६> सा प्रकीर्यमाणकेशकुसुमा श्वासविच्छिन्नहासिनी वक्त्रसंसर्गअर्थं स्तनाभ्याम् उरः पीडयन्ती पुनः पुनः शिरो नामयन्ती याश् चेष्टाः पूर्वम् *अंसौ[अन्यत्र : सौ] दर्शितवांस् ता एव प्रतिकुर्वीत/ पातिता प्रतिपातयामिइति/ हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्/ पुनश् च व्रीडां दर्शयेत्/ श्रमं विरामअभीप्सां च/ पुरुषोपसृप्तैर् एवौपसर्पेत्//(पृष्ठ १५८)

२.८.७> तानि च वक्ष्यामः//(पृष्ठ १५८)

२.८.८> पुरुषः शयनस्थाया योषितस् तद् वचनव्याक्षिप्तचित्ताया इव नीवीं विश्लेषयेत्/ तत्र विवदमानां कपोलचुम्बनेन पर्याकुलयेत्/

२.८.९> स्थिरलिङ्गश् च तत्र तत्रएनां परिस्पृशेत्/

२.८.१०> प्रथमसंगता चेत् संहतऊर्वोर् अन्तरे घट्टनम्/

२.८.११> कन्यायाश् च/

२.८.१२> तथा स्तनयोः संहतयोर् हस्तयोः कक्षयोर् अंसयोर् (पृष्ठ १५८) ग्रीवायाम् इति च/

२.८.१३> स्वैरिण्यां यथासात्म्यं यथायोगं च/ अलके चुम्बनअर्थम् एनां निर्दयम् अवलम्बेत्/ हनुदेशे चअङ्गुलिसंपुटेन/

२.८.१४> तत्रैतरस्या व्रीडा निमीलनं च/ प्रथमसमागमे कन्यायाश् च//(पृष्ठ १५९)

२.८.१५> रतिसंयोगे चएनां कथम् अनुरज्यत इति प्रवृत्त्या परीक्षेत//(पृष्ठ १६०)

२.८.१६> युक्तयन्त्रेणौपसृप्यमाणा यतो दृष्टिम् आवर्तयेत् तत एवएनां पीडयेत्// एतद् रहस्यं युवतीनाम् इति सुवर्णनाभः//(पृष्ठ १६०)

२.८.१७> गात्राणां स्रंसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रतियोजनाइति स्त्रीणां भावलक्षणम्//(पृष्ठ १६१)

२.८.१८> हस्तौ विधुनोति स्विद्यति दशत्य् उत्थातुं न ददाति पादेनआहन्ति रतअवमाने च पुरुषअतिवर्तिनी//(पृष्ठ १६१)

२.८.१९> तस्याः प्राग्यन्त्रयोगात् करेण संबाधं गज एव क्षोभयेत्/ आ मृदुभावात्/ ततो यन्त्रयोजनम्//(पृष्ठ १६१)

२.८.२०> उपसृप्तकं मन्थनं हुलो +अवमर्दनं पीडितकं निर्घातो वराहघातो वृषआघातश् चटकविलसितं संपुट इति पुरुषोपसृप्तानि/

२.८.२१> न्याय्यम् ऋजुसंमिश्रणम् उपसृप्तकम्/

२.८.२२> हस्तेन लिङ्गं सर्वतो भ्रामयेत् इति मन्थनम्/

२.८.२३> नीचीकृत्य जघनम् उपरिष्टाद् घट्टयेद् इति हुलः/

२.८.२४> तद् एव विपरीतं सरभसमवमर्दनम्/

२.८.२५> लिङ्गेन समाहत्य पीडयंश् चिरम् *अवतिष्ठेद्[अन्यत्र : वतिष्ठेत] इति पीडितकम्/

२.८.२६> सुदूरम् उत्कृष्य वेगेन स्वजघनम् अवपातयेद् इति निर्घातः/

२.८.२७> एकत एव भूयिष्ठम् अवलिखेद् इति वराहघातः/

२.८.२८> स एवौभयतः पर्यायेण वृषआघातः/

२.८.२९> सकृन्मिश्रितम् अनिष्क्रमय्य द्विस्त्रिश् चतुर् इति घट्टयेद् इति चटकविलसितम्/

२.८.३०> रागअवसानिकं व्याखातं करणं संपुटम् इति//(पृष्ठ १६२)

२.८.३१> तेषां स्त्रीसात्म्याद् विकल्पेन प्रयोगः//(पृष्ठ १६३)

२.८.३२> पुरुषायिते तु संदंशो भ्रमरकः प्रेङ्खोलितम् इत्य् अधिकानि//(पृष्ठ १६३)

२.८.३३> वाडवेन लिङ्गम् अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरअवस्थानं संदंशः//(पृष्ठ १६३)

२.८.३४> युक्तयन्त्रा चक्रवद् भ्रमेद् इति भ्रमरक आभ्यासिकः//(पृष्ठ १६३)

२.८.३५> तत्रैतरः स्वजघनम् उत्क्षिपेत्//(पृष्ठ १६३)

२.८.३६> जघनम् एव दोलायमानं सर्वतो भ्रामयेद् इति प्रेङ्खोलितकम्//(पृष्ठ १६४)

२.८.३७> युक्तयन्त्रएव ललाटे ललाटे निधाय विश्राम्येत//(पृष्ठ १६४)

२.८.३८> विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम्/ इति पुरुषआयितानि//(पृष्ठ १६४) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १६४)

२.८.३९कख> प्रच्छादितस्वभावाअपि गूढआकाराअपि कामिनी/(पृष्ठ १६४)

२.८.३९गघ> विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी//(पृष्ठ १६४)

२.८.४०कख> यथाशीला भवेन् नारी यथा च रतिलालसा/(पृष्ठ १६४)

२.८.४०गघ> तस्या एव विचेष्टाभिस् तत्सर्वम् उपलक्षयेत्//(पृष्ठ १६४)

२.८.४१कख> न त्व् एवर्तौ न प्रसूतां न मृगीं न च गर्भिणीम्(पृष्ठ १६५)

२.८.४१गघ> न चअतिव्यायतां नारीं योजयेत् पुरुषआयिते//(पृष्ठ १६५)

औपरिष्टकं नवमो

[सम्पाद्यताम्]

२.९.१> द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च//(पृष्ठ १६५)

२.९.२> तत्र स्त्रीरूपिणी स्त्रीया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् असहिष्णुतां व्रीडां चअनुकुर्वीत//(पृष्ठ १६६)

२.९.३> तस्या वदने जघनकर्म/ तदौपरिष्टकम् आचक्षते//(पृष्ठ १६६)

२.९.४> सा ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत्/

२.९.५> वेश्यावच् चरितं प्रकाशयेत्/ इति स्त्रीरूपिणी//(पृष्ठ १६६)

२.९.६> पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभावम् उपजीवेत्/

२.९.७> संवाहने परिष्वजमानाइव गात्रैर् ऊरूनायकस्य मृद्गीयात्/

२.९.८> प्रसृतपरिचया चऊरुमूलं सजघनम् इति संस्पृशेत्/

२.९.९> तत्र स्थिरलिङ्गताम् उपलभ्य चअस्य पाणिमन्थेन परिघट्टयेत्/ चअपलम् अस्य कुत्सयन्तीइव हसेत्/

२.९.१०> कृतलक्षणेनअप्य् उपलब्धवैकृतेनअपि न चोद्यत इति चेत् स्वयम् (पृष्ठ १६६) उपक्रमेत्/

२.९.११> पुरुषेण च चोद्यमाना विवदेत्/ कृच्छ्रेण चअभ्युपगच्छेत्//(पृष्ठ १६७)

२.९.१२> तत्र कर्मअष्टविधं समुच्चयप्रयोज्यम्/

२.९.१३> निमितं पार्श्वतो दष्टं बहिःसंदंशो +अन्तःसंदंशश् चुम्बितकं परिमृष्टकम् आम्रचूषितकं संगर इति//(पृष्ठ १६७)

२.९.१४> तेष्व् एकैकम् अभ्युपगम्य विरामअभीप्सां दर्शयेत्//(पृष्ठ १६८)

२.९.१५> इतरश् च पूर्वस्मिन्न् अभ्युपगते तदुत्तरम् एवअपरं निर्दिशेत्/ तस्मिन्न् अपि सिद्धे तदुत्तरम् इति//(पृष्ठ १६८)

२.९.१६> करअवलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य मुखं विधुनुयात्/ तन्निमितम्//(पृष्ठ १६८)

२.९.१७> हस्तेणअग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्टाभ्याम् अवपीड्य भवत्व् एतावद् इति सान्त्वयेत्/ तत्पार्श्वतो दष्टम्//(पृष्ठ १६८)

२.९.१८> भूयश् चोदिता संमीलितओष्ठी तस्यअग्रं निष्पीड्य कर्षयन्तीइव चुम्बेत्/ इति बहिःसंदंशः//(पृष्ठ १६९)

२.९.१९> तस्मिन्न् एवअभ्यर्थनया किं चिद् अधिकं प्रवेशयेत्/ साअपि चअग्रम् ओष्ठाभ्यां निष्पीड्य निष्ठीवेत्/ इत्य् अन्तःसंदंशः//(पृष्ठ १६९)

२.९.२०> करअवलम्बितस्यओष्ठवद् ग्रहणं चुम्बितकम्//(पृष्ठ १६९)

२.९.२१> तत् कृत्वा जिह्वाअग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति परिमृष्टकम्//(पृष्ठ १६९)

२.९.२२> तथाभूतम् एव रागवशाद् अर्धप्रविष्टं निर्दयम् अवपीड्याव् अपीड्य मुञ्चेत्/ इति आम्रचूषितकम्//(पृष्ठ १६९)

२.९.२३> पुरुषअभिप्रायाद् एव गिरेत् पीडयेच् चअपरिसमाप्तेः/ इति संगरः//(पृष्ठ १७०)

२.९.२४> यथाअर्थं चअत्र स्तननप्रहणनयोः प्रयोगः/ इत्य् औपरिष्टकम्//(पृष्ठ १७०)

२.९.२५> कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश् चअप्य् एतत् प्रयोजयन्ति//(पृष्ठ १७०)

२.९.२६> तद् एतत् तु न कार्यम्/ समयविरोधाद् असभ्यत्वाच् च/ पुनर् अपि ह्य् आसां वदनसंसर्गे स्वयम् एवआर्तिं प्रपद्येत/ इत्य् आचार्याः//(पृष्ठ १७०)

२.९.२७> वेश्याकामिनो +अयम् अदोषः/ अन्यतो +अपि परिहार्यः स्यात्/ इति वात्स्यायनः//(पृष्ठ १७१)

२.९.२८> तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः//(पृष्ठ १७१)

२.९.२९> वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति//(पृष्ठ १७१)

२.९.३०> निरपेक्षाः साकेताः संसृज्यन्ते//(पृष्ठ १७२)

२.९.३१> न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः//(पृष्ठ १७२)

२.९.३२> सर्वम् अविशङ्कया प्रयोजयन्ति सौरसेनाः//(पृष्ठ १७२)

२.९.३३> एवं ह्य् आहुः --- को हि योषितां शीलं शौचम् आचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुम् अर्हति/ निसर्गाद् एव हि मलिनदृष्टयो भवन्त्य् एता न परित्याज्याः/ तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम्/ एवं ह्य् आहुः ---(पृष्ठ १७२) वत्सः प्रस्रवणे मेध्यः श्वा मृगग्रहणे शुचिः/(पृष्ठ १७२) शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे//(पृष्ठ १७२)

२.९.३४> शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद् देशस्थितेर् आत्मनश् च वृत्तिप्रत्ययअनुरूपं प्रवर्तेत/ इति वात्स्यायनः//(पृष्ठ १७३) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १७३)

२.९.३५कख> प्रमृष्टकुण्डलाश् चअपि युवानः परिचारकाः/(पृष्ठ १७३)

२.९.३५गघ> केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम्//(पृष्ठ १७३)

२.९.३६कख> तथा नागरकाः के चिद् अन्योन्यस्य हितएषिणः/(पृष्ठ १७४)

२.९.३६गघ> कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम्//(पृष्ठ १७४)

२.९.३७कख> पुरुषाश् च तथा स्त्रीषु कर्मएतत् किल कुर्वते/(पृष्ठ १७४)

२.९.३७गघ> व्यासस् तस्य च विज्ञेयो मुखचुम्बनवद् विधिः//(पृष्ठ १७४)

२.९.३८कख> परिवर्तितदेहौ तु स्त्रीपुंसौ यत् परस्परम्/(पृष्ठ १७४)

२.९.३८गघ> युगपत्संप्रयुज्येते स कामः काकिलः स्मृतः//(पृष्ठ १७४)

२.९.३९कख> तस्माद् गुणवतस् त्यक्त्वा चतुरांस् त्यागिनो नरान्/(पृष्ठ १७५)

२.९.३९गघ> वेश्याः खलेषु रज्यन्ते दासहस्तिपकआदिषु//(पृष्ठ १७५)

२.९.४०कख> न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री वा राजधूर्धरः//(पृष्ठ १७५)

२.९.४०गघ> गृहीतप्रत्ययो वाअपि कारयेद् औपरिष्टकम्//(पृष्ठ १७५)

२.९.४१कख> न शास्त्रम् अस्तिइत्य् एतावत् प्रयोगे कारणं भवेत्/(पृष्ठ १७५)

२.९.४१गघ> शास्त्रअर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एकदेशिकान्//(पृष्ठ १७५)

२.९.४२कख> रसवीर्यविपाका हि श्वमांसस्यअपि वैद्यके/(पृष्ठ १७६)

२.९.४२गघ> कीर्तिता इति तत् किं स्याद् भक्षणीयं विचक्षणैः//(पृष्ठ १७६)

२.९.४३कख> सन्त्य् एव पुरुषाः के चित् सन्ति देशास् तथाविधाः/(पृष्ठ १७६)

२.९.४३गघ> सन्ति कालाश् च येष्व् एते योगा न स्युर् निरर्थकाः//(पृष्ठ १७६)

२.९.४४कख> तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च/(पृष्ठ १७६)

२.९.४४गघ> आत्मानं चअपि संप्रेक्ष्य योगान् युञ्जीत वा न वा//(पृष्ठ १७६)

२.९.४५कख> अर्थस्यअस्य रहस्यत्वाच् चलत्वान् मनसस् तथा/(पृष्ठ १७६)

२.९.४५गघ> कः कदा किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति//(पृष्ठ १७६)



रतअरम्भअवसानिकं रतविशेषाः प्रणयकलहश् च

[सम्पाद्यताम्]

२.१०.१> नागरकः सह मित्रजनेन परिचारकैश् च कृतपुष्पौपहारे संचारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चौपक्रमेत्/

२.१०.२> दक्षिणतश् चअस्या उपवेशनम्/ केशहस्ते वस्त्रअन्ते नीव्याम् इत्य् अवलम्बनम्/ रत्यर्थं सव्येन बाहुनाअनुद्धतः परिष्वङ्गः/

२.१०.३क > पूर्वप्रकरणसंबद्धैः परिहासअनुरागैर् वचोभिर् अनुवृत्तिः/

२.१०.३ख > गूढअश्लीलानां च वस्तूनां समस्यया परिभाषणम्/

२.१०.४> सनृत्तम् अनृत्तं वा गीतं वादित्रम्/ कलासु संकथाः/ पुनः पानेनौपच्छन्दनम्/

२.१०.५> जातअनुरागायां कुसुमअनुलेपनताम्बूल(१७७) दानेन च शेषजनविसृष्टिः/ विजने च यथाउक्तैर् आलिङ्गनआदिभिर् एनाम् उद्धर्षयेत्/ ततो नीवीविश्लेषणआदि यथाउक्तम् उपक्रमेत/ इत्य् अयं रतआरम्भः//(पृष्ठ १७८)

२.१०.६> रतअवसानिकं रागम् अतिवाह्यअसंस्तुतयोर् इव सव्रीडयोः परस्परम् अपश्यतोः पृथक् पृथग् आचारभूमिगमनम्/ प्रतिनिवृत्त्य चआव्रीडायमानयोर् उचितदेशौपविष्टयोस् ताम्बूलग्रहणम् अच्छीकृतं चन्दनम् अन्यद् वाअनुलेपनं तस्या गात्रे स्वयम् एव निवेशयेत्/

२.१०.७> सव्येन बाहुना चएनां परिरभ्य चषकहस्तः सान्त्वयन् पाययेत्/ जलअनुपानं वा खण्डखाद्यकम् अन्यद् वा प्रकृतिसात्म्ययुक्तम् उभाव् अप्य् उपयुञ्जीयाताम्/

२.१०.८> अच्छरसकयूषम् अम्लयवागूं भृष्टमांसौपदंशानि पानकानि चूतफलानि शुष्कमांसं मातुलुङ्गचुक्रकाणि सशर्कराणि च यथादेशसात्म्यं च/ तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपाहरेत्/

२.१०.९> हर्म्यतलस्थितयोर् वा चन्द्रिकासेवनअर्थम् आसनम्/ तत्रअनुकूलाभिः कथाभिर् अनुवर्तेत/ तदङ्कसंलीनायाश् चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीकरणम्/ अरुन्धतीध्रुवसप्तर्षिमालादर्शनं च/ इति रतअवसानिकम्//(पृष्ठ १७९)

२.१०.१०क > अवसाने +अपि च प्रीतिर् उपचारैर् उपस्कृता/(पृष्ठ १८०)

२.१०.१०ख > सविस्रम्भकथायोगै रतिं जनयते पराम्//(पृष्ठ १८०)

२.१०.११क > परस्परप्रीतिकरैर् आत्मभावअनुवर्तनैः/(पृष्ठ १८१)

२.१०.११ख > क्षणात् क्रोधपरावृत्तैः क्षणात् प्रीतिविलोकितैः//(पृष्ठ १८१)

२.१०.१२क > हल्लीसकक्रीडनकैर् गायनैर् लाटरासकैः/(पृष्ठ १८१)

२.१०.१२ख > रागलोलआर्द्रनयनैश् चन्द्रमण्डलवीक्षणैः//(पृष्ठ १८१) २.१०.१३क > आद्ये संदर्शने जाते पूर्वं ये स्युर् मनोरथाः/(पृष्ठ १८१)

२.१०.१३ख > पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः//(पृष्ठ १८१)

२.१०.१३ग> कीर्तनअन्ते च रागेण परिष्वङ्गैः सचुम्बनैः/(पृष्ठ १८१)

२.१०.१३घ> तैस् तैश् च भावैः संयुक्तो यूनो रागो विवर्धते//(पृष्ठ १८१)

२.१०.१४> रागवद् आहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरतम् अयन्त्रितरतम् इति रतविशेषाः//(पृष्ठ १८२)

२.१०.१५> संदर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत्//(पृष्ठ १८२)

२.१०.१६> तत्रआत्मअभिप्रायाद् यावद् अर्थं च प्रवृत्तिः//(पृष्ठ १८२)

२.१०.१७> मध्यस्थरागयोर् आरब्धं यद् अनुरज्यते तद् आहार्यरागम्//(पृष्ठ १८२)

२.१०.१८> तत्र चातुःषष्टिकैर् योगैः सात्म्यअनुविद्धैः संधुक्ष्य संधुक्ष्य रागं प्रवर्तेत/

२.१०.१९> तत्कार्यहेतोर् अन्यत्र सक्तयोर् वा कृत्रिमरागम्//(पृष्ठ १८३)

२.१०.२०> तत्र समुच्चयेन योगाञ् शास्त्रतः पश्येत्//(पृष्ठ १८३)

२.१०.२१> पुरुषस् तु हृदयप्रियाम् अन्यां मनसि निधाय व्यवहरेत्/ संप्रयोगात् प्रभृति रतिं यावत्/ अतस् तद्व्यवहितरागम्//(पृष्ठ १८३)

२.१०.२२> न्यूनायां कुम्भदास्यां परिचारिकायां वा यावद् अर्थं संप्रयोगस् तत्पोटारतम्//(पृष्ठ १८४)

२.१०.२३> तत्रौपचारान् नआद्रियेत//(पृष्ठ १८४)

२.१०.२४> तथा वेश्याया ग्रामीणेन सह यावद् अर्थं खलरतम्//(पृष्ठ १८४)

२.१०.२५> ग्रामव्रजप्रत्यन्तयोषिद्भिश् च नागरकस्य//(पृष्ठ १८४)

२.१०.२६> उत्पन्नविस्रम्भयोश् च परस्परअनुकूल्याद् अयन्त्रितरतम्/ इति रतानि//(पृष्ठ १८४)

२.१०.२७> वर्धमानप्रणया तु नायिका सपत्नीनाम् अग्रहणं तदाश्रयम् आलापं वा गोत्रस्खलितं वा न मर्षयेत्/ नायकव्यलीकं च//(पृष्ठ १८५)

२.१०.२८> तत्र सुभृशः कलहो रुदितम् आयासः शिरोरुहाणाम् अवक्षोदनं प्रहणनम् आसनाच् छयनाद् वा मह्यां पतनं माल्यभूषणअवमोक्षो भूमौ शय्या च//(पृष्ठ १८५)

२.१०.२९> तत्र युक्तरूपेण साम्ना पादपतनेन वा प्रसन्नमनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत्//(पृष्ठ १८५)

२.१०.३०> तस्य च वचनम् उत्तरेण योजयन्ती विवृद्धक्रोधा सकचग्रहम् अस्यआस्यम् उन्नमय्य पादेन बाहौ शिरोसि वक्षसि पृष्ठे वा सकृद् द्विस् त्रिर् अवहन्यात्/ द्वारदेशं गच्छेत्/ तत्रौपविश्यअश्रुकरणम् इति/

२.१०.३१> अतिक्रुद्धाअपि तु न द्वारदेशाद् भूयो गच्छेत्/ दोषवत्त्वात्/ इति दत्तकः/ तत्र युक्तितो +अनुनीयमाना प्रसादम् आकाङ्क्षेत्/ प्रसन्नाअपि तु सकषायैर् एव वाक्यैर् एनं तुदतीइव प्रसन्नरतिकाङ्क्षिणी नायकेन परिरभ्येत//(पृष्ठ १८६)

२.१०.३२> स्वभवनस्था तु निमित्तात् कलहिता तथाविधचेष्टाएव नायकम् अभिगच्छेत्/ (पृष्ठ १८६)

२.१०.३३> तत्र पीठमर्दविटविदूषकैर् नायकप्रयुक्तैर् उपशमितरोषा तैर् एवअनुनीता तैः सहएव तद्भवनम् अधिगच्छेत्/ तत्र च वसेत्/ इति प्रणयकलहः//(पृष्ठ १८७) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १८७)

२.१०.३४कख> एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्/(पृष्ठ १८७)

२.१०.३४गघ> प्रयुञ्जानो वरस्त्रीषु सिद्धिं गच्छति नायकः//(पृष्ठ १८७)

२.१०.३५कख> ब्रुवन्न् अप्य् अन्यशास्त्राणि चतुःषष्टिविवर्जितः/ (पृष्ठ १८७)

२.१०.३५गघ> विद्वत्संसदि नअत्यर्थं कथासु परिपूज्यते//(पृष्ठ १८७)

२.१०.३६कख> वर्जितो +अप्य् अन्यविज्ञानैर् एतया यस् त्व् अलंकृतः/(पृष्ठ १८८)

२.१०.३६गघ> स गोष्ठ्यां नरनारीणां कथास्व् अग्रं विगाहते//(पृष्ठ १८८)

२.१०.३७कख> विद्वद्भिः पूजिताम् एनां खलैर् अपि सुपूजिताम्/(पृष्ठ १८८)

२.१०.३७गघ> पूजितां गणिकासंघैर् नन्दिनीं को न पूजयेत्//(पृष्ठ १८८)

२.१०.३८कख> नन्दिनी सुभगा सिद्धा सुभगंकरणीइति च/(पृष्ठ १८८)

२.१०.३८गघ> नारीप्रियाइति चआचार्यैः शास्त्रेष्व् एषा निरुच्यते//(पृष्ठ १८८)

२.१०.३९कख> कन्याभिः परयोषिद्भिर् गणिकाभिश् च भावतः/(पृष्ठ १८८)

२.१०.३९गघ> वीक्ष्यते बहुमानेन चतुःषष्टिविचक्षणः//(पृष्ठ १८८)



कन्यासंप्रयुक्तकं

[सम्पाद्यताम्]

वरणसंविधानम् संबन्धनिश्चयः च

[सम्पाद्यताम्]

३.१.१> सवर्णायाम् अनन्यपूर्वायां शास्त्रतो +अधिगतायां धर्मो +अर्थः पुत्राः संबन्धः पक्षवृद्धिर् अनुपस्कृता रतिश् च//(पृष्ठ १९०)

३.१.२> तस्मात् कन्याम् अभिजनौपेतां मातापितृमतीं त्रिवर्षात् प्रभृति न्यूनवयसं श्लाघ्यआचारे धनवति पक्षवति कुले संबन्धिप्रिये संबन्धिभिर् आकुले प्रसूतां प्रभूतमातृपितृपक्षां रूपशीललक्षणसंपन्नाम् अन्यूनअधिका(पृष्ठ १९०)विनष्टदन्तनखकर्णकेशअक्षिस्तनीम् अरोगिप्रकृतिशरीरां तथाविध एव श्रुतवाञ् शीलयेत्//(पृष्ठ १९१)

३.१.३> यां गृहीत्वा कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः//(पृष्ठ १९१)

३.१.४> तस्या वरणे मातापितरौ संबन्धिनश् च प्रयतेरन्/ मित्राणि च गृहीतवाक्यान्य् उभयसंबद्धानि//(पृष्ठ १९१)

३.१.५> तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्षअनागमिकांश् च श्रावयेयुः/ कौलान् पौरुषेयान् अभिप्रायसंवर्धकांश् च नायकगुणान्/ विशेषतश् च कन्यामातुर् अनुकूलांस् तदात्वआयतियुक्तान् दर्शयेयुः//(पृष्ठ १९२)

३.१.६> दैवचिन्तकरूपश् च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तम् अर्थसंयोगं कल्याणम् अनुवर्णयेत्//(पृष्ठ १९२)

३.१.७> अपरे पुनर् अस्यअन्यतो विशिष्टेन कन्यालाभेन कन्यामातरम् उन्मादयेयुः//(पृष्ठ १९३)

३.१.८> दैवनिमित्तशकुनौपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च//(पृष्ठ १९३)

३.१.९> न यदृच्छया केवलमानुषायैति घोटकमुखः//(पृष्ठ १९३)

३.१.१०> सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्/

३.१.११> अप्रशस्तनामधेयां च गुप्तां दत्तां घोनां पृषताम् ऋषभां विनतां विकटां विमुण्डां शुचिदूषितां सांकरिकीं राकां फलीनीं मित्रां स्वनुजाम् वर्षकरीं च वर्जयेत्//(पृष्ठ १९३)

३.१.१२क > नक्षत्रआख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम्/(पृष्ठ १९४)

३.१.१२ख > लकाररेफौपान्तां च वरणे परिवर्जयेत्//(पृष्ठ १९४)

३.१.१३> यस्यां मनश्चक्षुषोर् निबन्धस् तस्याम् ऋद्धिः/ नैतराम् आद्रियेत/ इत्य् एके//(पृष्ठ १९४)

३.१.१४> तस्मात् प्रदानसमये कन्याम् उदारवेषां स्थापयेयुः/ अपराह्णिकं च नित्यं प्रसाधितायाः सखीभिः सह क्रीडा/ यज्ञविवाहआदिषु जनसंद्रावेषु प्रायत्निकं दर्शनम्/ तथौत्सवेषु च/ पण्यसधर्मत्वात्//(पृष्ठ १९५)

३.१.१५> वरणअर्थम् उपगतांश् च भद्रदर्शनान् प्रदक्षिणवाचश् च तत्संबन्धिसंगतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः/

३.१.१६> कन्यां चएषाम् अलंकृताम् अन्यअपदेशेन दर्शयेयुः/

३.१.१७> दैवं परीक्षणं चअवधिं स्थापयेयुः/ आ प्रदाननिश्चयात्//(पृष्ठ १९५)

३.१.१८> स्नानआदिषु नियुज्यमाना वरयितारः सर्वं भविष्यतिइत्य् उक्त्वा न तदहरेवअभ्युपगच्छेयुः//(पृष्ठ १९६)

३.१.१९> देशप्रवृत्तिसात्म्याद् वा ब्राह्मप्राजापत्यआर्षदैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्/ इति वरणविधानम्//(पृष्ठ १९६) भवन्ति चअत्र श्लोकाः ---(पृष्ठ १९६)

३.१.२०कख> समस्यआद्याः सहक्रीडा विवाहाः संगतानि च/(पृष्ठ १९६)

३.१.२०गघ> समानैर् एव कार्याणि नौत्तमैर् नअपि वाअधमैः//(पृष्ठ १९६)

३.१.२१कख> कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः/(पृष्ठ १९७)

३.१.२१गघ> तं विद्याद् उच्चसंबन्धं परित्यक्तं मनस्विभिः//(पृष्ठ १९७)

३.१.२२कख> स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्कृतः/(पृष्ठ १९७)

३.१.२२गघ> अश्लाघ्यो हीनसंबन्धः सो +अपि सद्भिर् विनिन्द्यते//(पृष्ठ १९७)

३.१.२३कख> परस्परसुखआस्वादा क्रीडा यत्र प्रयुज्यते/(पृष्ठ १९७)

३.१.२३गघ> विशेषयन्ती चअन्योन्यं संबन्धः स विधीयते//(पृष्ठ १९७)

३.१.२४कख> कृत्वाअपि चौच्चसंबन्धं पश्चाज् ज्ञातिषु संनमेत्/(पृष्ठ १९७)

३.१.२४गघ> न त्व् एव हीनसंबन्धं कुर्यात् सद्भिर् विनिन्दितम्//(पृष्ठ १९७)



कन्याविस्रम्भणम्

[सम्पाद्यताम्]

३.२.१> संगतयोस् त्रिरात्रम् अधः शय्या ब्रह्मचर्यं क्षारलवणवर्जम् आहारस् तथा सप्ताहं सतूर्यमङ्गलस्नानं प्रसाधनं सहभोजनं च प्रेक्षा संबन्धिनां च पूजनम्/ इति सार्ववर्णिकम्//(पृष्ठ १९८)

३.२.२> तस्मिन्न् एतां निशि विजने मृदुभिर् उपचारैर् उपक्रमेत//(पृष्ठ १९८)

३.२.३> त्रिरात्रम् अवचनं हि स्तम्भम् इव नायकं पश्यन्ती कन्या निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम्/ इति बाभ्रवीयाः//(पृष्ठ १९९)

३.२.४> उपक्रमेत विस्रम्भयेच् च, न तु ब्रह्मचर्यम् अतिवर्तेत/ इति वात्स्यायनः//(पृष्ठ १९९)

३.२.५> उपक्रममाणश् च न प्रसह्य किंचिद् आचरेत्//(पृष्ठ १९९)

३.२.६> कुसुमसधर्माणो हि योषितः सुकुमारौपक्रमाः/ तास् त्व् अनधिगतविश्वासैः प्रसभम् उपक्रम्यमाणाः संप्रयोगद्वेषिण्यो भवन्ति/ तस्मात् साम्नाएवौपचरेत्//(पृष्ठ १९९)

३.२.७> युक्त्याअपि तु यतः प्रसरम् उपलभेत् तेनएवअनु प्रविशेत्//(पृष्ठ २००)

३.२.८> तत्प्रियेणआलिङ्गनेनआचरितेन/ नअतिकालत्वात्//(पृष्ठ २००)

३.२.९> पूर्वकायेण चौपक्रमेत्/ विषह्यत्वात्//(पृष्ठ २००)

३.२.१०> दीपआलोके विगाढयौवनायाः पूर्वसंस्तुतायाः/ बालाया अपूर्वायाश् चअन्धकारे//(पृष्ठ २००)

३.२.११> अङ्गीकृतपरिष्वङ्गायाश् च वदनेन ताम्बूलदानम्/ तदप्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पादपतनैश् च ग्राहयेत्/ व्रीडायुक्ताअपि योषिदत्यन्तक्रुद्धाअपि न पादपतनम् अतिवर्तते इति सार्वत्रिकम्//(पृष्ठ २००)

३.२.१२> तद्दानप्रसङ्गेण मृदु विशदम् अकाहलम् अस्याश् चुम्बनम्/

३.२.१३> तत्र सिद्धाम् आलापयेत्/

३.२.१४> तच्छ्रवणअर्थं यत् किं चिद् अल्पअक्षरअभिधेयम् अजानन्न् इव पृच्छेत्/

३.२.१५> तत्र निष्प्रतिपत्तिम् अनुद्वेजयन् सान्त्वना युक्तं बहुश एव पृच्छेत्/

३.२.१६> *तत्र[अन्यत्र : यत्र]अप्य् अवदन्तीं निर्बध्नीयात्//(पृष्ठ २०१)

३.२.१७> सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते/ न तु लघुमिश्राम् अपि वाचं वदन्ति/ इति घोटकमुखः//(पृष्ठ २०१)

३.२.१८> निर्बध्यमाना तु शिरःकम्पेन प्रतिवचनानि योजयेत्/ कलहे तु न शिरः कम्पयेत्//(पृष्ठ २०२)

३.२.१९> इच्छसि मां नैच्छसि वा किं ते +अहं रुचितो न रुचितो वाइति पृष्टा चिरं स्थित्वा निर्बध्यमाना तदाअनुकूल्येन शिरः कम्पयेत्/ प्रपञ्च्यमाना तु विवदेत्//(पृष्ठ २०२)

३.२.२०> संस्तुता चेत् सखीम् अनुकूलाम् उभयतो +अपि विस्रब्धां ताम् अन्तरा कृत्वा कथां योजयेत्/ तस्मिन्न् अधोमुखी विहसेत्/ तां चअतिवादिनीम् अधिक्षिपेद् विवदेच् च/ सा तु परिहासअर्थम् इदम् अनयाउक्तम् इति चअनुक्तम् (पृष्ठ २०२) अपि ब्रूयात्/ तत्र ताम् अपनुद्य प्रतिवचनअर्थम् अभ्यर्थ्यमाना तूष्णीम् आसीत/ निर्बध्यमाना तु नअहम् एवं ब्रवीमिइत्य् अव्यक्तअक्षरम् अनवसितअर्थं वचनं ब्रूयात्/ नायकं च विहसन्ती कदा चित् कटाक्षैः प्रेक्षेत/ इत्य् आलापयोजनम्//(पृष्ठ २०३) ३.२.२१> एवं जातपरिचया चअनिर्वदन्ती तत्समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्/ उत्तरीये वाअस्य निबध्नीयात्/

३.२.२२> तथा युक्ताम् आच्छुरितकेन स्तनमुकुलयोर् उपरि स्पृशेत्/

३.२.२३> वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो नएवम् आचरिष्यामिइति स्थित्या परिष्वञ्जयेत्/ स्वं च हस्तम् आ नाभिदेशात् प्रसार्य निर्वर्तयेत्/ क्रमेण चएनाम् उत्सङ्गम् आरोप्यअधिकम् अधिकम् उपक्रमेत्/ अप्रतिपद्यमानां च भीषयेत्//(पृष्ठ २०३)

३.२.२४> अहं खलु तव दन्तपदान्य् अधरे करिष्यामि स्तनपृष्ठे च नखपदम्/ आत्मनश् च स्वयं कृत्वा त्वया कृतम् इति ते सखीजनस्य पुरतः कथयिष्यामि/ सा त्वं किम् अत्र वक्ष्यसिइति बालविभीषिकैर् बालप्रत्यायनैश् च शनैर् एनां प्रतारयेत्/

३.२.२५> द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत्//(पृष्ठ २०४)

३.२.२६> सर्वअङ्गिकं चुम्बनम् उपक्रमेत//(पृष्ठ २०४)

३.२.२७> ऊर्वोश् चौपरि विन्यस्तहस्तः संवाहनक्रियायां सिद्धायां क्रमेणऊरुमूलम् अपि संवाहयेत्/ निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम्/ तच् च स्थिरीकुर्यात्/ तत्र सिद्धाया गुह्यदेशअभिमर्शनं

३.२.२८> रशनावियोजनं नीवी*विस्रंसनं[अन्यत्र : विस्रसनं] वसनपरिवर्तनम् ऊरुमूलसंवाहनं च/ एते चअस्यअन्यअपदेशाः/ युक्तयन्त्रां रञ्जयेत्/ न त्व् अकाले व्रतखण्डनम्

३.२.२९> अनुशिष्याच् च/ आत्मअनुरागं दर्शयेत्/ मनोरथांश् च पूर्वकालिकान् अनुवर्णयेत्/ आयत्यां च तदाअनुकूल्येन प्रवृत्तिं प्रतिजानीयात्/ सपत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्/ कालेन च क्रमेण विमुक्तकन्याभावाम् अनुद्वेजयन्न् उपक्रमेत/ इति कन्याविस्रम्भणम्//(पृष्ठ २०५) भवन्ति चअत्र श्लोकाः ---

३.२.३०कख> एवं चित्तअनुगो बालाम् उपायेन प्रसाधयेत्/(पृष्ठ २०६)

३.२.३०गघ> तथाअस्य सानुरक्ता च सुविस्रब्धा प्रजायते//(पृष्ठ २०६)

३.२.३१कख> नअत्यन्तम् आनुलोम्येन न चअतिप्रातिलोम्यतः/(पृष्ठ २०६)

३.२.३१गघ> सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्//(पृष्ठ २०६)

३.२.३२कख> आत्मनः प्रीतिजननं योषितां मानवर्धनम्/(पृष्ठ २०६)

३.२.३२गघ> कन्याविस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्//(पृष्ठ २०६)

३.२.३३कख> अतिलज्जाअन्विताइत्य् *एयं[अन्यत्र : ेवं] यस् तु कन्याम् उपेक्षते/(पृष्ठ २०६)

३.२.३३गघ> सो +अनभिप्रायवेदिइति पशुवत् परिभूयते//(पृष्ठ २०६)

३.२.३४कख> सहसा वाअप्य् उपक्रान्ता कन्याचित्तम् अविन्दता/ (पृष्ठ २०७)

३.२.३४गघ> भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति//(पृष्ठ २०७)

३.२.३५कख> सा प्रीतियोगम् अप्राप्ता तेनौद्वेगेन दूषिता/(पृष्ठ २०७)

३.२.३५गघ> पुरुषद्वेषिणी वा स्याद् विद्विष्टा वा ततो +अन्यगा//(पृष्ठ २०७)

बालायाम् उपक्रमाः इङ्गिताकारसूचनम् च

[सम्पाद्यताम्]

३.३.१> धनहीनस् तु गुणयुक्तो +अपि, मध्यस्थगुणो हीनअपदेशो वा, सधनो वा प्रातिवेश्यः, मातृपितृभ्रातृषु च परतन्त्रः, बालवृत्तिर् उचितप्रवेशो वा कन्याम् अलभ्यत्वान् न वरयेत्/

३.३.२> बाल्यात् प्रभृति चएनां स्वयम् एवअनुरञ्जयेत्/

३.३.३> तथायुक्तश् च मातुलकुलअनुवर्ती दक्षिणापथे बाल एव (पृष्ठ २०७) मात्रा च पित्रा च वियुक्तः परिभूतकल्पो धनौत्कर्षादलभ्यां मातुलदुहितरम् अन्यस्मै वा पूर्वदत्तां साधयेत्/

३.३.४> अन्याम् अपि बाह्यां स्पृहयेत्

३.३.५> बालायाम् एवं सति धर्मअधिगमे संवननं श्लाघ्यम् इति घोटकमुखः//(पृष्ठ २०८)

३.३.६> तया सह पुष्पअवचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणम् इति कुर्वीत/ परिचयस्य वयसश् चअनुरूप्यात्/

३.३.७> आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकआदिद्यूतानि मध्यमअङ्गुलिग्रहणं षट्पाषाणकआदीनि च देश्यानि तत्सात्म्यात् तदाप्तदासचेटिकाभिस् तया च सहअनुक्रीडेत/

३.३.८> क्ष्वेडितकानि सुनिमीलितकाम् आरब्धिकां लवणवीथिकाम् अनिलताडितकां गोधूमपुञ्जिकाम् अङ्गुलिताडितकां सखीभिर् अन्यानि च देश्यानि//(पृष्ठ २०९)

३.३.९> यां च विश्वास्याम् अस्यां मन्येत तया सह निरन्तरां प्रीतिं कुर्यात्/ परिचयांश् च बुध्येत/

३.३.१०> धात्रेयिकां चअस्याः प्रियहिताभ्याम् अधिकम् उपगृह्णीयात्/ सा हि प्रीयमाणा विदितआकाराअप्य् अप्रत्यादिशन्ती तं तां च योजयितुं शक्नुयात्/ अनभिहिताअपि प्रत्याचार्यकम्/

३.३.११> अविदितआकाराअपि हि गुणान् एवअनुरागात् प्रकाशयेत्/ यथा प्रयोज्याअनुरज्येत/

३.३.१२> यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत्/

३.३.१३> क्रीडनकद्रव्याणि यान्य् अपूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् अस्या अयत्नेन संपादयेत्/

३.३.१४> तत्र कन्दुकम् अनेकभक्तिचित्रम् अल्पकालअन्तरितम् अन्यद् अन्यच् च संदर्शयेत्/ तथा सूत्रदारुगवलगजदन्तमयीर् दुहितृका मधुउच्छिष्टपिष्टमृण्मयीश् च/

३.३.१५> भक्तपाकअर्थम् अस्या महान् असिकस्य च दर्शनम्/

३.३.१६> काष्ठमेध्रकयोश् च संयुक्तयोश् च स्त्रीपुंसयोर् अजएडकानां देवकुलगृहकानां मृद्विदलकाष्ठविनिर्मितानां शुकपरभृतमदनसारिकालावककुक्कुटतित्तिरिपञ्जरकाणां च विचित्रआकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् (पृष्ठ २१०) अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकआदीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च शक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम्/ यथा च सर्वअभिप्रायसंवर्धकम् एनं मन्येत तथा प्रयतितव्यम्/

३.३.१७> वीक्षणे च प्रच्छन्नम् अर्थयेत्/ तथा कथायोजनम्/

३.३.१८> प्रच्छन्नदानस्य तु कारणम् आत्मनो गुरुजनाद् भयं ख्यापयेत्/ देयस्य चअन्येन स्पृहणीयत्वम् इति/

३.३.१९> वर्धमानअनुरागं चआख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्तहारिणीभिश् च रञ्जयेत्/

३.३.२०> विस्मयेषु प्रसह्यमानाम् इन्द्रजालैः प्रयोगैर् विस्मापयेत्/ कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर् गीतैः/ आश्वयुज्याम् अष्टमीचन्द्रके कौमुद्याम् उत्सवेषु यात्रायां ग्रहणे गृहआचारे वा विचित्रैर् आपीडैः *कर्ण[अन्यत्र : कर्णं]पत्त्रभङ्गैः सिक्थकप्रधानैर् वस्त्रअङ्गुलीयकभूषणदानैश् च/ नो चेद् दोषकराणि मन्येत/

३.३.२१> अन्यपुरुषविशेषअभिज्ञतया धात्रेयिकाअस्याः पुरुषप्रवृत्तौ चातुःषष्टिकान् योगान् ग्राहयेत्/

३.३.२२> तद्ग्रहणौपदेशेन च प्रयोज्यायां रतिकौशलम् आत्मनः प्रकाशयेत्/

३.३.२३> उदारवेषश् च स्वयम् अनुपहतदर्शनश् स्यात्/ भावं च कुर्वतीम् इङ्गितआकारैः सूचयेत्/

३.३.२४> युवतयो हि संसृष्टम् अभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते/ कामयमाना अपि तु नअभियुञ्जत इति प्रायोवादः/ इति बालायाम् उपक्रमाः//(पृष्ठ २११)

३.३.२५> तान् इङ्गितआकारान् वक्ष्यामः//(पृष्ठ २१४)

३.३.२६> संमुखं तं तु न वीक्षते/ वीक्षिता व्रीडां दर्शयति/ रुच्यम् आत्मनो +अङ्गम् अपदेशेन प्रकाशयति/ प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते/

३.३.२७> पृष्टा च किं चित् सस्मितम् अव्यक्तअक्षरम् अनवसिताअर्थं च मन्दं मन्दम् अधोमुखी कथयति/ तत्समीपे चिरं स्थानम् अभिनन्दति/ दूरे स्थिता पश्यतु माम् इति मन्यमाना परिजनं सवदनविकारम् आभाषते/ तं देशं न मुञ्चति/

३.३.२८> यत् किं चिद् दृष्ट्वा विहसितं करोति/ तत्र कथाम् अवस्थानअर्थम् अनुबध्नाति/ बालस्यअङ्कगतस्यआलिङ्गनं चुम्बनं च करोति/ परिचारिकायास् तिलकं च रचयति/ परिजनानवष्टभ्य तास् ताश् च लीला दर्शयति/

३.३.२९> तन्मित्रेषु विश्वसिति/ वचनं चएषां बहु मन्यते करोति च/ तत्परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति/ स्वकर्मसु च प्रभविष्णुर् इवएतान् नियुञ्क्ते/ तेषु च नायकसंकथाम् अन्यस्य कथयत्स्व् अवहिता तां शृणोति/

३.३.३०> धात्रेयिकया चोदिता नायकस्यौदवसितं प्रविशति/ ताम् अन्तरा कृत्वा तेन सह द्यूतं क्रीडाम् आलापं चआयोजयितुम् इच्छति/ अनलंकृता दर्शनपथं (पृष्ठ २१४)परिहरति/ कर्णपत्त्रम् अङ्गुलीयकं स्रजं वा तेन याचिता सधीरम् एव गात्राद् अवतार्य सख्या हस्ते ददाति/ तेन च दत्तं नित्यं धारयति/ अन्यवरसंकथासु विषण्णा भवति/ तत्पक्षकैश् च सह न संसृज्यत इति//(पृष्ठ २१५) भवतश् चअत्र श्लोकौ ---(पृष्ठ २१५)

३.३.३१कख> दृष्ट्वाएतान् भावसंयुक्तान् आकारान् इङ्गितानि च/(पृष्ठ २१५)

३.३.३१गघ> कन्यायाः संप्रयोगअर्थं तांस् तान् योगान् विचिन्तयेत्//(पृष्ठ २१५)

३.३.३२कख> बालक्रीडनकैर् बाला कलाभिर् यौवने स्थिता/

३.३.३२गघ> वत्सला चअपि संग्राह्या विश्वास्यजनसंग्रहात्//(पृष्ठ २१६)



एकपुरुषाभियोगाः

[सम्पाद्यताम्]

३.४.१> दर्शितैङ्गितआकारां कन्याम् *उपायतो[अन्यत्र : ुपायो] +अभियुञ्जीत//(पृष्ठ २१६)

३.४.२> द्यूते क्रीडनकेषु च विवदमानः साकारम् अस्याः पाणिम् अवलम्बेत//(पृष्ठ २१६)

३.४.३> यथोक्तं च स्पृष्टकआदिकम् आलिङ्गनविधिं विदध्यात्//(पृष्ठ २१६)

३.४.४> पत्रच्छेद्यक्रियायां च स्वअभिप्रायासूचकं मिथुनम् अस्या दर्शयेत्//(पृष्ठ २१७)

३.४.५> एवम् अन्यद्विरलशो दर्शयेत्//(पृष्ठ २१७)

३.४.६> जलक्रीडायां तद्दूरतो +अप्सु निमग्नः समीपम् अस्या गत्वा स्पृष्ट्वा चएनां तत्रएवौन्मज्जेत्//(पृष्ठ २१७)

३.४.७> नवपत्रिकआदिषु च सविशेषभावनिवेदनम्//(पृष्ठ २१७)

३.४.८> आत्मदुःखस्यअनिर्वेदेन कथनम्//(पृष्ठ २१७)

३.४.९> स्वप्नस्य च भावयुक्तस्यअन्यअपदेशेन//(पृष्ठ २१७)

३.४.१०> प्रेक्षणके स्वजनसमाजे वा समीपौपवेशनम्/ तत्रअन्यअपदिष्टं स्पर्शनम्//(पृष्ठ २१७)

३.४.११> अपाश्रयअर्थं च चरणेन चरणस्य पीडनम्//(पृष्ठ २१७)

३.४.१२> ततः शनकैर् एकएकाम् अङ्गुलिम् अभिस्पृशेत्//(पृष्ठ २१८)

३.४.१३> पादअङ्गुष्ठेन च नखअग्राणि घट्टयेत्//(पृष्ठ २१८)

३.४.१४> तत्र सिद्धः पदात् पदम् अधिकम् आकाङ्क्षेत्//(पृष्ठ २१८)

३.४.१५> क्षान्त्य् अर्थं च तद् एवअभ्यसेत्//(पृष्ठ २१८)

३.४.१६> पादशौचे पादअङ्गुलिसंदंशेन तदङ्गुलिपीडनम्//(पृष्ठ २१८)

३.४.१७> द्रव्यस्य समर्पणे प्रतिग्रहे वा तद्गतो विकारः//(पृष्ठ २१८)

३.४.१८> आचमनअन्ते चौदकेनअसेकः//(पृष्ठ २१८)

३.४.१९> विजने तमसि च द्वन्द्वम् आसीनः क्षान्तिं क्रुवीत/ समानदेशशय्यायां च//(पृष्ठ २१८)

३.४.२०> तत्र यथार्थम् अनुद्वेजयतो भावनिवेदनम्//(पृष्ठ २१९)

३.४.२१> विविक्ते च किं चिद् अस्ति कथयितव्यम् इत्य् उक्त्वा निर्वचनं भावं च तत्रौपलक्षयेत्/ यथा पारदारिके वक्ष्यामः//(पृष्ठ २१९)

३.४.२२> विदितभावस् तु व्याधिम् अपदिश्यएनां वार्ताग्रहणअर्थं स्वम् उदवसितम् आनयेत्//(पृष्ठ २१९) ३.४.२३> आगतायाश् च शिरःपीडने नियोगः/ पाणिम् अवलम्ब्य चअस्याः साकारं नयनयोर् ललाटे च निदध्यात्//(पृष्ठ २१९)

३.४.२४> औषधअपदेशअर्थं चअस्याः कर्म विनिर्दिशेत्//(पृष्ठ २१९)

३.४.२५> इदं त्वया कर्तव्यम्/ न ह्य् एतद् ऋते कन्यया अन्येन कार्यम् इति गच्छन्तीं पुनर् आगमनअनुबन्धम् एनां विसृजेत्//(पृष्ठ २२०)

३.४.२६> अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः//(पृष्ठ २२०)

३.४.२७> अभीक्ष्णदर्शनअर्थम् आगतायाश् च गोष्ठीं वर्धयेत्//(पृष्ठ २२०)

३.४.२८> अन्याभिर् अपि सह विश्वासनअर्थम् अधिकम् अधिकं चअभियुञ्जीत/ न तु वाचा निर्वदेत्//(पृष्ठ २२०)

३.४.२९> दूरगतभावो +अपि हि कन्यासु न निर्वेदेन सिद्ध्यतिइति घोटकमुखः//(पृष्ठ २२०)

३.४.३०> यदा तु बहुसिद्धां मन्येत तदाएवौपक्रमेत्//(पृष्ठ २२०)

३.४.३१> प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुरत(पृष्ठ २२०)व्यवसायिन्यो रागवत्यश् च भवन्ति/ न च पुरुषं प्रत्याचक्षते/ तस्मात् तत्कालं प्रयोजयितव्या इति प्रायोवादः//(पृष्ठ २२१)

३.४.३२> एकपुरुषअभियोगानां त्व् असंभवे गृहीतअर्थया धात्रेयिकया सख्या वा तस्याम् अन्तर्भूतया तम् अर्थम् अनिर्वदन्त्या सहएनाम् अङ्कम् आनाययेत्/ ततो यथोक्तम् अभियुञ्जीत//(पृष्ठ २२१)

३.४.३३> स्वां वा परिचारिकाम् आदाव् एव सखीत्वेनअस्याः प्रणिदध्यात्//(पृष्ठ २२१)

३.४.३४> यज्ञे विवाहे यात्रायाम् उत्सवे व्यसने प्रेक्षणकव्यापृते जने तत्र तत्र च दृष्टैङ्गितआकारां परीक्षितभावाम् एकाकिनीम् उपक्रमेत/

३.४.३५> न हि दृष्टभावा योषितो देशे काले च प्रयुज्यमाना व्यावर्तन्त इति वात्स्यायनः/ इत्य् एकपुरुषअभियोगाः/(पृष्ठ २२१)

३.४.३६> मन्दअपदेशा गुणवत्य् अपि कन्या धनहीना कुलीनाअपि समानैर् अयाच्यामाना मातापितृवियुक्ता वा ज्ञातिकुलवर्तिनी वा प्राप्तयौवना पाणिग्रहणं स्वयम् अभीप्सेत//(पृष्ठ २२२)

३.४.३७> सा तु गुणवन्तं शक्तं सुदर्शनं बालप्रीत्याअभियोजयेत्//(पृष्ठ २२२)

३.४.३८> यं वा मन्येत मातापित्रोर् असमीक्षया स्वयम् अप्य् अयम् इन्द्रियदौर्बल्यान् मयि प्रवर्तिष्यत इति प्रियहितौपचारैर् अभीक्ष्णसंदर्शनेन च तम् आवर्जयेत्//(पृष्ठ २२२)

३.४.३९> माता चएनां सखीभिर् धात्रेयिकाभिश् च सह तदभिमुखीं कुर्यात्//(पृष्ठ २२३)

३.४.४०> पुष्पगन्धताम्बूलहस्ताया विजने विकाले च तदुपस्थानम्/ कलाकौशलप्रकाशने वा संवाहने शिरसः पीडने चऔचित्यदर्शनम्/ प्रयोज्यस्य सात्म्ययुक्ताः कथायोगाः बालायाम् उपक्रमेषु यथोक्तम् आचरेत्//(पृष्ठ २२३)

३.४.४१> न चएवअन्तराअपि पुरुषं स्वयम् अभियुञ्जीत/ स्वयम् अभियोगिनी हि युवतिः सौभाग्यं जहातिइत्यआचार्या://(पृष्ठ २२३)

३.४.४२> तत्प्रयुक्तानां त्व् अभियोगानाम् आनुलोम्येन ग्रहणम्/

३.४.४३> परिष्वक्ता च न विकृतिं भजेत्/ श्लक्ष्णम् आकारम् अजानतीइव प्रतिगृह्णीयात्/ वदनग्रहणे बलात् कारः/

३.४.४४> रतिभावनाम् अभ्यर्थ्यमानायाः कृच्छ्राद् गुह्यसंस्पर्शनम्//(पृष्ठ २२३)

३.४.४५> अभ्यर्थिताअपि नअतिविवृता स्वयं स्यात्/ अन्यत्रअनिश्चयकालात्/

३.४.४६> यदा तु मन्येतअनुरक्तो मयि न व्यावर्तिष्यत इति तदाएवएनम् अभियुञ्जानं बालभावमोक्षाय *त्वरयेत्[अन्यत्र : त्वरेत्]/

३.४.४७> विमुक्तकन्याभावा च विश्वास्येषु प्रकाशयेत्/ इति प्रयोज्यस्यौपावर्तनम्//(पृष्ठ २२४)

३.४.४८क > कन्याअभियुज्यमाना तु यं मन्येतआश्रयं सुखम्/(पृष्ठ २२४)

३.४.४८ख > अनुकूलं च वश्यं च तस्य कुर्यात् परिग्रहम्//(पृष्ठ २२४)

३.४.४९क > अनपेक्ष्य गुणान् यत्र रूपमौचित्यम् एव च/(पृष्ठ २२५)

३.४.४९ख > कुर्वीत धनलोभेन पतिं सअपत्नकेष्व् अपि//(पृष्ठ २२५) ३.४.५०क > तत्र युक्तगुणं वश्यं शक्तं बलवद् अर्थिनम्/(पृष्ठ २२५)

३.४.५०ख > उपायैर् अभियुञ्जानं कन्या न प्रतिलोभयेत्//(पृष्ठ २२५)

३.४.५१क > वरं वश्यो दरिद्रो +अपि निर्गुणो +अप्य् आत्मधारणः/(पृष्ठ २२५)

३.४.५१ख > गुणैर् युक्तो +अपि न त्व् एवं बहुसाधारणः पतिः//(पृष्ठ २२५)

३.४.५२क > प्रायेण धनिनां दारा बहवो निरवग्रहाः/(पृष्ठ २२५)

३.४.५२ख > बाह्ये सत्य् उपभोगे +अपि निर्विस्रम्भा बहिःसुखाः//(पृष्ठ २२५)

३.४.५३क > नीचो यस् त्व् अभियुञ्जीत पुरुषः पलितो +अपि वा/

३.४.५३ख > विदेशगतिशीलश् च न स संयोगम् अर्हति//

३.४.५४क > यदृच्छयाअभियुक्तो यो दम्भद्यूतअधिको +अपि वा/

३.४.५४ख > सपत्नीकश् च सअपत्यो न स संयोगम् अर्हति//

३.४.५५क > गुणसाम्ये +अभियोक्तॄणाम् एको वरयिता वरः/

३.४.५५ख > तत्रअभियोक्तरि श्रेष्ठ्यम् अनुरागआत्मको हि सः//



विवाहयोग

[सम्पाद्यताम्]

३.५.१> प्राचुर्येण कन्याया विविक्तदर्शनस्यआलाभे धात्रेयिकां प्रियहिताभ्याम् उपगृह्यौपसर्पेत्//(पृष्ठ २२७)

३.५.२> सा चएनाम् अविदिता नाम नायकस्य भूत्वा तद्गुणैर् अनुरञ्जयेत्/ तस्याश् च रुच्यान् नायकगुणान् भूयिष्ठम् उपवर्णयेत्/

३.५.३> अन्येषां वरपितॄणां दोशान् अभिप्रायविरुद्धान् प्रतिपादयेत्/

३.५.४> मातापित्रोश् च गुणान् अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्/

३.५.५> याश् चअन्या अपि समानजातीयाः कन्याः शकुन्तलाआद्याः स्वबुद्ध्या भर्तारं प्राप्य संप्रयुक्ता मोदन्ते स्म ताश् चअस्या निदर्शयेत्/

३.५.६> महाकुलेषु सअपत्नकैर् बाध्यामाना *विद्विष्टा[अन्यत्र : विद्विष्टाः] दुःखिताः परित्यक्ताश् च दृश्यन्ते/

३.५.७> आयतिं चअस्य वर्णयेत्/

३.५.८> सुखम् अनुपहतम् एकचारितायां *नायिका[अन्यत्र : नायका]अनुरागं च वर्णयेत्/

३.५.९> समनोरथायाश् चअस्या अपायं साध्वसं व्रीडां च हेतुभिर् अवच्छिन्द्यात्/

३.५.१०> दूतीकल्पं च सकलम् आचरेत्/

३.५.११> त्वाम् अजानतीम् इव नायको बलाद् ग्रहीष्यतिइति तथा सुपरिगृहीतं स्याद् इति योजयेत्//(पृष्ठ २२७)

३.५.१२> प्रतिपन्नाम् अभिप्रेतअवकाशवर्तिनीं नायकः श्रोत्रियआगाराद् अग्निम् आनाय्य कुशान् आस्तीर्य यथास्मृति हुत्वा च त्रिः परिक्रमेत्/

३.५.१३> ततो मातरि पितरि च प्रकाशयेत्/

३.५.१४> अग्निसाक्षिका हि विवाहा न निवर्तन्त इत्य् आचार्यसमयः//(पृष्ठ २२८)

३.५.१५> दूषयित्वा चएनां शनैः स्वजने प्रकाशयेत्/

३.५.१६> तद्बान्धवाश् च यथा कुलस्यअधं परिहरन्तो दण्डभयाच् च तस्मा एवएनां दद्युस् तथा योजयेत्/

३.५.१७> अनन्तरं च प्रीत्युपग्रहेण रागेण तद्बान्धवान् प्रीणयेद् इति/

३.५.१८> गान्धर्वेण विवाहेन वा चेष्टेत//

३.५.१९> अप्रतिपद्यमानायाम् अन्तश् चारिणीम् अन्यां कुलप्रमदां पूर्वसंसृष्टां प्रीयमाणां चौपगृह्य तया सह विषह्यम् अवकाशम् एनाम् अन्यकार्यअपदेशेनआनययेत्/

३.५.२०> ततः श्रोत्रियआगाराद् अग्निम् इति समानं पूर्वेण//(पृष्ठ २२९)

३.५.२१> आसन्ने च विवाहे मातरम् अस्यास् तद् अभिमतदोषैर् अनुशयं ग्राहयेत्/

३.५.२२> ततस् तदनुमतेन प्रातिवेश्यअभवने निशि नायकम् आनाय्य श्रोत्रियआगाराद् अग्निम् इति समानं पूर्वेण//(पृष्ठ २२९)

३.५.२३> भ्रातरम् अस्या वा समानवयसं वेश्यासु परस्त्रीषु वा प्रसक्तम् असुकरेण साहायदानेन प्रियौपग्रहैश् च सुदीर्घकालम् अनुरञ्जयेत्/ अन्ते च स्वअभिप्रायं ग्राहयेत्/

३.५.२४> प्रायेण हि युवानः समानशीलव्यसनवयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति/ ततस् तेनएवअन्यकार्यात् ताम् आनाययेत्/ विषह्यं साअवकाशम् इति समानं पूर्वेण//(पृष्ठ २३०)

३.५.२५> अष्टमीचन्द्रिकआदिषु च धात्रेयिका मदनीयम् एनां पाययित्वा किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत्/ तत्रएनां मदात् संज्ञाम् अप्रतिपद्यमानां दूषयित्वाइति समानं पूर्वेण//(पृष्ठ २३०)

३.५.२६> सुप्तां चएकचारिणीं धात्रेयिकां वारयित्वा संज्ञाम् अप्रतिपद्यमानां दूषयित्वाइति समानं पूर्वेण//(पृष्ठ २३०)

३.५.२७> ग्रामअन्तरम् उद्यानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो नायकस् तदा रक्षिणो वित्रास्य हत्वा वा कन्याम् अपहरेत्/ इति विवाहयोगाः//(पृष्ठ २३१)

३.५.२८क > पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः/(पृष्ठ २३१)

३.५.२८ख > पूर्वअभावे ततः कार्यो यो य उत्तर उत्तरः//(पृष्ठ २३१)

३.५.२९क > व्यूढानां हि विवाहानाम् अनुरागः फलं यतः/(पृष्ठ २३१)

३.५.२९ख > मध्यमो +अपि हि सद्योगो गान्धर्वस् तेन पूजितः//(पृष्ठ २३१)

३.५.३०क > सुखत्वाद् अबहुक्लेशाद् अपि चअवरणाद् इह/(पृष्ठ २३२)

३.५.३०ख > अनुरागआत्मकत्वाच् च गान्धर्वः प्रवरो मतः//(पृष्ठ २३२)



भार्याधिकारिकं

[सम्पाद्यताम्]

एकचारिणीवृत्तं प्रवासचर्या च

[सम्पाद्यताम्]

४.१.१> भार्याएकचारिणी गूढविश्रम्भा देववत् पतिम् आनुकूल्येन वर्तेत//(पृष्ठ २३३)

४.१.२> तन्मतेन कुटुम्बचिन्ताम् आत्मनि संनिवेशयेत्//(पृष्ठ २३३)

४.१.३> वेश्म च शुचि सुसंमृष्टस्थानं विरचितविविधकुसुमं श्लक्ष्णभूमितलं हृद्यदर्शनं त्रिषवणआचरितबलिकर्म पूजितदेवआयतनं कुर्यात्//(पृष्ठ २३३)

४.१.४> न ह्य् अतो +अन्यद्गृहस्थानां चित्तग्राहकम् अस्तिइति गोनर्दीयः//(पृष्ठ २३३)

४.१.५> गुरुषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाअर्हं प्रतिपत्तिः//(पृष्ठ २३४)

४.१.६> परिपूतेषु च हरितशाकवप्रान् इक्षुस्तम्बाञ् जीरकसर्षपअजमोदशतपुष्पातमालगुल्मांश् च कारयेत्//(पृष्ठ २३४)

४.१.७> कुब्जकआमलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तज् अपागुल्मान् अन्यांश् च बहुपुष्पान् बालकौशीरकपातालिकांश् च वृक्षवाटिकायां च स्थण्डिलानि मनोज्ञानि कारयेत्//(पृष्ठ २३४)

४.१.८> मध्ये कूपं वापीं दीर्घिकां वा खानयेत्//(पृष्ठ २३४)

४.१.९> भिक्षुकीश्रमणाक्षपणाकुलटाकुहकाईक्षणिकामूलकारिकाभिर् न संसृज्येत//(पृष्ठ २३४)

४.१.१०> भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् अपथ्यम् इदम् इति च विन्द्यात्//(पृष्ठ २३५)

४.१.११> स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा भवनमध्ये तिष्ठेत्//(पृष्ठ २३५)

४.१.१२> परिचारिकाम् अपनुद्य स्वयं पादौ प्रक्षालयेत्//(पृष्ठ २३५)

४.१.१३> नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत्//(पृष्ठ २३५)

४.१.१४> अतिव्ययम् असद्व्ययं वा कुर्वाणां रहसि बोधयेत्//(पृष्ठ २३५)

४.१.१५> आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताअभिगमनम् इत्य् अनुज्ञाता कुर्यात्//(पृष्ठ २३५)

४.१.१६> सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः//(पृष्ठ २३५)

४.१.१७> पश्चात् संवेशनं पूर्वम् उत्थानम् अनवबोधनं च सुप्तस्य//(पृष्ठ २३६)

४.१.१८> महानसं च सुगुप्तं स्याद् दर्शनीयं च//(पृष्ठ २३६)

४.१.१९> नायकअपचारेषु किं चित् कलुषिता नअत्यर्थं निर्वदेत्//(पृष्ठ २३६)

४.१.२०> साधिक्षेपवचनं त्व् एनं मित्रजनमध्यस्थम् एकाकिनं वाअप्य् उपालभेत/ न च मूलकारिका स्यात्//(पृष्ठ २३६)

४.१.२१> न ह्य् अतो +अन्यद् अप्रत्ययकारणम् अस्तिइति गोनर्दीयः//(पृष्ठ २३६)

४.१.२२> दुर्व्याहृतं दुर्निरीक्षितम् अन्यतो मन्त्रणं द्वारदेशअवस्थानं निरीक्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत्//(पृष्ठ २३६)

४.१.२३> स्वेददन्तपङ्कदुर्गन्धांश् च बुध्येतैति विरागकारणम्//(पृष्ठ २३७)

४.१.२४> बहुभूषणं विविधकुसुमअनुलेपनं विविधअङ्गरागसमुज्ज्वलं वास इत्य् आभिगामिको वेषः/

४.१.२५> प्रतनुश्लक्ष्णअल्पदुकूलता परिमितम् आभरणं सुगन्धिता नअत्युल्बणम् अनुलेपनम्/ तथा शुक्लान्य् अन्यानि पुष्पाणिइति वैहारिको वेषः//(पृष्ठ २३७)

४.१.२६> नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेनअनुवर्तेत/ वारितायां च नअहम् अत्र निर्बन्धनीयैति तद्वचसो निवर्तनम्//(पृष्ठ २३७)

४.१.२७> मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्घग्रहणम्//(पृष्ठ २३७)

४.१.२८> तथा लवणस्नेहयोश् च गन्धद्रव्यकटुकभाण्डओषधानां च दुर्लभानां भवनेसु प्रच्छन्नं निधानम्//(पृष्ठ २३७)

४.१.२९> मूलकआलुकपालङ्की दमनकआम्रातकएर्वारुकत्रपुसवार्ताककूष्माण्डआलाबुसूरणशुकनासा स्वयंगुप्तातिलपर्णीकअग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वओषधीनां च बीजग्रहणं काले वापश् च//(पृष्ठ २३८)

४.१.३०> स्वस्य च सारस्य परेभ्यो नआख्यानं भर्तृमन्त्रितस्य च//(पृष्ठ २३८)

४.१.३१> समानाश् च स्त्रियः कौशलेनौज्ज्वलतया पाकेन मानेन तथाउपचारैर् अतिशयीत//(पृष्ठ २३८)

४.१.३२> सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात्//(पृष्ठ २३८)

४.१.३३> भोजनअवशिष्टाद् गोरसाद् घृतकरणम् तथा तैलगुडयोः/ कर्पासस्य च सूत्रकर्तनम् सूत्रस्य वानम्/ शिक्यरज्जुपाशवल्कलसंग्रहणम्/ कुट्टनकण्डनअवेक्षणम्/ *आचाम[अन्यत्र : ामचा]मण्डतुष*कण[अन्यत्र : कख]कुट्यङ्गाराणाम् उपयोजनम्/ भृत्यवेतनभरणज्ञानम्/ कृषिपशुपालनचिन्तावाहनविधानयोगाः/ मेश*कुक्कट[अन्यत्र : कुक्कुट]लावकशुकशारिकापरभृतमयूरवानरमृगा णाम् अवेक्षणम्/ दैवसिकायव्ययपिण्डीकरणम् इति च विद्यात्//(पृष्ठ २३८)

४.१.३४> तज्जघन्यानां च जीर्णवाससां संचयस् तैर् विविधरागैः शुद्धैर् वा कृतकर्मणां परिचारकाणाम् अनुग्रहो मानअर्थेषु च दानम् अन्यत्र वाउपयोगः//(पृष्ठ २३९)

४.१.३५> सुराकुम्भीनाम् आसवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयाव् आयव्ययाअवेक्षणम्//(पृष्ठ २३९)

४.१.३६> नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः/

४.१.३७> श्वश्रूश्वशुरपरिचर्या तत्पारतन्त्र्यम् अनुत्तरवादिता परिमितअप्रचण्डआलापकरणम् अनुच्चैर् हासः/ तत्प्रियअप्रियेषु स्वप्रियअप्रियेष्व् इव वृत्तिः/

४.१.३८> भोगेष्व् अनुत्सेकः/

४.१.३९> परिजने दाक्षिण्यम्/

४.१.४०> नायकस्यअनिवेद्य न कस्मै (पृष्ठ २३९)चिद् दानम्/

४.१.४१> स्वकर्मसु भृत्यजननियमनम् उत्सवेषु चअस्य पूजनम् इत्य् एकचारिणीवृत्तम्//(पृष्ठ २४०)

४.१.४२> प्रवासे मङ्गलमात्रआभरणा देवताउपवासपरा वार्तायां स्थिता गृहान् अवेक्षेत//(पृष्ठ २४०)

४.१.४३> शय्या च गुरुजनमूले/ तद् अभिमता कार्यनिष्पत्तिः/ नायकअभिमतानां चअर्थानाम् अर्जने प्रतिसंस्कारे च यत्नः//(पृष्ठ २४०)

४.१.४४> नित्यनैमित्तिकेषु कर्मसुउचितो व्ययः/ तदारब्धानां च कर्मणां समापने मतिः//(पृष्ठ २४०)

४.१.४५> ज्ञातिकुलस्यअनभिगमनम् अन्यत्र व्यसनौत्सवाभ्याम्/ तत्रअपि नायकपरिजनअधिष्ठिताया नअतिकालम् अवस्थानम् अपरिवर्तितप्रवासवेषता च//(पृष्ठ २४१)

४.१.४६> गुरुजनअनुज्ञातानां करणम् उपवासानाम्/ परिचारकैः शुचिभिर् आज्ञाअधिष्ठितैर् अनुमतेन क्रयविक्रयकर्मणा सारस्यआपूरणं तनूकरणं च शक्त्या व्ययानाम्//(पृष्ठ २४१)

४.१.४७> आगते च प्रकृतिस्थाया एव प्रथमतो दर्शनं दैवतपूजनम् उपहाराणां चआहरणम् इति प्रवासचर्या//(पृष्ठ २४१) भवतश् चअत्र श्लोकौ/

४.१.४८कख> *सद्[अन्यत्र : तद्]वृत्तम् अनुवर्तेत नायकस्य हितएषिणी/(पृष्ठ २४२)

४.१.४८गघ> कुलयोषा पुनर्भूर् वा वेश्या वाअप्य् एकचारिणी//(पृष्ठ २४२)

४.१.४९कख> धर्मम् अर्थं तथा कामं लभन्ते स्थानम् एव च/(पृष्ठ २४२)

४.१.४९गघ> निःसपत्नं च भर्तारं नार्यः सद्वृत्तम् आश्रिताः//(पृष्ठ २४२)



ज्येष्ठादिवृत्त

[सम्पाद्यताम्]

४.२.१> जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजान् उत्पत्तेर् आभीक्ष्ण्येन दारिकौत्पत्तेर् नायकचापलाद् वा सपत्न्यधिवेदनम्//(पृष्ठ २४२)

४.२.२> तदाआदित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत्/ प्रजान् उत्पत्तौ च स्वयम् एव सापत्नके चोदयेत्//(पृष्ठ २४२)

४.२.३> अधिविद्यमाना च यावच् छक्तियोगाद् आत्मनो +अधिकत्वेन स्थितिं कारयेत्//(पृष्ठ २४३)

४.२.४> आगतां चएनां भगिनीवद् ईक्षेत/ नायकविदितं च प्रादोषिकं विधिम् अतीव यत्नाद् अस्याः कारयेत् सौभाग्यजं वैकृतम् उत्सेकं वाअस्या नअद्रियेत//(पृष्ठ २४३) ४.२.५> भर्तरि प्रमाद्यन्तीम् उपेक्षेत/ यत्र मन्येतअर्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्रएनाम् आदरत एवअनुशिष्यात्//(पृष्ठ २४३)

४.२.६> नायकसंश्रवे च रहसि विशेषान् अधिकान् दर्शयेत्//(पृष्ठ २४३)

४.२.७> तदपत्येष्व् अविशेषः/ परिजनवर्गे +अधिकअनुकम्पा/ मित्रवर्गे प्रीतिः/ आत्मज्ञातिषु नअत्यादरः/ तज्ज्ञातिषु चअतिसंभ्रमः//(पृष्ठ २४४)

४.२.८> बह्वीभिस् त्व् अधिविन्ना अव्यवहितया संसृज्येत//(पृष्ठ २४४)

४.२.९> यां तु नायको +अधिकां चिकीर्षेत् तां भूतपूर्वसुभगया प्रोत्साह्य कलहयेत्//(पृष्ठ २४४)

४.२.१०> ततश् चअनुकम्पेत//(पृष्ठ २४४)

४.२.११> ताभिर् एकत्वेनअधिकां चिकीर्षितां स्वयम् अविवदमाना दुर्जनी कुर्यात्//(पृष्ठ २४४)

४.२.१२> नायकेन तु कलहिताम् एनां पक्षपाताव् अलम्बनौपबृंहिताम् आश्वासयेत्//(पृष्ठ २४४)

४.२.१३> कलहं च वर्धयेत्//(पृष्ठ २४५)

४.२.१४> मन्दं वा कलहम् उपलभ्य स्वयम् एव संधुक्षयेत्//(पृष्ठ २४५)

४.२.१५> यदि नायको +अस्याम् अद्यअपि सानुनय इति मन्येत तदा स्वयम् एव संधौ प्रयतेतैति ज्येष्ठावृत्तम्//(पृष्ठ २४५)

४.२.१६> कनिष्ठा तु मातृवत् सपत्नीं पश्येत्//(पृष्ठ २४५)

४.२.१७> ज्ञातिदायम् अपि तस्या अविदितं नौपयुञ्जीत//(पृष्ठ २४५)

४.२.१८> आत्मवृत्तान् तांस् तदधिष्ठितान् कुर्यात्//(पृष्ठ २४५)

४.२.१९> अनुज्ञाता पतिम् अधिशयीत//(पृष्ठ २४५)

४.२.२०> न वा तस्या वचनम् अन्यस्याः कथयेत्//(पृष्ठ २४५)

४.२.२१> तदपत्यानि स्वेभ्यो +अधिकानि पश्येत्//(पृष्ठ २४५)

४.२.२२> रहसि पतिम् अधिकम् उपचरेत्//(पृष्ठ २४६)

४.२.२३> आत्मनश् च सपत्नीविकारजं दुःखं नआचक्षीत//(पृष्ठ २४६)

४.२.२४> पत्युश् च सविशेषकं गूढं मानं लिप्सेत्//(पृष्ठ २४६)

४.२.२५> अनेन खलु पथ्यदानेन जीवामिइति ब्रूयात्//(पृष्ठ २४६)

४.२.२६> तत् तु श्लाघया रागेण वा बहिर् नअचक्षीत//(पृष्ठ २४६)

४.२.२७> भिन्नरहस्या हि भर्तुर् अवज्ञां लभते//(पृष्ठ २४६)

४.२.२८> ज्येष्ठाभयाच् च निगूढसंमानाअर्थिनी स्याद् इति गोनर्दीयः//(पृष्ठ २४६)

४.२.२९> दुर्भगाम् अनपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन चअनुकम्पयेत्//(पृष्ठ २४६)

४.२.३०> प्रसह्य त्व् एनाम् एकचारिणीवृत्तम् अनुतिष्ठेद् इति कनिष्ठावृत्तम्//(पृष्ठ २४६)

४.२.३१> विधवा त्व् इन्द्रियदौर्बल्याद् आतुरा भोगिनं गुणसंपन्नं च या पुनर् विन्देत् सा पुनर्भूः//(पृष्ठ २४७)

४.२.३२> यतस् तु स्वेच्छया पुनर् अपि निष्क्रमणं निर्गुणो +अयम् इति तदा अन्यं काङ्क्षेद् इति बाभ्रवीयाः//(पृष्ठ २४७)

४.२.३३> सौख्याअर्थिनी सा किलअन्यं पुनर् विन्देत//(पृष्ठ २४७)

४.२.३४> गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात् ततो विशेष इति गोनर्दीयः//(पृष्ठ २४७)

४.२.३५> आत्मनश् चित्तअनुकूल्याद् इति वात्स्यायनः//(पृष्ठ २४८)

४.२.३६> सा बान्धवैर् नायकाद् आपानकौद्यानश्रद्धादानमित्रपूजनआदि व्ययसहिष्णु कर्म लिप्सेत//(पृष्ठ २४८)

४.२.३७> आत्मनः सारेण वालंकारं तदीयम् आत्मीयं वा बिभृयात्//(पृष्ठ २४८)

४.२.३८> प्रीतिदायेष्व् अनियमः//(पृष्ठ २४८)

४.२.३९> स्वेच्छया च गृहान् निर्गच्छन्ती प्रीतिदायाद् अन्यन् नायकदत्तं जीयेत/ निष्कास्यमाना तु न किं चिद् दद्यात्//(पृष्ठ २४८)

४.२.४०> सा *प्रभुविष्णुर्[अन्यत्र : प्रभविष्णुर्] इव तस्य भवनम् आप्नुयात्//(पृष्ठ २४८)

४.२.४१> कुलजासु तु प्रीत्या वर्तेत//(पृष्ठ २४८)

४.२.४२> दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः/ कलासु कौशलम् अधिकस्य च ज्ञानम्//(पृष्ठ २४८)

४.२.४३> कलहस्थानेषु च नायकं स्वयम् उपालभेत//(पृष्ठ २४९) ४.२.४४> रहसि च कलया चतुःषष्ट्याअनुवर्तेत/ सपत्नीनां च स्वयम् उपकुर्यात्/ तासाम् अपत्येष्व् आभरणदानम्/ तेषु *स्वामिवद्[अन्यत्र : स्वामीवद्] उपचारः/ मण्डनकानि वेषान् आदरेण कुर्वीत/ परिजने मित्रवर्गे चअधिकं विश्राणनम्/ समाजआपानकौद्यानयात्राविहारशीलता चैति पुनर्भूवृत्तम्//(पृष्ठ २४९)

४.२.४५> दुर्भगा तु सापत्नकपीडिता या तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत्/ *प्रकाश्यानि[अन्यत्र : प्रकाम्यानि] च कलाविज्ञानानि दर्शयेत्/ दौर्भाग्याद् रहस्यानाम् अभावः//(पृष्ठ २४९)

४.२.४६> नायकअपत्यानं धात्रेयिकानि कुर्यात्//(पृष्ठ २५०)

४.२.४७> तन् मित्राणि चौपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत्//(पृष्ठ २५०)

४.२.४८> धर्मकृत्येषु च पुरश्चारिणी स्याद् व्रतौपवासयोश् च//(पृष्ठ २५०)

४.२.४९> परिजने दाक्षिण्यम्/ न चअधिकम् आत्मानं पश्येत्//(पृष्ठ २५०)

४.२.५०> शयने तत्सात्म्येनआत्मनो +अनुरागप्रत्यानयनम्//(पृष्ठ २५०)

४.२.५१> न चौपालभेत वामतां च न दर्शयेत्//(पृष्ठ २५०)

४.२.५२> यया च कलहितः स्यात् कामं ताम् आवर्तयेत्//(पृष्ठ २५०)

४.२.५३> यां च प्रच्छन्नां कामयेत् ताम् अनेन सह संगमयेद् गोपयेच् च//(पृष्ठ २५०)

४.२.५४> यथा च पतिव्रतात्वम् अशाठ्यं नायको मन्येत तथा प्रतिविद् अध्याद् इति दुर्भगावृत्तम्//(पृष्ठ २५१)

४.२.५५> अन्तःपुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत्//(पृष्ठ २५१)

४.२.५६> माल्याअनुलेपनवासांसि चआसां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति/

४.२.५७> तदादाय राजा निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात्/

४.२.५८> अलंकृतश् च स्वलंकृतानि चअपराह्णे सर्वाण्य् अन्तःपुराण्यएकध्येन पश्येत्//(पृष्ठ २५१)

४.२.५९> तासां यथाकालं यथाअर्हं च स्थानमानअनुवृत्तिः सपरिहासाश् च कथाः कुर्यात्//(पृष्ठ २५१)

४.२.६०> तदनन्तरं पुनर्भुवस् तथाएव पश्येत्//(पृष्ठ २५२)

४.२.६१> ततो वेश्या आभ्यन्तरिका नाटकीयाश् च//(पृष्ठ २५२)

४.२.६२> तासां यथोक्तकक्षाणि स्थानानि//(पृष्ठ २५२)

४.२.६३> वासकपाल्यस् तु यस्या वासको यस्याश् चअतीतो यस्याश् च ऋतुस् तत्परिचारिकअनुगता दिवा शय्याउत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयकअङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः/(पृष्ठ २५२)

४.२.६४> तत्र राजा यद् गृह्णीयात् तस्या वासकम् आज्ञापयेत्//(पृष्ठ २५२)

४.२.६५> उत्सवेषु च सर्वासाम् अनुरूपेण पूजाआपानकं च/ संगीतदर्शनेषु च//(पृष्ठ २५२)

४.२.६६> अन्तःपुरचारिणीनां बहिर् अनिष्क्रमो बाह्यानां चअप्रवेशः/ अन्यत्र विदितशौचाभ्यः/ अपरिक्लिष्टश् च कर्मयोग इत्य् आन्तःपुरिकम्//(पृष्ठ २५२) भवन्ति चअत्र श्लोकाः ---

४.२.६७कख> पुरुषस् तु बहून् दारान् समाहृत्य समो भवेत्/(पृष्ठ २५३)

४.२.६७गघ> न चअवज्ञां चरेद् आसु व्यलीकान् न सहेत च//(पृष्ठ २५३)

४.२.६८कख> एकस्यां या रतिक्रीडा वैकृतं वा शरीरजम्/(पृष्ठ २५३)

४.२.६८गघ> विस्रम्भाद् वाअप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्//(पृष्ठ २५३)

४.२.६९कख> न दद्यात् प्रसरं स्त्रीणां सपत्न्याः कारणे क्व चित्/(पृष्ठ २५३)

४.२.६९गघ> तथाउपालभमानां च दोषैस् ताम् एव योजयेत्//(पृष्ठ २५३)

४.२.७०कख> अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्षपूजनैः/(पृष्ठ २५३)

४.२.७०गघ> बहुमानैस् तथा चअन्याम् इत्य् एवं रञ्जयेत् स्त्रियः//(पृष्ठ २५३)

४.२.७१कख> उद्यानगमनैर् भोगैर् दानैस् तज्ज्ञातिपूजनैः/(पृष्ठ २५४)

४.२.७१गघ> रहस्यैः प्रीतियोगैश् चैत्य् एकैकाम् अनुरञ्जयेत्//(पृष्ठ २५४)

४.२.७२कख> युवतिश् च जितक्रोधा यथाशास्त्रप्रवर्तिनी/(पृष्ठ २५४)

४.२.७२गघ> करोति वश्यं भर्तारं सपत्नीश् चअधितिष्ठति//(पृष्ठ २५४)



पारदारिकं

[सम्पाद्यताम्]

स्त्रीपुरुषशीलवस्थापनं व्यावर्तनकारणाणि स्त्रीषु सिद्धाः पुरुषा अयत्नसाध्या योषितः

[सम्पाद्यताम्]

५.१.१> व्याख्यातकारणाः परपरिग्रहौपगमाः//(पृष्ठ २५५)

५.१.२> तेषु साध्यत्वम् अनत्ययं गम्यत्वम् आयतिं वृत्तिं चआदित एव परीक्षेत//

५.१.३> यदा तु स्थानात् स्थानअन्तरं कामं प्रतिपद्यमानं पश्येत् तदात्मशरीरौपघातत्राणअर्थं परपरिग्रहान् अभ्युपगच्छेत्//(पृष्ठ २५५)

५.१.४> दश तु कामस्य स्थानानि//(पृष्ठ २५५)

५.१.५> चक्षुःप्रीतिर् मनःसङ्गः संकल्पौत्पत्तिर् निद्राआच्छेदस् तनुता विषयेभ्यो व्यावृत्तिर् लज्जाप्रणाश उन्मादो मूर्छा मरणम् इति तेषां लिङ्गानि//(पृष्ठ २५६)

५.१.६> तत्रआकृतितो लक्षणतश् च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेद् इत्य् आचार्याः//(पृष्ठ २५६)

५.१.७> व्यभिचाराद् आकृतिलक्षणयोगानाम् इङ्गितआकाराभ्याम् एव प्रवृत्तिर् बोद्धव्या योषित इति वात्स्यायनः//(पृष्ठ २५६)

५.१.८> यं कं चिद् उज्ज्वलं पुरुषं दृष्ट्वा स्त्री कामयते/ तथा पुरुषो +अपि योषितम्/ अपेक्षया तु न *प्रवर्तत[अन्यत्र : प्रवर्तते] इति गोणिकापुत्रः//

५.१.९> तत्र स्त्रियं प्रति विशेषः//(पृष्ठ २५७)

५.१.१०> न स्त्री धर्मम् अधर्मं चअपेक्षते कामयत एव/ कार्यअपेक्षया तु नअभियुङ्क्ते/

५.१.११> स्वभावाच् च पुरुषेणअभियुज्यमाना चिकीर्षन्त्य् अपि व्यावर्तते/

५.१.१२> पुनः पुनर् अभियुक्ता सिद्ध्यति/

५.१.१३> पुरुषस् तु धर्मस्थितिम् आर्यसमयं चअपेक्ष्य कामयमानो +अपि व्यावर्तते/

५.१.१४> तथाबुद्धिश् चअभियुज्यमानो +अपि न सिद्ध्यति/

५.१.१५> निष्कारणम् अभियुङ्क्ते/ अभियुज्यापि पुनर् नअभियुङ्क्ते/ सिद्धायां च माध्यस्थ्यं गच्छति/

५.१.१६> सुलभाम् अवमन्यते/ दुर्लभाम् आकाङ्क्षत इति प्रायोवादः//(पृष्ठ २५७)

५.१.१७> तत्र व्यावर्तनकारणानि ---

५.१.१८> पत्यावनुरागः/

५.१.१९> अपत्यअपेक्षा/

५.१.२०> अतिक्रान्तवयस्त्वम्/

५.१.२१> दुःखअभिभवः/

५.१.२२> विरहन् उपलम्भः/

५.१.२३> अवज्ञयाउपमन्त्रयत इति क्रोधः/

५.१.२४> अप्रतर्क्य इति संकल्पवर्जनम्/

५.१.२५> गमिष्यतिइत्य् अनायतिर् अन्यत्र प्रसक्तमतिर् इति च/

५.१.२६> असंवृतआकार इत्य् उद्द्वेगः/

५.१.२७> मित्रेषु निसृष्टभाव इति तेष्व् अपेक्षा/

५.१.२८> शुष्कअभियोगीत्यअशङ्का/

५.१.२९> तेजस्वीइति साध्वसम्/

५.१.३०> चण्डवेगः समरथो वाइति भयं मृग्याः/

५.१.३१> नागरकः कलासु विचक्षण इति व्रीडा/

५.१.३२> सखित्वेनौपचरित इति च/

५.१.३३> अदेशकालज्ञ इत्य् असूया/

५.१.३४> परिभवस्थानम् इत्य् अबहुमानः/

५.१.३५> आकारितो +अपि नअवबुध्यत इत्य् अवज्ञा/

५.१.३६> शशो मन्दवेग इति च हस्तिन्याः/

५.१.३७> मत्तो +अस्य मा भूद् अनिष्टम् इत्य् अनुकम्पा/ ५.१.३८> आत्मनि दोषदर्शनान् निर्वेदः/

५.१.३९> विदिता सती स्वजनबहिष्कृता भविष्यामिइति भयम्/

५.१.४०> पलित इत्य् अनादरः/

५.१.४१> पत्या प्रयुक्तः परीक्षत इति विमर्शः/

५.१.४२> धर्मअपेक्षा चाइति//(पृष्ठ २५८)

५.१.४३> तेषु यदात्मनि लक्षयेत् तदादित एव परिच्छिन्द्यात्//(पृष्ठ २५९)

५.१.४४> आर्यत्वयुक्तानि रागवर्धनात्/

५.१.४५> अशक्तिजान्य् उपायप्रदर्शनात्/

५.१.४६> बहुमानकृतान्य् अतिपरिचयात्/

५.१.४७> परिभवकृतान्य् अतिशौण्डीर्याद् वैचक्षण्याच् च/

५.१.४८> तत्परिभवजानि प्रणत्या/

५.१.४९> भययुक्तान्य् आश्वासनाद् इति//(पृष्ठ २६०)

५.१.५०> पुरुषअस्त्व् अमी प्रायेण सिद्धाः --- कामसूत्रज्ञः/ कथाआख्यानकुशलो बाल्यात् प्रभृति संसृष्टः प्रवृद्धयौवनः क्रीडनकर्मआदिनाआगतविश्वासः प्रेषणस्य कर्ताउचितसंभाषणः प्रियस्य कर्ताअन्यस्य भूतपूर्वो दूतो मर्मज्ञ उत्तमया प्रार्थितः सख्या प्रच्छन्नं संसृष्टः सुभगअभिख्यातः सह संवृद्धः प्रातिवेश्यः कामशीलस् तथाभूतश् च परिचारिको धात्रेयिकापरिग्रहो (पृष्ठ २६०) नववरकः प्रेक्षौद्यानत्यागशीलो वृष इति सिद्धप्रतापः साहसिकः शूरो विद्यारूपगुणौपभोगैः पत्युर् अतिशयिता महार्हवेषौपचारश् चैति//(पृष्ठ २६१)

५.१.५१> यथाआत्मनः सिद्धतां पश्येद् एवं योषितो +अपि//(पृष्ठ २६२)

५.१.५२> अयत्नसाध्या योषितस् त्व् इमाः --- अभियोगमात्रसाध्याः/ द्वारदेशअवस्थायिनी/ प्रासादाद् राजमार्गअवलोकिनी/ तरुणप्रातिवेश्यगृहे गोष्ठीयोजिनी/ सततप्रेक्षिणी/ प्रेक्षिता पार्श्वविलोकिनी/ निष्कारणं सपत्न्याधिविन्ना/ भर्तृद्वेषिणी विद्विष्टा च/ परिहारहीना/ निरपत्या/

५.१.५३> ज्ञातिकुलनित्या/ विपन्नअपत्या/ गोष्ठीयोजिनी/ प्रीतियोजिनी/ कुशीलवभार्या/ मृतपतिका बाला/ दरिद्रा बहुउपभोगा/ ज्येष्ठभार्या बहुदेवरका/ बहुमानिनी न्यूनभर्तृका/ कौशलअभिमानिनी भर्तुर् मौर्ख्येणौद्विग्ना/ अविशेषतया लोभेन/

५.१.५४> कन्याकाले यत्नेन वरिता कथं चिद् अलब्धअभियुक्ता च सा तदानीं समानबुद्धिशीलमेधाप्रतिपत्तिसात्म्या/ प्रकृत्या पक्षपातिनी/ अनपराधे विमानिता/ तुल्यरूपाभिश् चअधः कृता/ प्रोषितपतिकाइति/ ईर्ष्यालुपूतिचोक्षक्लीबदीर्घसूत्रकापुरुषकुब्जवामनविरूपमणिकार् अग्राम्यदुर्गन्धिरोगिवृद्धभार्याश् चैति//(पृष्ठ २६२) श्लोकाव् अत्र भवतः --- (पृष्ठ २६४)

५.१.५५कख> इच्छा स्वभावतो जाता क्रियया परिबृंहिता/ (पृष्ठ २६४)

५.१.५५गघ> बुद्ध्या संशोधिताउद्वेगा स्थिरा स्याद् अनपायिनी//(पृष्ठ २६४)

५.१.५६कख> सिद्धताम् आत्मनो ज्ञात्वा लिङ्गान्य् उन्नीय योषिताम्/(पृष्ठ २६४)

५.१.५६गघ> व्यावृत्तिकारणौच्छेदी नरो योषित्सु सिध्यति//(पृष्ठ २६४)



परिचयकारणान्य् अभियोगा छेच्केद्

[सम्पाद्यताम्]

५.२.१> यथाकन्या स्वयम् अभियोगसाध्या न तथा दूत्या/ परस्त्रियस् तु सूक्ष्मभावा दूतीसाध्या न तथाआत्मनाइत्य् आचार्याः//(पृष्ठ २६५)

५.२.२> सर्वत्र शक्तिविषये स्वयं साधनम् उपपन्नतरकं दुरुपपादत्वात् तस्य दूतीप्रयोग इति वात्स्यायनः//(पृष्ठ २६५)

५.२.३> प्रथमसाहसा अनियन्त्रणसंभाषाश् च स्वयं प्रतार्याः/ तद्विपरीताश् च दूत्याइति प्रायोवादः//(पृष्ठ २६५)

५.२.४> स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात्//(पृष्ठ २६५)

५.२.५> तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च/

५.२.६> स्वाभाविकम् आत्मनो भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्यभवनसंनिकर्षे विवाहयज्ञौत्सवव्यसनौद्यानगमनआदिषु//(पृष्ठ २६६)

५.२.७> दर्शने चअस्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच् छुरणम् आभरणप्रह्लादनम् अधरओष्ठविमर्दनं तास् ताश् च लीला वयस्यैः सह प्रेक्षमाणायास् तत्संबद्धाः परअपदेशिन्यश् च कथास् त्यागौपभोगप्रकाशनं सख्युर् उत्सङ्गनिषण्णस्य साङ्गभङ्गं जृंभणम् एकभ्रूक्षेपणं मन्दवाक्यता तद्वाक्यश्रवणं ताम् उद्दिश्य बालेनअन्यजनेन वा सहान्यौपदिष्टा द्व्यर्था कथा तस्यां स्वयं मनोरथअवेदनम् अन्यअपदेशेन ताम् एवौद्दिश्य बालचुम्बनम् आलिङ्गनं च जिह्वया चअस्य ताम्बूलदानं प्रदेशिन्या हनुदेशघट्टनं तत् तद् यथायोगं यथाअवकाशं च प्रयोक्तव्यम्/

५.२.८> तस्याश् चअङ्कगतस्य बालस्य लालनं बालक्रीडनकानां चअस्य दानं ग्रहणं तेन संनिकृष्टत्वात् कथायोजनं तत्संभाषणक्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तदनुबन्धं च गमनअगमनस्य योजनं संश्रये चअस्यास् ताम् अपश्यतो नाम कामसूत्रसंकथा//(पृष्ठ २६६)

५.२.९> प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात्/ तत्प्रतिदिनं प्रतिक्षणं चएकदेशतो गृह्नीयात्/ सौगन्धिकं पूगफलानि च/

५.२.१०> ताम् आत्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तआसने च योजयेत्

५.२.११> नित्यदर्शनअर्थं विश्वासनअर्थं च/

५.२.१२> सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्ज्कआदिषु च कामअर्थिन्यां सहआत्मनो वश्यैश् चएषां तत्संपादने स्वयं प्रयतेत/

५.२.१३> तद् अनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः/

५.२.१४> तस्मिंश् चअन्येषाम् अपि कर्मणाम् अनुसंधानम्/

५.१.१५> येन कर्मणा द्रव्येण कौशलेन चअर्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं चआत्मआयत्तं दर्शयेत्/

५.२.१६> पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः/

५.२.१७> तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत्/

५.२.१८> तया तु विवदमानो +अत्यन्ताद् भुतम् इति ब्रूयाद् इति परिचयकारणानि//(पृष्ठ २६८)

५.२.१९> कृतपरिचयां दर्शितैङ्गितआकारां कन्याम् इवौपायतो +अभियुञ्जीतैति/ प्रायेण तत्र सूक्ष्मा अभियोगाः/ कन्यानाम् असंप्रयुक्तत्वात्/ इतरासु तान् एव स्फुटम् उपदध्यात्/ संप्रयुक्तत्वात्/

५.२.२०> संदर्शितआकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्य् उपयुञ्जीत/

५.२.२१> तत्र महार्हगन्धम् उत्तरीयं कुसुमं *च आत्मीयं[अन्यत्र : ोमित्स्] स्याद् अङ्गुलीयकं च/ तद्धस्ताद् गृहीतताम्बूलया गोष्ठीगमनौद्यतस्य केशहस्तपुष्पयाचनम्/

५.२.२२> तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात्/

५.२.२३> अधिकैर् अधिकैश् चअभियोगैः साध्वसविच्छेदनम्//(पृष्ठ २६९)

५.२.२४> क्रमेण च विविक्तदेशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानअन्ते द्रव्याणां परिवर्तनं गुह्यदेशअभिमर्शनं चैत्य् अभियोगाः//(पृष्ठ २७०)

५.२.२५> यत्र चएकअभियुक्ता न तत्रअपराम् अभियुञ्जीत/ तत्र या वृद्धअनुभूतविषया प्रियौपग्रहैश् च ताम् उपगृह्णीयात्//(पृष्ठ २७०) श्लोकाव् अत्र भवतः ---(पृष्ठ २७०)

५.२.२७कख> अन्यत्र दृष्टसंचारस् तद्भर्ता यत्र नायकः/(पृष्ठ २७०)

५.२.२७गघ> न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्//(पृष्ठ २७०)

५.२.२८कख> शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम्//(पृष्ठ २७०)

५.२.२८गघ> न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः//(पृष्ठ २७०)



भावपरीक्षा

[सम्पाद्यताम्]

५.३.१> अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत/ तया भावः परीक्षितो भवति/ अभियोगांश् च प्रतिगृह्णीयात्//(पृष्ठ २७१)

५.३.२> मन्त्रम् अवृण्वानां दूत्याएनां साधयेत्//(पृष्ठ २७१)

५.३.३> अप्रतिगृह्यअभियोगं पुनर् अपि संसृज्यमानां द्विधा भूतमानसां विद्यात्/ तां क्रमेण साधयेत्//(पृष्ठ २७१)

५.३.४> अप्रतिगृह्यअभियोगं सविशेषम् अलंकृता च पुनर् दृश्येत तथाएव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात्//(पृष्ठ २७१)

५.३.५> बहून् अपि विषहते +अभियोगान् न च चिरेणअपि प्रयच्छत्य् आत्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या//(पृष्ठ २७२)

५.३.६> मनुष्यजातेश् चित्तअनित्यत्वात्//(पृष्ठ २७२)

५.३.७> अभियुक्तअपि परिहरति/ न च संसृज्यते/ न च प्रत्याचष्टे/ तस्मिन्न् आत्मनि च गौरवअभिमानात्/ सअतिपरिचयात् कृच्छ्रसाध्या/ मर्मज्ञया दूत्या तां साधयेत्//(पृष्ठ २७२)

५.३.८> सा चेद् अभियुज्यमाना पारुष्येण प्रत्यादिशत्य् उपेक्ष्या//(पृष्ठ २७२)

५.३.९> परुषयित्वाअपि तु प्रीतियोजिनीं साधयेत्//(पृष्ठ २७२)

५.३.१०> कारणात् संस्पर्शनं सहते नअवबुध्यते नाम द्विधाभूतमानसा सातत्येन क्षान्त्या वा साध्या/(पृष्ठ २७३)

५.३.११> समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत्/ सापि सुप्ताइवौपेक्षते/ जाग्रती त्व् अपनुदेद् भूयो +अभियोगआकाङ्क्षिणी//(पृष्ठ २७३)

५.३.१२> एतेन पादस्यौपरि पादन्यासो व्याख्यातः/(पृष्ठ २७३)

५.३.१३> तस्मिन् प्रसृते भूयः सुप्तसंश्लेषणम् उपक्रमेत्/

५.३.१४> तदसहमानाम् उत्थितां द्वितीये +अहनि प्रकृतिवर्तिनीम् अभियोगअर्थिनीं विद्यात्/ अदृश्यमानां तु दूतीसाध्याम्//(पृष्ठ २७३)

५.३.१५> चिरम् अदृष्टाअपि प्रकृतिस्थाएव संसृज्यते कृतलक्षणां तां दर्शितआकाराम् उपक्रमेत्//(पृष्ठ २७४)

५.३.१६> अनभियुक्ताअप्य् आकारयति/ विविक्ते चआत्मानं दर्शयति/ सवेपथुगद्गदं वदति/ स्विन्नकरचरणअङ्गुलिः स्विन्नमुखी च भवति/ शिरःपीडने संवाहने चऊर्वोर् आत्मानं नायके नियोजयति/

५.३.१७> आतुरा संवाहिका चएकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शम् आवेदयति श्लेषयति च/ विस्मितभावा/

५.३.१८> निद्राअन्धा वा परिस्पृश्यऊरुभ्यां बाहुभ्याम् अपि तिष्ठति/ अलिकैकदेशम् ऊर्वोर् उपरि पातयति/ ऊरूमूलसंवाहने नियुक्ता न प्रतिलोमयति/ तत्रएव हस्तम् एकम् अविचलं न्यस्यति/ अङ्गसंदंशेन च पीडितं चिराद् अपनयति/

५.३.१९> प्रतिगृह्यएवं नायकाअभियोगान् पुनर् द्वितीये +अहनि संवाहनायौपगच्छति/

५.३.२०> नअत्यर्थं संसृज्यते/ न च परिहरति/

५.३.२१> विविक्ते भावं दर्शयति निष्कारणं चअगूढम् अन्यत्र प्रच्छन्नप्रदेशात्/

५.३.२२> संनिकृष्टपरिचारकौपभोग्या सा चेद् आकारिताअपि तथाएव स्यात् सा मर्मज्ञया दूत्या साध्या/

५.३.२३> व्यावर्तमाना तु तर्कणीयाइति भावपरीक्षा//(पृष्ठ २७४) भवन्ति चअत्र श्लोकाः ---(पृष्ठ २७५)

५.३.२४कख> आदौ परिचयं कुर्यात् ततश् च परिभाषणम्/(पृष्ठ २७५)

५.३.२४गघ> परिभाषणसंमिश्रं मिथश् चआकारवेदनम्//(पृष्ठ २७५)

५.३.२५कख> प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्/(पृष्ठ २७५)

५.३.२५गघ> ततो +अभियुञ्जीत नरः स्त्रियं विगतसाध्वसः//(पृष्ठ २७५)

५.३.२६कख> आकारेणआत्मनो भावं या नारी प्राक् प्रयोजयेत्/(पृष्ठ २७५)

५.३.२६गघ> क्षिप्रम् एवअभियोज्या सा प्रथमे त्व् एव दर्शने//(पृष्ठ २७५)

५.३.२७कख> श्लक्ष्णम् आकारिता या तु दर्शयेत् स्फुटम् उत्तरम्/(पृष्ठ २७५)

५.३.२७गघ> साअपि तत्क्षणसिद्धाइति विज्ञेया रतिलालसा//(पृष्ठ २७५)

५.३.२८कख> धीरआयामप्रगल्भायां परीक्षिण्यां च योषिति/(पृष्ठ २७६)

५.३.२८गघ> एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः//(पृष्ठ २७६)



दूतीकर्माणि

[सम्पाद्यताम्]

५.४.१> दर्शितैङ्गितआकारां तु प्रविरलदर्शनाम् अपूर्वां च दूत्याउपसर्पयेत्/(पृष्ठ २७६)

५.४.२> साएनां शीलतो +अनुप्रविश्यआख्यानकपटैः सुभगंकरणयोगैर् लोकवृत्तअन्तैः कविकथाभिः पारदारिककथाभिश् च तस्याश् च रूपविज्ञानदाक्षिण्यशीलअनुप्रशंसाभिश् च तां रञ्जयेत्/

५.४.३> कथम् एवं विधायास् तवअयम् इथंभूतः पतिरिति चअनुशयं ग्राहयेत्/

५.४.४> न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात्/

५.४.५> मन्दवेगताम् ईर्ष्यालुतां शठताम् अकृतज्ञतां चअसंभोगशीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्य् अस्या अभ्याशे सति सद्भावे +अतिशयेन भाषेत/

५.४.६> येन च दोषेणौद्विग्नां (पृष्ठ २७६)लक्षयेत् तेनएवअनुप्रविशेत्/

५.४.७> यदाअसौ मृगी तदा नएव शशतादोषः/

५.४.८> एतेनएव वडवाहस्तिनीविषयश् चौक्तः//(पृष्ठ २७७)

५.४.९> नायिकाया एव तु विश्वास्यताम् उपलभ्य दूतीत्वेनौपसर्पयेत् प्रथमसाहसायां सूक्ष्मभावायां चैति गोणिकापुत्रः//(पृष्ठ २७७)

५.४.१०> सा नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत्/ ५.४.११> प्रसृतसद्भावायां च युक्त्या कार्यशरीरम् इत्थं वदेत्/

५.४.१२> शृणु विचित्रम् इदं सुभगे, त्वां किल दृष्ट्वाअमुत्रअसाव् इत्थं गोत्रपुत्रो नायकश् चित्तौन्मादम् अनुभवति/ प्रकृत्या सुकुमारः कदा चिद् अन्यत्रअपरिक्लिष्टपूर्वस् तपस्वी/ ततो +अधुना शक्यम् अनेन मरणम् अप्य् अनुभवितुम् इति वर्णयेत्/

५.४.१३> तत्र सिद्धा द्वितीये +अहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत्/

५.४.१४> शृण्वत्यां चअहल्याअविमारकशाकुन्तलाआदीन्य् अन्यान्य् अपि लौकिकानि च कथयेत् तद्युक्तानि/

५.४.१५> वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य/ श्लाघनीयतां (या) चअस्य प्रच्छन्नं संप्रयोगं भूतम् अभूतपूर्वं वा वर्णयेत्/

५.४.१६> आकारं चअस्या लक्षयेत्//(पृष्ठ २७८)

५.४.१७> सविहसितं दृष्ट्वा संभाषते/

५.४.१८> आसने चौपनिमन्त्रयते/

५.४.१९> क्वासितं क्व शयितं *क्व[अन्यत्र : ोमित्स्] भुक्तं क्व चेष्टितं किं वा कृतम् इति पृच्छति/

५.४.२०> विविक्ते दर्शयत्य् आत्मानम्/

५.४.२१> आख्यानकानि नियुङ्क्ते/

५.४.२२> चिन्तयन्ती निःश्वसिति विजृम्भते च/

५.४.२३> प्रीतिदायं च ददाति/

५.४.२४> इष्टेषुउत्सवेषु च स्मरति/

५.४.२५> पुनर् दर्शनअनुबन्धं विसृजति/

५.४.२६> साधुवादिनी सती किम् इदम् अशोभनम् अभिधत्स इति कथाम् अनुबध्नाति/

५.४.२७> नायकस्य शाठ्यचापल्यसंबद्धान् दोशान् ददाति/

५.४.२८> पूर्वप्रवृत्तं च तत्संदर्शनं कथाअभियोगं च स्वयम् अकथयन्ती तयाउच्यमानम् आकाङ्क्षति/

५.४.२९> नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति/ न च निर्वदतिइति//(पृष्ठ २७९)

५.४.३०> दूत्य् एनां दर्शितआकारां नायकअभिज्ञानैर् उपबृंहयेत्/

५.४.३१> असंस्तुतां तु गुणकथनैर् अनुरागकथाभिश् चआवर्जयेत्//(पृष्ठ २८०)

५.४.३२> नअसंस्तुतअदृष्टआकारयोर् दूत्यम् अस्तिइत्य् औद्दालकिः/

५.४.३३> असंस्तुतयोर् अपि संसृष्टआकारयोर् अस्तिइति बाभ्रवीयाः/

५.४.३४> संस्तुतयोर् अप्य् असंसृष्टआकारयोर् अस्तिइति गोणिकापुत्रः/

५.४.३५> असंस्तुतयोर् अदृष्टआकारयोर् अपि दूतीप्रत्ययाद् इति वात्स्यायनः//(पृष्ठ २८१)

५.४.३६> तासां मनोहराण्य् उपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत्/

५.४.३७> तेषु नायकस्य यथाअर्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः/

५.४.३८> वाससि च कुङ्कुमअङ्कम् अञ्जलिं निदध्यात्/

५.४.३९> पत्त्रछेद्यानि नानाअभिप्रायआकृतिनि दर्शयेत्/ लेखपत्रगर्भाणि कर्णपत्त्राण्य् आपीडांश् च

५.४.४०> तेषु स्वमनोरथआख्यापनम्/ प्रतिप्राभृतदाने चएनां नियोजयेत्/

५.४.४१> एवं कृतपरस्परपरिग्रहयोश् च दूतीप्रत्ययः समागमः//(पृष्ठ २८१)

५.४.४२> स तु देवताअभिगमने यात्रायाम् उद्यानक्रीडायां जलअवतरणे विवाहे यज्ञव्यसनौत्सवेष्व् अग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रआरोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः/

५.४.४३> सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखौपाय इति गोणिकापुत्रः/

५.४.४४> तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तिताअत्ययप्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् अविज्ञातकालं च तन् नित्यं सुखौपायं चैति वात्स्यायनः//(पृष्ठ २८२)

५.४.४५> निसृष्टअर्था परिमितअर्था पत्रहारी स्वयंदूती मूढदूती भार्यादूती मूकदूती वातदूती चैति दूतीविशेषाः//(पृष्ठ २८२)

५.४.४६> नायकस्य नायिकायाश् च यथामनीषितम् अर्थम् उपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टअर्था//(पृष्ठ २८२)

५.४.४७> सा प्रायेण संस्तुतसंभाषणयोः/

५.४.४८> नायिकया प्रयुक्ता असंस्तुतसंभाषनयोर् अपि/

५.४.४९> कौतुकाच् चअनुरूपौ युक्ताव् इमौ परस्परस्यैत्य् असंस्तुतयोर् अपि//(पृष्ठ २८३)

५.४.५०> कार्यएकदेशम् अभियोगएकदेशं चौपलभ्य शेषं संपादयतिइति परिमितअर्था//(पृष्ठ २८३)

५.४.५१> सा दृष्टपरस्परआकारयोः प्रविरलदर्शनयोः//(पृष्ठ २८३)

५.४.५२> संदेशमात्रं प्रापयतिइति पत्रहारी//(पृष्ठ २८४)

५.४.५३> सा प्रगाढसद्भावयोः संसृष्टयोश् च देशकालसंबोधनअर्थम्//(पृष्ठ २८४)

५.४.५४> दौत्येन प्रहितअन्यया स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सहौपभोगं स्वप्ने वा कथयेत्/ गोत्रस्खलितं भार्यां चअस्य निन्देत्/ तद्व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत्/ नखदशनचिह्नितं वा किं चिद् दद्यात्/ भवते +अहम् अदौ दातुं संकल्पिताइति चअभिदधीत/ मम भार्याया का रमनीयाइति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती/

५.४.५५> तस्या विविक्ते दर्शनं प्रतिग्रहश् च/

५.४.५६> प्रतिग्रहच्छलेनअन्याम् अभिसंधायअस्याः संदेशश्रावणद्वारेण नायकं साधयेत् तां चौपहन्यात् साअपि स्वयंदूती/

५.४.५७> एतया नायको +अप्य् अन्यदूतश् च व्याख्यातः//(पृष्ठ २८४)

५.४.५८> नायकभार्यां मुग्धां विश्वास्यअयन्त्रणयाअनुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्/ योगाञ् शिक्षयेत्/ साकारं मण्डयेत्/ कोपम् एनां ग्राहयेत्/ एवं च प्रतिपद्यस्वैति श्रावयेत्/ स्वयं चअस्यां नखदशनपदानि निर्वर्तयेत्/ तेन द्वारेण नायकम् आकारयेत् सा मूढदूती//(पृष्ठ २८५)

५.४.५९> तस्यास् तयाएव प्रत्युत्तराणि योजयेत्//(पृष्ठ २८५)

५.४.६०> स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयाएवआकारयेत्/ आत्मनश् च वैचक्षण्यं प्रकाशयेत्/ सा भार्या दूती/ तस्यास् तयाएवआकारग्रहणम्//(पृष्ठ २८५)

५.४.६१> बालां वा परिचारिकाम् अदोषज्ञाम् अदुष्टेनौपायेन प्रहिणुयात्/ तत्र स्रजि कर्णपत्त्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती/ तस्यास् तया एव प्रत्युत्तरप्रार्थनम्//(पृष्ठ २८६)

५.४.६२> पूर्वप्रस्तुतअर्थलिङ्गसंबद्धम् अन्यजनअग्रहणीयं लौकिकअर्थं द्व्यर्थं वा वचनम् उदासीना या श्रावयेत् सा वातदूती/ तस्या अपि तयाएव प्रत्युत्तरप्रार्थनम् इति तासां विशेषाः//(पृष्ठ २८६) भवन्ति चअत्र श्लोकाः ---(पृष्ठ २८७)

५.४.६३कख> विधवाईक्षणिका दासी भिक्षुकी शिल्पकारिका/(पृष्ठ २८७)

५.४.६३गघ> प्रविशत्य् आशु विश्वासं दूतीकार्यं च विन्दति//(पृष्ठ २८७)

५.४.६४कख> विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्/(पृष्ठ २८७)

५.४.६४गघ> चित्रान् सुरतसंभोगान् अन्यासाम् अपि दर्शयेत्//(पृष्ठ २८७)

५.४.६५कख> नायकस्यअनुरागं च पुनश् च रतिकौशलम्/(पृष्ठ २८७)

५.४.६५गघ> प्रार्थनां चअधिकस्त्रीभिर् अवष्टम्भं च वर्णयेत्//(पृष्ठ २८७)

५.४.६६कख> असंकल्पितम् अप्य् अर्थम् उत्सृष्टं दोषकारणात्/(पृष्ठ २८७)

५.४.६६गघ> पुनर् आवर्तयत्य् एव दूती वचनकौशलात्//(पृष्ठ २८७)



ईश्वरकामितं

[सम्पाद्यताम्]

५.५.१> न राज्ञां महामात्राणां वा परभवनप्रवेशो विद्यते/ महाजनेन हि चरितम् एषां दृश्यते +अनुविधीयते च//(पृष्ठ २८८)

५.५.२> सवितारम् उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च/ गच्छन्तम् अपि पश्यन्त्य् अनुप्रतिष्ठन्ते च//(पृष्ठ २८८)

५.५.३> तस्माद् अशक्यत्वाद् गर्हणीयत्वाच् चैति न ते वृथा किं चिद् आचरेयुः//(पृष्ठ २८८)

५.५.४> अवश्यं त्व् आचरितव्ये योगान् प्रयुञ्जीरन्//(पृष्ठ २८९)

५.५.५> ग्रामअधिपतेर् अयुक्तकस्य हलौत्थवृत्तिपुत्रस्य यूनो ग्रामीणयोषितो वचनमात्रसाध्याः/ ताश् चर्षण्य इत्य् आचक्षते विटाः//(पृष्ठ २८९)

५.५.६> ताभिः सह विष्टिकर्मसु कोष्ठआगारप्रवेशे द्रव्याणां निष्क्रमणप्रवेशनयोर् भवनप्रतिसंस्कारे क्षेत्रकर्मणि कर्पासऊर्णअतसीशणवल्कलआदाने सूत्रप्रतिग्रहे द्रव्याणां क्रयविक्रयविनिमयेषु तेषु तेषु च कर्मसु संप्रयोगः//(पृष्ठ २८९)

५.५.७> तथा व्रजयोषिद्भिः सह गवअध्यक्षस्य//(पृष्ठ २९०)

५.५.८> विधवानाथा प्रव्रजिताभिः सह सूत्रअध्यक्षस्य//(पृष्ठ २९०)

५.५.९> मर्मज्ञत्वाद् रात्रअवटने चाटन्तीभिर् नागरस्य//(पृष्ठ २९०)

५.५.१०> क्रयविक्रये पण्यअध्यक्षस्य//(पृष्ठ २९०)

५.५.११> अष्टमीचन्द्रकौमुदीसुवसन्तकआदिषु पत्तननगरखर्वटयोषिताम् ईश्वरभवने *सह[अन्यत्र : सट]अन्तःपुरिकाभिः प्रायेण क्रीडा//(पृष्ठ २९०)

५.५.१२> तत्र चअपानकअन्ते नगरस्त्रियो यथापरिचयम् अन्तःपुरिकाणां पृथक् पृथग् भोगअवासकान् प्रविश्य कथाभिर् आसित्वा पूजिताः प्रपीताश् चौपप्रदोषं निष्क्रामयेयुः//(पृष्ठ २९०)

५.५.१३> तत्र प्रणिहिता राजदासी प्रयोज्यायाः पूर्वसंसृष्टा तां तत्र (पृष्ठ २९०) संभाषेत/

५.५.१४> रामनीयकदर्शनेन योजयेत्/

५.५.१५> प्राग् एव स्वभवनस्थां ब्रूयात्/ अमुष्यां क्रीडायां तव राजभवनस्थानानि रामनीयकानि दर्शयिष्यामिइति काले च योजयेत्/ बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि/

५.५.१६> मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपं समुद्रगृहप्रासादान् गूढभित्तिसंचारांश् चित्रकर्माणि क्रीडामृगान् यन्त्राणि शकुनान् व्याघ्रसिंहपञ्जरआदीनि च यानि पुरस्ताद् वर्णितानि स्युः/

५.५.१७> एकान्ते च तद्गतम् ईश्वरअनुरागं श्रावयेत्/

५.५.१८> संप्रयोगे चातुर्यं चअभिवर्णयेत्/

५.५.१९> अमन्त्रश्रावं च प्रतिपन्नां योजयेत्//(पृष्ठ २९१)

५.५.२०> अप्रतिपद्यमानां स्वयम् एवईश्वर आगत्यौपचारैः सान्वितां रञ्जयित्वा संभूय च सअनुरागं विसृजेत्/

५.५.२१> प्रयोज्यायाश् च पत्युर् अनुग्रहौचितस्य दारान् नित्यम् अन्तःपुरम् औचित्यात् प्रवेशयेत्/ तत्र प्रणिहिता (पृष्ठ २९१) राजदासीइति समानं पूर्वेण/

५.५.२२> अन्तःपुरिका वा प्रयोज्यया सह स्वचेटिका संप्रेषणेन प्रीतिं कुर्यात्/ प्रसृतप्रीतिं च सअपदेशं दर्शने नियोजयेत्/ प्रविष्टां पूजितां पीतवर्तीम् प्रणिहिता राजदासीइति समानं पूर्वेण/

५.५.२३> यस्मिन् वा विज्ञाने प्रयोज्या विख्याता स्यात् तद् दर्शनअर्थम् अन्तःपुरिका सौपचारं ताम् आह्वयेत्/ प्रविष्टां प्रणिहिता राजदासीइति समानं पूर्वेण/

५.५.२४> उद्भूतान् अर्थस्य भीतस्य वा भार्यां भिक्षुकी ब्रूयात् असाव् अन्तःपुरिका राजनि सिद्धा गृहीतवाक्या मम वचनं शृणोति/ स्वभावतश् च कृपाशीला ताम् अनेनौपायेनअधिगमिष्यामि/ अहम् एव ते प्रवेशं कारयिष्यामि/ सा च ते भर्तुर् महाअन्तम् अनर्थं निवर्तयिष्यतिइति प्रतिपन्नां द्विस् त्रिर् इति प्रवेशयेत्/ अन्तःपुरिका चअस्या अभयं दद्यात्/ अभयश्रवणाच् च संप्रहृष्टां प्रणिहिता राजदासीइति समानं पूर्वेण/

५.५.२५> एतया वृत्त्यर्थिनां महामात्रअभितप्तानां बलाद् विगृहीतानां व्यवहारे दुर्बलानां स्वभोगेनअसंतुष्टानां राजनि प्रीतिकामानां राज्यजनेषु पङ्क्ति(व्यक्ति)म् इच्छतां सजातैर् बाध्यमानानां सजातान् बाधितुकामानां सूचकानाम् अन्येषां कार्यवशिनां जाया व्याख्याताः//(पृष्ठ २९२)

५.५.२६> अन्येन वा प्रयोज्यां सह संसृष्टां संग्राह्य दास्यम् उपनीतां क्रमेणअन्तःपुरं प्रवेशयेत्/

५.५.२७> प्रणिधिना चआयतिम् अस्याः संदूष्य राजनि विद्विष्ट इति कलत्रअवग्रहौपायेनएनाम् अन्तःपुरं प्रवेशयेद् इति प्रच्छन्नयोगाः/ एते राजपुत्रेषु प्रायेण//(पृष्ठ २९३)

५.५.२८> न त्व् एवं परभवनम् ईश्वरः प्रविशेत्//(पृष्ठ २९४)

५.५.२९> आभीरं हि कोट्टराजं परभवनगतं भ्रातृप्रयुक्तो रजको जघान/ काशिराजं जयसेनम् अश्वअध्यक्ष इति//(पृष्ठ २९४)

५.५.३०> प्रकाशकामितानि तु देशप्रवृत्तियोगात्//(पृष्ठ २९४)

५.५.३१> प्रत्ता जनपदकन्या दशमे +अहनि किंचिद् औपायनिकम् उपगृह्य प्रविशन्त्य् अन्तःपुरम् उपभुक्ता एव विसृज्यन्त इत्य् आन्ध्राणाम्/

५.५.३२> महामात्रैष्वराणाम् अन्तःपुराणि निशि सेवाअर्थं राजानम् उपगच्छन्ति वात्सगुल्मकानाम्/

५.५.३३> रूपवतीर् जनपदयोषितः प्रीत्यपदेशेन मासं मासाअर्धं वाअतिवासयन्त्य् अन्तःपुरिका वैदर्भाणाम्/

५.५.३४> दर्शनीयाः स्वभार्याः प्रीतिदायाम् एव महामात्रराजभ्यो ददत्य् अपरान्तकानाम्/

५.५.३५> राजक्रीडाअर्थं (पृष्ठ २९४) नगरस्त्रियो जनपदस्त्रियश् च सङ्घश एकशश् च राजकुलं प्रविशन्ति सौराष्ट्रकाणाम् इति//(पृष्ठ २९५) श्लोकाव् अत्र भवतः(पृष्ठ २९५)

५.५.३६कख> एते चअन्ये च बहवः प्रयोगाः पारदारिकाः/(पृष्ठ २९५)

५.५.३६गघ> देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः//(पृष्ठ २९५)

५.५.३७कख> न त्व् एवएतान् प्रयुञ्जीत राजा लोकहिते रतः/(पृष्ठ २९५)

५.५.३७गघ> निगृहीतारिषड्वर्गस् तथा विजयते महीम्//(पृष्ठ २९५)



आन्तःपुरिकं दाररक्षितकं

[सम्पाद्यताम्]

५.६.१> नअन्तःपुराणां रक्षणयोगात् पुरुषसंदर्शनं विद्यते पत्युश् चएकत्वाद् अनेकसाधारणत्वाच् चअतृप्तिः/ तस्मात् तानि प्रयोगत एव परस्परं रञ्जयेयुः//(पृष्ठ २९६)

५.६.२> धात्रेयिकां सखीं दासीं वा पुरुषवद् अलंकृत्यआकृतिसंयुक्तैः कन्दमूलफलअवयवैर् अपद्रव्यैर् वाआत्मअभिप्रायां निर्वर्तयेयुः//(पृष्ठ २९६)

५.६.३> पुरुषप्रतिमा अव्यक्तलिङ्गाश् चअधिशयीरन्//(पृष्ठ २९६)

५.६.४> राजानश् च कृपाशीला विनाअपि भावयोगाद् आयोजितअपद्रव्या यावद् अर्थम् एकया रात्र्या बह्वीभिर् अपि गच्छन्ति/ यस्यां तु प्रीतिर् वासक ऋतुव् वा तत्रअभिप्रायतः प्रवर्तन्त इति प्राच्यौपचाराः//(पृष्ठ २९७)

५.६.५> स्त्रीयोगेणएव पुरुषाणाम् अप्य् अलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलौपमर्दनाच् चअभिप्रायनिवृत्तिर् व्याख्याता//(पृष्ठ २९७)

५.६.६> योषव् एषांश् च नागरकान् प्रयेण अन्तःपुरिकाः परिचारिकाभिः सह प्रवेशयन्ति/

५.६.७> तेषाम् उपावर्तने धात्रेयिकाश् च अभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन्/

५.६.८> सुखप्रवेशिताम् अपसारभूमिं विशालतां वेश्मनः प्रमादं रक्षिणाम् अनित्यतां परिजनस्य वर्णयेयुः/

५.६.९> न चअसद्भूतेनअर्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात्//(पृष्ठ २९७)

५.६.१०> नागारकस् तु सुप्रापम् अप्य् अन्तःपुरम् अपायभूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः//(पृष्ठ २९८)

५.६.११> सअपसारं तु प्रमदवनअवगाढं विभक्तदीर्घकक्ष्यम् अल्पप्रमत्तरक्षकं प्रोषिताराजकं कारणानि समीक्ष्य बहुश आहूयमानो +अर्थबुद्ध्या कक्ष्याप्रवेशं च दृष्ट्वा ताभिर् एव विहितौपायः प्रविशेत्/

५.६.१२> शक्तिविषये च प्रतिदिनं निष्क्रामेत्//(पृष्ठ २९८)

५.६.१३> बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृज्येत/

५.६.१४> अन्तश्चारिण्यां च परिचारिकायां विदितअर्थायां सक्तम् आत्मानं रूपयेत्/ तद् अलाभाच् च शोकम् अन्तःप्रवेशिनीभिश् च दूतीकल्पं सकलम् आचरेत्/ (पृष्ठ २९८)

५.६.१५> राजप्रणिधींश् च बुध्येत/

५.६.१६> दूत्यास् त्व् असंचारे यत्र गृहीतआकारायाः प्रयोज्याया दर्शनयोगस् तत्रअवस्थानम्/ ५.६.१७> तस्मिन्न् अपि तु रक्षिषु परिचारिकाव्यपदेशः/

५.६.१८> चक्षुरनुबध्नत्याम् इङ्गितआकारनिवेदनम्/

५.६.१९> यत्र संपातो +अस्यास् तत्र चित्रकर्मणस् तद् युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानाम् आपीनकाना(कस्य)म् अङ्गुलीयकस्य च निधानम्/

५.६.२०> प्रत्युत्तरं तया दत्तं प्रपश्येत्/ ततः प्रवेशने यतेत//(पृष्ठ २९९)

५.६.२१> यत्र चअस्या नियतं गमनम् इति विद्यात् तत्र प्रच्छन्नस्य प्राग् एवअवस्थानम्/

५.६.२२> रक्षि(त)पुरुषरूपो वा तदनुज्ञातवेलायां प्रविशेत्/

५.६.२३> आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ/

५.६.२४> पुटअपुटयोगैर् वा नष्टच्छायारूपः/

५.६.२५> तत्रअयं प्रयोगः --- नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चअन्तर्धूमेन पचेत्/ ततो +अञ्जनेन समभागेन पेषयेत्/ अनेनअभ्यक्तनयनो नष्टच्छायारूपश् चरति/ (अन्यैश् च जलब्रह्मक्षेमशिरःप्रणीतैर् बाह्यपानकैर् वा)

५.६.२६> रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा//(पृष्ठ ३००) तत्रएतद् भवति ---(पृष्ठ ३००)

५.६.२७क > द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने/(पृष्ठ ३००)

५.६.२७ख > आपानकौत्सवअर्थे +अपि चेटिकानां च संभ्रमे//(पृष्ठ ३००)

५.६.२७ग> व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये/(पृष्ठ ३००)

५.६.२७घ> उद्यानयात्रागमने यात्रातश् च प्रवेशने//(पृष्ठ ३००)

५.६.२७ए> दीर्घकालौदयां यात्रां प्रोषिते चापि राजनि/(पृष्ठ ३००)

५.६.२७छ> प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा//(पृष्ठ ३००)

५.६.२८क > परस्परस्य कार्याणि ज्ञात्वा चअन्तःपुरआलयाः/(पृष्ठ ३००)

५.६.२८ख > एककार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्//(पृष्ठ ३००)

५.६.२८ग> दूषयित्वा ततो +अन्योन्यम् एककार्यअर्पणे स्थिरः/(पृष्ठ ३००)

५.६.२८घ> अभेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते//(पृष्ठ ३००)

५.६.२९> तत्र राजकुलचारिण्य एव लक्षण्यान् पुरुषान् अन्तःपुरं प्रवेशयन्ति नअतिसुरक्षत्वाद् आपरान्तिकानाम्/

५.६.३०> क्षत्रियसंज्ञकैर् अन्तःपुररक्षिभिर् एवअर्थं साधयन्त्य् आभीरकाणाम्/

५.६.३१> प्रेष्याभिः सह तद्वेषान् नागरकपुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम्/

५.६.३२> स्वैर् एव पुत्रैर् अन्तःपुराणि कामचारैर् जननीवर्जम् उपयुज्यन्ते वैदर्भकाणाम्/

५.६.३३> तथा प्रवेशिभिर् एव ज्ञातिसंबन्धिभिर् नअन्यैर् उपयुज्यन्ते स्त्रैराजकानाम्/

५.६.३४> ब्राह्मणैर् मित्रैर् भृत्यैर् दासचेटैश् च गौडानाम्/

५.६.३५> परिस्पन्दाः कर्मकराश् चअन्तःपुरेष्व् अनिषिद्धा अन्ये +अपि तद्रूपाश् च सैन्धवानाम्/

५.६.३६> अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्/

५.६.३७> पुष्पदाननियोगान् नगरब्राह्मणा राजविदितम् अन्तःपुराणि गच्छन्ति/ पटअन्तरितैश् चएषाम् आलापः/ तेन प्रसङ्गेन व्यतिकरो भवति वङ्गअङ्गकलिङ्गकानाम्/

५.६.३८> संहत्य नवदशैत्य् एकैकं (पृष्ठ ३०१)युवानं प्रच्छादयन्ति प्राच्यानाम् इति/ एवं परस्त्रियः प्रकुर्वीत/ इत्य् अन्तःपुरिकावृत्तम्//(पृष्ठ ३०२)

५.६.३९> एभ्य एव च कारणेभ्यः स्वदारान् रक्षेत्//(पृष्ठ ३०२)

५.६.४०> कामौपधाशुद्धान् रक्षिणो +अन्तःपुरे स्थापयेद् इत्य् आचार्याः/

५.६.४१> ते हि भयेन चअर्थेन चअन्यं प्रयोजयेयुस् तस्मात् कामभयअर्थौपधाशुद्धान् इति गोणिकापुत्रः/

५.६.४२> अद्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्मभयौपधाशुद्धान् इति वात्स्यायनः//(पृष्ठ ३०३)

५.६.४३> परवाक्यअभिधायिनीभिश् च गूढआकाराभिः प्रमदाभिर् आत्मदारान् उपदध्याच् छौचअशौचपरिज्ञानअर्थम् इति बाभ्रवीयाः/

५.६.४४> दुष्टानां युवतिषु सिद्धत्वान् नअकस्माद् अदुष्टदूषणम् आचरेद् इति वात्स्यायनः//(पृष्ठ ३०३)

५.६.४५> अतिगोष्ठी निरङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहअनियन्त्रणता/ प्रवासे +अवस्थानं विदेशे निवासः स्ववृत्त्युपघातः स्वैरिणीसंसर्गः पत्युर् ईर्ष्यालुता चैति स्त्रीणां विनाशकारणानि//(पृष्ठ ३०४)

५.६.४६क > संदृश्य शास्त्रतो योगान् पारदारिकलक्षितान्/(पृष्ठ ३०४)

५.६.४६ख > न याति च्छलनां कश्चित् स्वदारान् प्रति शास्त्रवित्//(पृष्ठ ३०४)

५.६.४७क > पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात्/(पृष्ठ ३०४)

५.६.४७ख > धर्मअर्थयोश् च वैलोम्यान् नअचरेत् पारदारिकम्/(पृष्ठ ३०४)

५.६.४८क > तद् एतद् दारगुप्त्यर्थम् आरब्धं श्रेयसे नृणाम्/(पृष्ठ ३०४)

५.६.४८ख > प्रजानां दूषणायएव न विज्ञेयो +अस्य संविधिः//(पृष्ठ ३०४)



सहायगम्यागम्यचिन्ता गमनकारणं गम्योपावर्तनं

[सम्पाद्यताम्]

६.१.१> वेश्यानां पुरुषअधिगमे रतिर् वृत्तिश् च सर्गात्/

६.१.२> रतितः प्रवर्तनं स्वाभाविकं कृत्रिमम् अर्थअर्थम्/

६.१.३> तद् अपि स्वाभाविकवद् रूपयेत्/

६.१.४> कामपरासु हि पुंसां विश्वासयोगात्/

६.१.५> अलुब्धतां च ख्यापयेत् तस्य निदर्शनअर्थम्/

६.१.६> न चअनुपायेनअर्थान् साधयेद् आयतिसंरक्षणअर्थम्/

६.१.७> नित्यम् अलंकारयोगिनी राजमार्गअवलोकिनी दृश्यमाना न चअतिविवृता तिष्ठेत्/ पण्यसधर्मत्वात्//(पृष्ठ ३०६)

६.१.८> यैर् नायकम् आवर्जयेद् अन्याभ्यश् चअवच्छिन्द्याद् आत्मनश् चअनर्थं प्रतिकुर्याद् अर्थं च साधयेन् न च गम्यैः परिभूयेत तान् सहायान् कुर्यात्/

६.१.९> ते त्व् आरक्षकपुरुषा धर्मअधिकरणस्था दैवज्ञा विक्रान्ताः शूराः समानविद्याः कलाग्राहिणः पीठमर्दविटविदूषकमालाकारगन्धिकशौण्डिकरजकनापितभिक्षुक् आस् ते च ते च कार्ययोगात्//(पृष्ठ ३०७)

६.१.१०> केवलअर्थास् त्व् अमी गम्याः --- स्वतन्त्रः पूर्वे वयसि वर्तमानो वित्तवान् अपरोक्षवृत्तिर् अधिकरणवान् अकृच्छ्रअधिगतवित्तः/ संघर्षवान् संततायः सुभगमानी श्लाघनकः षण्डकश् च पुंशब्दअर्थी/ समानस्पर्धी स्वभावतस् त्यागी/ राजनि महामात्रे वा सिद्धो दैवप्रमाणो वित्त(पृष्ठ ३०७)अवमानी गुरूणां शासनअतिगः सजातानां लक्ष्यभूतः सवित्त एकपुत्रो लिङ्गी प्रच्छन्नकामः शूरो वैद्यश् चैति//(पृष्ठ ३०८) ६.१.११> प्रीतियशोअर्थास् तु गुणतो +अधिगम्याः//(पृष्ठ ३०८)

६.१.१२> महाकुलीनो विद्धान् सर्वसमयज्ञः कविर् आख्यानकुशलो वाग्ग्मी (पृष्ठ ३०८)प्रगल्भो विविधशिल्पज्ञो वृद्धदर्शी स्थूललक्षो महाउत्साहो दृढभक्तिर् अनसूयकस् त्यागी मित्रवत्सलो घटागोष्ठीप्रेक्षणकसमाजसमस्याक्रीडनशीलो नीरुजो +अव्यङ्गशरीरः प्राणवानमद्यपो वृषो मैत्रः स्त्रीणां प्रणेता लालयिता च/ न चआसां वशगः स्वतन्त्रवृत्तिर् अनिष्ठुरो +अनीर्ष्यालुर् अनवशङ्की चैति नायकगुणाः//(पृष्ठ ३०९)

६.१.१३> नायिकायाः पुना रूपयौवनलक्षणमाधुर्य योगिनी गुणेष्व् अनुरक्ता न तथाअर्थेषु प्रीतिसंयोगशीला स्थिरम् अतिरेकजातीया विशेषअर्थिनी नित्यम् अकदर्यवृत्तिर् गोष्ठीकलाप्रिया चैति [नायिकागुणाः]//(पृष्ठ ३०९)

६.१.१४> नायिका पुनर्बुद्धिशीलआचार आर्जवं कृतज्ञता दीर्घदूरदर्शित्वं अविसंवादिता देशकालज्ञता नागरकता दैन्यअतिहासपैशुन्यपरिवादक्रोधलोभस्तम्भचापलवर्जनं पूर्वअभिभाषिता कामसूत्रकौशलं तदङ्गविद्यासु चैति साधारणगुणाः/

६.१.१५> गुणविपर्यये दोषाः//(पृष्ठ ३१०)

६.१.१६> क्षयी रोगी कृमिशकृद्वायसास्यः प्रियकलत्रः परुषवाक्कदर्यो निर्घृणो गुरुजनपरित्यक्तः स्तेनो दम्भशीलो मूलकर्मणि प्रसक्तो मानअपमानयोर् अनपेक्षी द्वेष्यैर् अप्य् अर्थहार्यो विलज्ज इत्य् अगम्याः//(पृष्ठ ३१०)

६.१.१७> रागो भयम् अर्थः संघर्षो वैरनिर्यातनं जिज्ञासा पक्षः खेदो घर्मो यशो +अनुकम्पा सुहृद्वाक्यं ह्रीः प्रियसादृश्यं धन्यता रागअपनयः साजात्यं साहवेश्यं सातत्यम् आयतिश् च गमनकारणानि भवन्तिइत्यआचार्या:/

६.१.१८> अर्थो +अनर्थप्रतीघातः प्रीतिश् चैति वात्स्यायनः/

६.१.१९> अर्थस् तु प्रीत्या न बाधितः/ अस्य प्राधान्यात्/

६.१.२०> भयआदिषु तु गुरुलाघवं परीक्ष्यम् इति सहायगम्यअगम्य(गमन)कारणचिन्ता//(पृष्ठ ३११)

६.१.२१> उपमन्त्रिताअपि गम्येन सहसा न प्रतिजानीयात्/ पुरुषाणां सुलभअवमानित्वात्/

६.१.२२> भावजिज्ञासाअर्थं प्रैचारकमुखान् संवाहकगायनवैहासिकान् गम्ये तद्भक्तान् वा प्रणिदध्यात्/

६.१.२३> तदभावे पीठमर्दआदीन्/ तेभ्यो नायकस्य शौचअशौचं रागअपरागौ सक्तअसक्तां दानअदाने च विद्यात्/

६.१.२४> संभावितेन च सह विटपुरोगां प्रीतिं योजयेत्//(पृष्ठ ३१२)

६.१.२५> लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककला व्यपदेशेन पीठमर्दो नायकं तस्या उदवसितम् आनयेत्/

६.१.२६> तां वा तस्य/

६.१.२७> आगतस्य प्रीतिकौतुकजननं किं चिद् द्रव्यजातं स्वयम् इदम् असाधारणौपभोग्यम् इति प्रीतिदायं दद्यात्/

६.१.२८> यत्र च रमते तया गोष्ठ्यएनम् उपचारैश् च रञ्जयेत्//(पृष्ठ ३१३)

६.१.२९> गते च सपरिहासप्रलापां सौपायनां परिचारिकाम् अभिक्ष्णं प्रेषयेत्/

६.१.३०> सपीठमर्दायाश् च कारणअपदेशेन स्वयं गमनम् इति गम्यौपावर्तनम्//(पृष्ठ ३१३) भवन्ति चअत्र श्लोकाः ---(पृष्ठ ३१४)

६.१.३१कख> ताम्बूलानि स्रजश् चैव संस्कृतं चअनुलेपनम्/(पृष्ठ ३१४)

६.१.३१गघ> आगतस्यआहरेत् प्रीत्या कलागोष्ठीश् च योजयेत्//(पृष्ठ ३१४)

६.१.३२कख> द्रव्याणि प्रणये दद्यात् कुर्याच् च परिवर्तनम्/(पृष्ठ ३१४)

६.१.३२गघ> संप्रयोगस्य चअकूतं निजेनएव प्रयोजयेत्//(पृष्ठ ३१४)

६.१.३३कख> प्रीतिदायैर् उपन्यासैर् उपचारैश् च केवलैः/(पृष्ठ ३१४)

६.१.३३गघ> गम्येन सह संसृष्टा रञ्जयेत् तं ततः परम्//(पृष्ठ ३१४)



कान्तानुवृत्तं

[सम्पाद्यताम्]

६.२.१> संयुक्ता नायकेन तद्रञ्जनअर्थम् एकचारिणीवृत्तम् अनुतिष्ठेत्/

६.२.२> रञ्जयेन् न तु सज्जेत सक्तवच् च विचेष्टेतैति संक्षेपौक्तिः/

६.२.३> मातरि च क्रूरशीलायाम् अर्थपरायां चायत्ता स्यात्/

६.२.४> तदभावे मातृकायाम्/

६.२.५> सा तु गम्येन नअतिप्रीयेत/

६.२.६> प्रसह्य च दुहितरम् आनयेत्/

६.२.७> तत्र तु नायिकायाः संततम् अरतिर् निर्वेदो व्रीडाभयं च/

६.२.८> न त्व् एव शासनअतिवृत्तिः/

६.२.९> व्याधिं चएकम् अनिमित्तम् अजुगुप्सितम् अचक्षुर्ग्राह्यम् अनित्यं च ख्यापयेत्/

६.२.१०> सति कारणे तदपदेशं च नायकान् अभिगमनम्/

६.२.११> निर्माल्यस्य तु नायिका चेटिकां प्रेषयेत् ताम्बूलस्य च//(पृष्ठ ३१५)

६.२.१२> व्यवाये तदुपचारेषु विस्मयश्

६.२.१३> चतुःषष्ट्यां शिष्यत्वं

६.२.१४> तदुपदिष्टानां च योगानाम् अभीक्ष्ण्येनअनुयोगस्

६.२.१५> तत्सात्म्याद् रहसि वृत्तिर्

६.२.१६> मनोरथानाम् आख्यानं

६.२.१७> गुह्यानां वैकृतप्रच्छादनं

६.२.१८> शयने परावृत्तस्यअनुपेक्षणम्

६.२.१९> आनुलोम्यं गुह्यस्पर्शने

६.२.२०> सुप्तस्य चुम्बनम् आलिङ्गनं च//(पृष्ठ ३१६)

६.२.२१> प्रेक्षणम् अन्यमनस्कस्य/ राजमार्गे च प्रासादस्थायास् तत्र विदिताया व्रीडाशाठ्यनाशः/

६.२.२२> तद्द्वेष्ये द्वेष्यता/ तत्प्रिये प्रियता/ तद्रम्ये (पृष्ठ ३१६)रतिः/ तम् अनु हर्षशोकौ/ स्त्रीषु जिज्ञासा/ कोपश् चअदीर्घः/

६.२.२३> स्वकृतेष्व् अपि नखदशनचिह्नेष्व् अन्याशङ्का//(पृष्ठ ३१७)

६.२.२४> अनुरागस्यअवचनम्

६.२.२५> आकारतस् तु दर्शयेत्/

६.२.२६> मदस्वप्नव्याधिषु तु निर्वचनम्/ ६.२.२७> श्लाघ्यानां नायककर्मणां च/

६.२.२८> तस्मिन् ब्रुवाणे वाक्यअर्थग्रहणम्/ तदवधार्य प्रशंसाविषये भाषणम्/ तद्वाक्यस्य चौत्तरेण योजनम्/ भक्तिमांश् चेत्/

६.२.२९> कथास्व् अनुवृत्तिर् अन्यत्र सपत्न्याः/

६.२.३०> निःश्वासे जृम्भिते स्खलिते पतिते वा तस्य चआर्तिम् आशंसीत/

६.२.३१> क्षुतव्याहृतविस्मितेषु जीवैत्य् उदाहरणम्/

६.२.३२> दौर्मनस्ये व्याधिदौर्हृदअपदेशः/

६.२.३३> गुणतः परस्यआकीर्तनम्/

६.२.३४> न निन्दा समानदोषस्य/

६.२.३५> दत्तस्य धारणम्/

६.२.३६> वृथाअपराधे तद्व्यसने वाअलंकारस्यअग्रहणम् अभोजनं च/

६.२.३७> तद्युक्ताश् च विलापाः/

६.२.३८> तेन सह देशमोक्षं रोचयेद् राजनि निष्क्रयं च/(पृष्ठ ३१७)

६.२.३९> सामर्थ्यम् आयुषस् तदवाप्तौ/

६.२.४०> तस्यअर्थअधिगमे +अभिप्रेतसिद्धौ शरीरौपचये वा पूर्वसंभाषित इष्टदेवताउपहारः/

६.२.४१> नित्यम् अलंकारयोगः/ परिमितो +अभ्यवहारः/

६.२.४२> गीते च नामगोत्रयोर् ग्रहणम्/ ग्लान्याम् उरसि ललाटे च करं कुर्वीत/ तत्सुखम् उपलभ्य निद्रालाभः/

६.२.४३> उत्सङ्गे चअस्यौपवेशनं स्वपनं च/ गमनं वियोगे/

६.२.४४> तस्मात् पुत्रअर्थिनी स्यात्/ आयुषो नआधिक्यम् इच्छेत्//(पृष्ठ ३१८)

६.२.४५> एतस्यअविज्ञातम् अर्थं रहसि न ब्रूयात्/

६.२.४६> व्रतम् उपवासं चअस्य निर्वर्तयेत् मयि दोष इति/ अशक्ये स्वयम् अपि तद्रूपा स्यात्/

६.२.४७> विवादे तेनअप्य् अशक्यम् इत्य् अर्थनिर्देशः/

६.२.४८> तदीयम् आत्मीयं वा स्वयम् अविशेषेण पश्येत्/

६.२.४९> तेन विना गोष्ठ्यादीनाम् अगमनम् इति/

६.२.५०> निर्माल्यधारणे श्लाघा उच्छिष्टभोजने च/

६.२.५१> कुलशीलशिल्पजातिविद्यावर्णवित्तदेश(पृष्ठ ३१९)मित्रगुणवयोमाध् उर्यपूजा/

६.२.५२> गीतआदिषु चोदनम् अभिज्ञस्य/

६.२.५३> भयशीतौष्णवर्षाण्य् अनपेक्ष्य तदभिगमनम्/

६.२.५४> स एव च मे स्याद् इत्य् और्ध्वदेहिकेषु वचनम्/

६.२.५५> तदिष्टरसभावशीलाअनुवर्तनम्/

६.२.५६> मूलकर्मअभिशङ्का/

६.२.५७> तदभिगमने च जनन्या सह नित्यो विवादः/

६.२.५८> बलात् कारेण च यद्य् अन्यत्र तया नीयेत तदा विषमनशनं शस्त्रं रज्जुम् इति कामयेत/

६.२.५९> प्रत्यायनं च प्रणिधिभिर् नायकस्य/ स्वयं वाआत्मनो वृत्तिग्रहणम्/

६.२.६०> न त्व् एवअर्थेषु विवादः/

६.२.६१> मात्रा विना किं चिन् न चेष्टेत//(पृष्ठ ३२०)

६.२.६२> प्रवासे शीघ्राआगमनाय शापदानम्/

६.२.६३> प्रोषिते मृजानियमश् चअलंकारस्य प्रतिषेधः/ मङ्गलं त्व् अपेक्ष्यम्/ एकं शङ्खवलयं वा धारयेत्/

६.२.६४> स्मरणम् अतीतानाम्/ गमनम् ईक्षणिकौपश्रुतीनाम्/ नक्षत्रचन्द्रसूर्यताराभ्यः स्पृहणम्/

६.२.६५> इष्टस्वप्नदर्शने तत्संगमो ममअस्त्व् इति वचनम्/

६.२.६६> उद्वेगो +अनिष्टे शान्तिकर्म च/

६.२.६७> प्रत्यागते कामपूजा/

६.२.६८> देवताउपहाराणां करणम्/

६.२.६९> सखीभिः पूर्णपात्रस्यआहरणम्/

६.२.७०> वायसपूजा च/

६.२.७१> प्रथमसमागमअनन्तरं चएतद् एव वायसपूजावर्जम्/

६.२.७२> सक्तस्य चअनुमरणं ब्रूयात्//(पृष्ठ ३२१)

६.२.७३> निसृष्टभावः समानवृत्तिः प्रयोजनकारी निराशङ्को निरपेक्षो +अर्थेष्व् इति सक्तलक्षणानि//(पृष्ठ ३२२)

६.२.७४> तद् एतन् निर्दर्शनअर्थं दत्तकशासनाद् उक्तम्/ अनुक्तं च लोकतः शीलयेत् पुरुषप्रकृतितश् च//(पृष्ठ ३२२) भवतश् चअत्र श्लोकौ ---(पृष्ठ ३२३)

६.२.७५कख> सूक्ष्मत्वाद् अतिलोभाच् च प्रकृत्याज्ञानतस् तथा/(पृष्ठ ३२३)

६.२.७५गघ> कामलक्ष्म तु दुर्ज्ञानं स्त्रीणां तद्भावितैर् अपि//(पृष्ठ ३२३)

६.२.७६कख> कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च/(पृष्ठ ३२३)

६.२.७६गघ> कर्षयन्त्यो +अपि सर्वअर्थाञ् ज्ञायन्ते नएव योषितः//(पृष्ठ ३२३)



अर्थागमोपाया विरक्तलिङ्गानि विरक्तप्रतिपत्तिर् निष्कासनक्रमास्

[सम्पाद्यताम्]

६.३.१> सक्तआदिवित्तआदानं स्वाभाविकम् उपायतश् च/

६.३.२> तत्र स्वाभाविकं संकल्पात् समधिकं वा लभमाना नौपायान् प्रयुञ्जीतैत्य् आचार्याः/

६.३.३> विदितम् अप्य् उपायैः परिष्कृतं द्विगुणं दास्यतिइति वात्स्यायनः//(पृष्ठ ३२४)

६.३.४> अलंकारभक्ष्यभोज्यपेयमाल्यवस्त्रगन्धद्रव्यआदीनां व्यवहारिषु कालिकम् उद्धारअर्थम् अर्थप्रतिनयनेन/

६.३.५> तत्समक्षं तद्वित्तप्रशंसा/

६.३.६> व्रतवृक्षारामदेवकुलतडागौद्यानौत्सवप्रीतिदायव्यपदेशः/

६.३.७> तदभिगमननिमित्तो रक्षिभिश् चौरैर् वाअलंकारपरिमोषः/

६.३.८> दाहात् कुड्यच्छेदात् प्रमादाद् भवने चअर्थनाशः/

६.३.९> तथा याचितअलंकाराणां नायकअलंकाराणां च तदभिगमनअर्थस्य व्ययस्य प्रणिधिभिर् निवेदनम्/

६.३.१०> तदर्थम् ऋणग्रहणम्/ जनन्या सह तदुद्भवस्य व्ययस्य विवादः/

६.३.११> सुहृत्कार्येष्व् अनभिगमनम् अनभिहारहेतोः/

६.३.१२> तैश् च पूर्वम् आहृता गुरवो +अभिहाराः पूर्वम् (पृष्ठ ३२४)उपनीताः पूर्वं श्राविताः स्युः/

६.३.१३> उचितानां क्रियाणां विच्छित्तिः/

६.३.१४> नायकअर्थं च शिल्पिषु कार्यम्/

६.३.१५> वैद्यमहामात्रयोर् उपकारिक्रिया कार्यहेतोः/

६.३.१६> मित्राणां चौपकारिणां व्यसनेष्व् अभ्युपपत्तिः/

६.३.१७> गृहकर्म/ सख्याः पुत्रस्यौत्सञ्जनम् दोहदो व्याधिर् मित्रस्य दुःखअपनयनम् इति/

६.३.१८> अलंकारएकदेशविक्रयो नायकस्यअर्थे/

६.३.१९> तया शीलितस्य चअलंकारस्य भाण्डौपस्करस्य वा वणिजो विक्रयअर्थं दर्शनम्/

६.३.२०> प्रतिगणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम्/

६.३.२१> पूर्वौपकाराणाम् अविस्मरणम् अनुकीर्तनं च/

६.३.२२> प्रणिधिभिः प्रतिगणिकानां लाभअतिशयं श्रावयेत्/

६.३.२३> तासु नायकसमक्षम् आत्मनो +अभ्यधिकं लाभं भूतम् अभूतं वा व्रीडिता नाम वर्णयेत्/

६.३.२४> पूर्वयोगिनां च लाभअतिशयेन पुनः संधाने यतमानानाम् अविष्कृतः प्रतिषेधः/

६.३.२५> तत्स्पर्धिनां त्यागयोगिनां निदर्शनम्/

६.३.२६> न पुनर् एष्यतिइति बालयाचितकम् इत्य् अर्थआगमौपायाः//(पृष्ठ ३२५)

६.३.२७> विरक्तं च नित्यम् एव प्रकृतिविक्रियातो विद्यात् मुखवर्णाच् च//(पृष्ठ ३२८)

६.३.२८> ऊनम् अतिरिक्तं वा ददाति/

६.३.२९> प्रतिलोमैः संबध्यते/

६.३.३०> व्यपदिश्यअन्यत् करोति/

६.३.३१> उचितम् आच्छिनत्ति/

६.३.३२> प्रतिज्ञातम् विस्मरति/ अन्यथा वा योजयति/

६.३.३३> स्वपक्षैः संज्ञया भाषते/

६.३.३४> मित्रकार्यम् अपदिश्यअन्यत्र शेते/

६.३.३५> पूर्वसंसृष्टायाश् च परिजनेन मिथः कथयति//(पृष्ठ ३२८)

६.३.३६> तस्य सारद्रव्याणि प्राग् अवबोधाद् अन्यअपदेशेन हस्ते कुर्वीत/

६.३.३७> तानि चअस्या हस्ताद् उत्तमर्णः प्रसह्य गृह्णीयात्/

६.३.३८> विवदमानेन सह धर्मस्थेषु व्यवहरेद् इति विरक्तप्रतिपत्तिः//(पृष्ठ ३२९)

६.३.३९> सक्तं तु पूर्वौपकारिणम् अप्य् अल्पफलं व्यलीकेनअनुपालयेत्/

६.३.४०> असारं तु निष्प्रतिपत्तिकम् उपाययो +अपवाहयेत्/ अन्यम् अवष्टभ्य//(पृष्ठ ३२९)

६.३.४१> तदनिष्ठसेवा/ निन्दितअभ्यासः/ ओष्ठनिर्भोगः/ पादेन भूमेर् अभिघातः/ अविज्ञातविषयस्य संकथा/ तद्विज्ञातेष्व् अविस्मयः *कुत्सा च/ दर्पविघातः/ अधिकैः सह संवासः/ *अनपेक्षणम्/[अन्यत्र : ोमित्स्] समानदोषाणां निन्दा/ रहसि चअवस्थानम्//(पृष्ठ ३३०)

६.३.४२> रतौपचारेषुउद्वेगः/ मुखस्यआदानम्/ जघनस्य रक्षणम्/ नखदशनक्षतेभ्यो जुगुप्सा/ परिस्वङ्गे भुजमय्या सूच्या व्यवधानम्/ स्तब्धता गात्राणाम्/ सक्थ्नोर् व्यत्यासः/ निद्राअपरत्वं च/ श्रान्तम् (पृष्ठ ३३०)उपलभ्य चोदना/ अशक्तौ हासः/ शक्ताव् अनभिनन्दनम्/ दिवाअपि/ भावम् उपलभ्य महाजनअभिगमनम्//(पृष्ठ ३३१)

६.३.४३> वाक्येषु च्छलग्रहणम्/ अनर्मणि हासः/ नर्मणि चअन्यम् अपदिश्य हसति वदति तस्मिन् कटाक्षेण परिजनस्य प्रेक्षणं ताडनं च/ आहत्य चअस्य कथाम् अन्याः कथाः/ तद्व्यलीकानां व्यसनानां चअपरिहार्याणाम् अनुकीर्तनम्/ मर्मणां च चेटिकयाउपक्षेपणम्/

६.३.४४> आगते चअदर्शनम्/ अयाच्ययाचनम्/ अन्ते स्वयं मोक्षश् चैति परिग्रहकस्यैति दत्तकस्य//(पृष्ठ ३३१) भवतश् चअत्र श्लोकौ ---(पृष्ठ ३३२)

६.३.४५कख> परीक्ष्य गम्यैः संयोगः संयुक्तस्यअनुरञ्जनम्/(पृष्ठ ३३२)

६.३.४५गघ> रक्ताद् अर्थस्य चआदानम् अन्ते मोक्षश् च वैशिकम्//(पृष्ठ ३३२)

६.३.४६कख> एवम् एतेन कल्पेन स्थिता वेश्या परिग्रहे/(पृष्ठ ३३२)

६.३.४६गघ> नअतिसंधीयते गम्यैः करोत्य् अर्थांश् च पुष्कलान्//(पृष्ठ ३३२)



विशीर्णप्रतिसंधानं

[सम्पाद्यताम्]

६.४.१> वर्तमानं निष्पीडितअर्थम् उत्सृजन्ती पूर्वसंसृष्टेन सह संदध्यात्//(पृष्ठ ३३३)

६.४.२> स चेद् अवसितअर्थो वित्तवान् सानुरागश् च ततः संधेयः//(पृष्ठ ३३३)

६.४.३> अन्यत्र गतस् तर्कयितव्यः/ स कार्ययुक्त्या षड्विधः//(पृष्ठ ३३३)

६.४.४> इतः स्वयम् अपसृतस् ततो +अपि स्वयम् एवअपसृतः/

६.४.५> इतस् ततश् च निष्कासितअपसृतः/

६.४.६> इतः स्वयम् अपसृतस् ततो निष्कासितअपसृतः/

६.४.७> इतः स्वयम् अपसृतस् तत्र स्थितः/

६.४.८> इतो निष्कासितअपसृतस् ततः स्वयम् अपसृतः/

६.४.९> इतो निष्कासितअपसृतस् तत्र स्थितः//(पृष्ठ ३३४)

६.४.१०> इतस् ततश् च स्वयम् एवअपसृत्यौपजपति चेद् उभयोर् गुणान् अपेक्षी चलबुद्धिर् असंधेयः//(पृष्ठ ३३४)

६.४.११> इतस् ततश् च निष्कासितअपसृतः स्थिरबुद्धिः/ स चेद् अन्यतो बहुलभमानया निष्कासितः स्यात् ससारो +अपि तया रोषितो ममअमर्षाद् बहु दास्यतिइति संधेयः//(पृष्ठ ३३५)

६.४.१२> निःसारतया कदर्यतया वा त्यक्तो न श्रेयान्//(पृष्ठ ३३५)

६.४.१३> इतः स्वयम् अपसृतस् ततो निष्कासितअपसृतो यद्य् अतिरिक्तम् आदौ च दद्यात् ततः प्रतिग्राह्यः//(पृष्ठ ३३५)

६.४.१४> इतः स्वयम् अपसृत्य तत्र स्थित उपजपंस् तर्कयितव्यः//(पृष्ठ ३३५)

६.४.१५> विशेषअर्थी चआगतस् ततो विशेषम् अपश्यन्न् आगन्तुकामो [मयि] मां जिज्ञासितुकामः स आगत्य सअनुरागत्वाद् दास्यति/ तस्यां वा दोषान् दृष्ट्वा मयि भूयिष्ठान् गुणान् अधुना पश्यति स गुणदर्शी भूयिष्ठं दास्यति//(पृष्ठ ३३५)

६.४.१६> बालो वा नएकत्रदृष्टिर् अतिसंधानप्रधानो वा हरिद्रारागो वा यत् किंचनकारी वा इत्य् अवेत्य संदध्यान् न वा//(पृष्ठ ३३६)

६.४.१७> इतो निष्कासितअपसृतस् ततः स्वयम् अपसृत उपजपंस् तर्कयितव्यः/ ६.४.१८> अनुरागाद् आगन्तुकामः स बहु दास्यति/ मम गुनैर् भावितो यो +अन्यस्यां न रमते//(पृष्ठ ३३६)

६.४.१९> पूर्वम् अयोगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितुकामो धनम् अभियोगाद् वा मयाअस्यअपहृतं तद्विश्वास्य प्रतीपम् आदातुकामो निर्वेष्टुकामो वा मां वर्तमानौद्भेदयित्वा त्यक्तुकाम इत्य् अकल्याणबुद्धिर् असंधेयः//(पृष्ठ ३३६)

६.४.२०> अन्यथाबुद्धिः कालेन लम्भयितव्यः//(पृष्ठ ३३७)

६.४.२१> इतो निष्कासितस् तत्र स्थित उपजपन्न् एतेन व्याख्यातः//(पृष्ठ ३३७)

६.४.२२> तेषु उपजपत्स्व् अन्यत्र स्थितः स्वयम् उपजपेत्//(पृष्ठ ३३७)

६.४.२३> व्यलीकअर्थं निष्कासितो मयासावन् यत्र गतो यत्नाद् आनेतव्यः/

६.४.२४> इतः प्रवृत्तसंभाषो वा ततो भेदम् अवाप्स्यति/

६.४.२५> *वर्तमानस्य *चेद् अर्थविघातं[अन्यत्र : तदर्थअभिघातं] करिष्यति/

६.४.२६> अर्थआगमकालो वाअस्य/ स्थानवृद्धिर् अस्य जाता/ लब्धम् अनेनअधिकरणम्/ दारैर् वियुक्तः/ पारतन्त्र्याद् व्यावृत्तः/ पित्रा भ्रात्रा वा विभक्तः/

६.४.२७> अनेन वा प्रतिबद्धम् अनेन संधिं कृत्वा नायकं धनिनम् अवाप्स्यामि/

६.४.२८> विमानितो वा भार्यया तम् एव तस्यां विक्रमयिष्यामि/

६.४.२९> अस्य वा मित्रं मद्द्वेषिणीं सपत्नीं कामयते तद् अमुना भेदयिष्यामि/

६.४.३०> चलचित्ततया वा लाघवम् एनम् आपादयिष्यामिइति//(पृष्ठ ३३८)

६.४.३१> तस्य पीठमर्दआदयो मातुर् दौःशील्येन नायिकायाः सत्य् अप्य् अनुरागे (पृष्ठ ३३८)विवशायाः पूर्वं निष्कासनं वर्णयेयुः/

६.४.३२> वर्तमानेन चअकामायाः संसर्गं विद्वेषं च/

६.४.३३> तस्याश् च सअभिज्ञानैः पूर्वअनुरागैर् एनं प्रत्यापयेयुः/

६.४.३४> अभिज्ञानं च तत्कृतौपकारसंबद्धं स्याद् इति विशीर्णप्रतिसंधानम्//(पृष्ठ ३३९)

६.४.३५> अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान्/ स हि विदितशीलो दृष्टरागश् च सूपचारो भवतिइत्य् आचार्याः/

६.४.३६> पूर्वसंसृष्टः सर्वतो निष्पीडितअर्थत्वान् नअत्यर्थम् अर्थदो दुःखं च पुनर्विश्वासयितुम्/ अपूर्वस् तु सुखेनअनुरज्यत इति वात्स्यायनः/

६.४.३७> तथाअपि पुरुषप्रकृतितो विशेषः//(पृष्ठ ३३९) भवन्ति चअत्र श्लोकाः---(पृष्ठ ३४०)

६.४.३८अख > अन्यां भेदयितुं गम्याद् अन्यतो गम्यम् एव वा/(पृष्ठ ३४०)

६.४.३८गघ> स्थितस्य चौपघाताअर्थं पुनः संधानम् इष्यते//(पृष्ठ ३४०)

६.४.३९कख> बिभेत्यन्यस्य संयोगाद् व्यलीकानि च नईक्षते/(पृष्ठ ३४०)

६.४.३९गघ> अतिसक्तः पुमान् यत्र भयाद् बहु ददाति च//(पृष्ठ ३४०)

६.४.४०कख> असक्तम् अभिनन्देत सक्तं परिभवेत् तथा/(पृष्ठ ३४०)

६.४.४०गघ> अन्यदूतअनुपाते च यः स्याद् अतिविशारदः//(पृष्ठ ३४०)

६.४.४१कख> तत्रौपयायिनं पूर्वं नारी कालेन योजयेत्/(पृष्ठ ३४०)

६.४.४१गघ> भवेच् चअच्छिन्नसंधाना न च सक्तं परित्यजेत्//(युग्मम्)(पृष्ठ ३४०)

६.४.४२कख> सक्तं तु वशिनं नारी संभाष्यअप्य् अन्यतो व्रजेत्/(पृष्ठ ३४०)

६.४.४२गघ> ततश् चअर्थम् उपादाय सक्तम् एवअनुरञ्जयेत्//(पृष्ठ ३४०)

६.४.४३कख> आयतिं प्रसमीक्ष्याआदौ लाभं प्रीतिं च पुष्कलाम्/(पृष्ठ ३४०)

६.४.४३गघ> सौहृदं प्रतिसंदध्याद् विशीर्णं स्त्री विचक्षणा//(पृष्ठ ३४०)



लाभविशेषाः

[सम्पाद्यताम्]

६.५.१> गम्यबाहुल्ये बहु प्रतिदिनं च लभमाना नएकं प्रतिगृह्णीयात्//(पृष्ठ ३४२)

६.५.२> देशं कालं स्थितिम् आत्मनो गुणान् सौभाग्यं चअन्याभ्यो न्यूनअतिरिक्ततां चअवेक्ष्य रजन्याम् अर्थं स्थापयेत्//(पृष्ठ ३४२)

६.५.३> गम्ये दूतांश् च प्रयोजयेत्/ तत्प्रतिबद्धांश् च स्वयं प्रहिणुयात्//(पृष्ठ ३४२)

६.५.४> द्विस् त्रिश् चतुर् इति लाभाअतिशयग्रहअर्थम् एकस्यअपि गच्छेत्/ परिग्रहं च चरेत्//(पृष्ठ ३४२)

६.५.५> गम्ययौगपद्ये तु लाभसाम्ये यद् द्रव्यअर्थिनी स्यात् तद् दायिनि विशेषः प्रत्यक्ष इत्य् आचार्याः//(पृष्ठ ३४३)

६.५.६> अप्रत्यादेयत्वात् सर्वकार्याणां तन्मूलत्वाद् धिरण्यद इति वात्स्यायनः//(पृष्ठ ३४३)

६.५.७> सुवर्णरजतताम्रकांस्यलोहभाण्डौपस्करआस्तरणप्रावरणवास् ओविशेषगन्धद्रव्यकटुकभाण्डघृततैलधान्यपशुजातीनां पूर्वपूर्वतो विशेषः/

६.५.८> यत् तत्र साम्याद् वा द्रव्यसाम्ये मित्रवाक्याद् अतिपातित्वाद् आयतितो गम्यगुणतः प्रीतितश् च विशेषः//(पृष्ठ ३४३)

६.५.९> रागित्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः//(पृष्ठ ३४४)

६.५.१०> शक्यो हि रागिणि त्याग आधातुम्//(पृष्ठ ३४४)

६.५.११> लुब्धो +अपि हि रक्तस् त्यजति न तु त्यागी निर्बन्धाद् रज्यत इति वात्स्यायनः//(पृष्ठ ३४४)

६.५.१२> तत्रअपि धनवदधनवतोर् धनवति विशेषः/ त्यागिप्रयोजनकर्त्रोः प्रयोजनकर्तरि विशेषः प्रत्यक्ष इत्य् आचार्याः//(पृष्ठ ३४४)

६.५.१३> प्रयोजनकर्ता सकृत् कृत्वा कृतिनम् आत्मानं मन्यते त्यागी पुनर् अतीतं नअपेक्षत इति वात्स्यायनः//(पृष्ठ ३४४)

६.५.१४> तत्रअप्य् आत्ययिकतो विशेषः/

६.५.१५> कृतज्ञत्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः//(पृष्ठ ३४४)

६.५.१६> चिरम् आराधितो +अपि त्यागी व्यलीकम् एकम् उपलभ्य प्रतिगणिकया वा मिथ्यादूषितः श्रमम् अतीतं नअपेक्षते/

६.५.१७> प्रायेण हि तेजस्विन ऋजवो +अनादृताश् च त्यागिनो भवन्ति/

६.५.१८> कृतज्ञस् तु पूर्वश्रमअपेक्षी न सहसा विरज्यते/ परीक्षितशीलत्वाच् च न मिथ्या दूष्यत इति वात्स्यायनः//(पृष्ठ ३४५)

६.५.१९> तत्रअप्य् आयतितो विशेषः//(पृष्ठ ३४५)

६.५.२०> मित्रवचनअर्थआगमयोर् अर्थआगमे विशेषः प्रत्यक्ष इत्य् आचार्याः//(पृष्ठ ३४५)

६.५.२१> सो +अपि ह्य् अर्थआगमो भविता/ मित्रं तु सकृद् वाक्ये प्रतिहते कलुषितं स्याद् इति वात्स्यायनः//(पृष्ठ ३४५)

६.५.२२> तत्रअप्य् अतिपाततो विशेषः//(पृष्ठ ३४६)

६.५.२३> तत्र कार्यसंदर्शनेन मित्रम् अनुनीय श्वोभूते वचनम् अस्त्व् इति ततो +अतिपातिनम् अर्थं प्रतिगृह्णीयात्//(पृष्ठ ३४६)

६.५.२४> अर्थआगमअनर्थप्रतीघातयोर् अर्थआगमे विशेषः प्रत्यक्ष इत्य् आचार्याः//(पृष्ठ ३४६)

६.५.२५> अर्थः परिमितअवच्छेदः, अनर्थः पुनः सकृत्प्रसृतो न ज्ञायते क्वअवतिष्ठत इति वात्स्यायनः//(पृष्ठ ३४६)

६.५.२६> तत्रअपि गुरुलाघवकृतो विशेषः//(पृष्ठ ३४६)

६.५.२७> एतेनअर्थसंशयाद् अनर्थप्रतीकारे विशेषो व्याख्यातः//(पृष्ठ ३४६)

६.५.२८> देवकुलतडागआरामाणाम् करणम्, स्थलीनाम् अग्निचैत्यानां निबन्धनम्, गोसहस्राणां पात्रअन्तरितं ब्राह्मणेभ्यो दानम्, देवतानां पूजाउपहारप्रवर्तनम्, तद्व्ययसहिष्णोर् वा धनस्य परिग्रहणम् इत्य् उत्तमगणिकानां लाभअतिशयः//(पृष्ठ ३४७)

६.५.२९> सार्वअङ्गिको +अलंकारयोगो गृहस्यौदारस्य करणम्/ महार्हैर् भाण्डैः परिचारकैश् च गृहपरिच्छदस्यौज्ज्वलतैति रूपआजीवानां लाभाअतिशयः//(पृष्ठ ३४७)

६.५.३०> नित्यं शुक्लम् आच्छादनम् अपक्षुधम् अन्नपानं नित्यं सौगन्धिकेन ताम्बूलेन च योगः सहिरण्यभागम् अलंकरणम् इति कुम्भदासीनां लाभअतिशयः//(पृष्ठ ३४८)

६.५.३१> एतेन प्रदेशेन मध्यमअधमानाम् अपि लाभअतिशयान् सर्वासाम् एव योजयेद् इत्य् आचार्याः//(पृष्ठ ३४८)

६.५.३२> देशकालविभवसामर्थ्यअनुरागलोकप्रवृत्तिवशाद् अनियतलाभआदियमवृत्तिर् इति वात्स्यायनः//(पृष्ठ ३४८)

६.५.३३> गम्यम् अन्यतो निवारयितुकामा सक्तम् अन्यस्याम् अपहर्तुकामा वा अन्यां वा लाभतो वियुयुक्षमाणअगम्यसंसर्गाद् आत्मनः स्थानं वृद्धिम् आयतिम् अभिगम्यतां च मन्यमाना अनर्थप्रतीकारे वा साहायम् एनं कारयितुकामा सक्तस्य वा अन्यस्य व्यलीकअर्थिनी पूर्वौपकारम् अकृतम् इव पश्यन्ती केवल प्रीत्यर्थिनी वा कल्याणबुद्धेर् अल्पम् अपि लाभं प्रतिगृह्णीयात्//(पृष्ठ ३४९)

६.५.३४> आयत्यर्थिनी तु तम् आश्रित्य चअनर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात्//(पृष्ठ ३४९)

६.५.३५> त्यक्ष्याम्य् एनम् अन्यतः प्रतिसंधास्यामि, गमिष्यति दारैर् योक्ष्यते नाशयिष्यत्य् अनर्थान्, अङ्कुशभूत उत्तरअध्यक्षो +अस्यआगमिष्यति स्वामी पिता वा, स्थानभ्रंशो वाअस्य भविष्यति चलचित्तश् चैति मन्यमाना तदात्वे तस्माल् लाभम् इच्छेत्//(पृष्ठ ३५०)

६.५.३६> प्रतिज्ञातम् ईश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं वा प्राप्स्यति वृत्तिकालो +अस्य वा आसन्नः वाहनम् अस्या गमिष्यति स्थलपत्त्रं वा सस्यम् अस्य पक्ष्यते कृतम् अस्मिन् न नश्यति नित्यम् अविसंवादको वाइत्य् आयत्याम् इच्छेत्/ परिग्रहकल्पं वाआचरेत्//(पृष्ठ ३५०) भवन्ति चअत्र श्लोकाः---(पृष्ठ ३५१)

६.५.३७कख> कृच्छ्रअधिगतवित्तांश् च राजवल्लभनिष्ठुरान्/(पृष्ठ ३५१)

६.५.३७गघ> आयात्यां च तदात्वे च दूराद् एव विवर्जयेत्//(पृष्ठ ३५१)

६.५.३८कख> अनर्थो वर्जने येषां गमने +अभ्युदयस् तथा/(पृष्ठ ३५१)

६.५.३८गघ> प्रयत्नेनअपि तान् गृह्य सअपदेशम् उपक्रमेत्//(पृष्ठ ३५१)

६.५.३९कख> प्रसन्ना ये प्रयच्छन्ति स्वल्पे +अप्य् अगणितं वसु/(पृष्ठ ३५१)

६.५.३९गघ> स्थूललक्षान् महोत्साहांस् तान् गच्छेत् स्वैर् अपि व्ययैः//(पृष्ठ ३५१)



अर्थानर्थनुबन्धसंशयविचारा वेश्याविशेषाश् च

[सम्पाद्यताम्]

६.६.१> अर्थान् आचर्यमाणान् अनर्था अप्य् अनूद्भवन्त्य् अनुबन्धाः संशयाश् च//(पृष्ठ ३५२)

६.६.२> ते बुद्धिदौर्बल्याद् अतिरागाद् अत्यभिमानाद् अतिदम्भाद् अत्यार्जवाद् अतिविश्वासाद् अतिक्रोधात् प्रमादात् साहसाद् दैवयोगाच् च स्युः//(पृष्ठ ३५२)

६.६.३> तेषां फलं कृतस्य व्ययस्य निष्फलत्वम् अनायतिरागम् इष्यतो +अर्थस्य निवर्तनम् आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर् गम्यता शरीरस्य (पृष्ठ ३५२)प्रघातः केशानां छेदनं पातनम् अङ्गवैकल्यापत्तिः/

६.६.४> तस्मात् तान् आदित एव परिजिहीर्षेद् अर्थभूयिष्ठांश् चौपेक्षेत//(पृष्ठ ३५३)

६.६.५> अर्थो धर्मः काम इत्य् अर्थत्रिवर्गः/

६.६.६> अनर्थो +अधर्मो द्वेष इत्य् अनर्थत्रिवर्गः/

६.६.७> तेष्व् आचर्यमाणेष्व् अन्यस्यअपि निष्पत्तिर् अनुबन्धः/

६.६.८> संदिग्धायां तु फलप्राप्तौ स्याद् वा न वाइति शुद्धसंशयः/

६.६.९> इदं वा स्याद् इदं वाइति सम्कीर्णः/

६.६.१०> एकस्मिन् क्रियमाणे कार्ये कार्यद्वयस्यौत्पत्तिर् उभयतो योगः/

६.६.११> समन्ताद् उत्पत्तिः समन्ततोयोग इति तान् उदाहरिष्यामः//(पृष्ठ ३५३)

६.६.१२> विचारितरूपो +अर्थत्रिवर्गः/ तद्विपरीत एवअनर्थत्रिवर्गः//(पृष्ठ ३५४)

६.६.१३> यस्यौत्तमस्यअभिगमने प्रत्यक्षतो +अर्थलाभो ग्रहणीयत्वम् आयतिर् आगमः प्रार्थनीयत्वं चअन्येषां स्यात् सो +अर्थो +अर्थअनुबन्धः//(पृष्ठ ३५४)

६.६.१४> लाभमात्रे कस्य चिद् अन्यस्य गमनं सो +अर्थो निरनुबन्धः//(पृष्ठ ३५४)

६.६.१५> अन्यअर्थपरिग्रहे सक्ताद् आयतिच्छेदनम् अर्थस्य निष्क्रमणं लोकविद्विष्टस्य वा नीचस्य गमनम् आयतिघ्नम् अर्थो +अनर्थअनुबन्धः//(पृष्ठ ३५४)

६.६.१६> (स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो वा लुब्धस्य गमनं निष्फलम् अपि व्यसनप्रतीकारअर्थं महतश् चअर्थघ्नस्य निमित्तस्य प्रशमनम् आयतिजननं वा सो +अनर्थो +अर्थअनुबन्धः//)(पृष्ठ ३५५)

६.६.१७> कदर्यस्य सुभगमानिनः कृतघ्नस्य वाअतिसंधानशीलस्य स्वैर् अपि व्ययैस् तथाआराधनम् अन्ते निष्फलं सो +अनर्थो निरनुबन्धः//(पृष्ठ ३५५)

६.६.१८> तस्यएव राजवल्लभस्य क्रौर्यप्रभावअधिकस्य तथाएवआराधनम् अन्ते निष्फलं निष्कासनं च दोषकरं सो +अनर्थो +अनर्थअनुबन्धः//(पृष्ठ ३५५)

६.६.१९> एवं धर्मकामयोर् अप्य् अनुबन्धान् योजयेत्//(पृष्ठ ३५५)

६.६.२०> परस्परेण च युक्त्या संकिरेद् इत्य् अनुबन्धाः//(पृष्ठ ३५६)

६.६.२१> परितोषितो +अपि दास्यति न वाइत्य् अर्थसंशयः/

६.६.२२> निष्पीडितअर्थम् अफलम् उत्सृजन्त्या अर्थम् अलभमानाया धर्मः स्यान् न वाइति धर्मसंशयः/

६.६.२३> अभिप्रेतम् उपलभ्य परिचारकम् अन्यं वा क्षुद्रं गत्वा कामः स्यान् न वाइति कामसंशयः/

६.६.२४> प्रभाववान् क्षुद्रो +अनभिमतो +अनर्थं करिष्यति न वाइत्य् अनर्थसंशयः/

६.६.२५> अत्यन्तनिष्फलः सक्तः परित्यक्तः पितृलोकं यायात् तत्रअधर्मः स्यान् न वाइत्य् अधर्मसंशयः/

६.६.२६> रागस्यअपि विवक्षायाम् अभिप्रेतम् अनुपलभ्य विरागः/ स्यान् न वाइति द्वेषसंशयः/ इति शुद्धसंशयाः//(पृष्ठ ३५६)

६.६.२७> अथ संकीर्णाः//(पृष्ठ ३५७)

६.६.२८> आगन्तोर् अविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर् वा समुपस्थितस्यआराधनम् अर्थो +अनर्थ इति संशयः/

६.६.२९> श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां दृष्ट्वा जातरागस्य मुमूर्षोर् मित्रवाक्याद् आनृशंस्याच् च गमनं धर्मो +अधर्म इति संशयः/

६.६.३०> लोकाद् एवआकृतप्रत्ययाद् अगुणो गुणवान् वाइत्य् अनवेक्ष्य गमनं कामो द्वेष इति संशयः/

६.६.३१> संकिरेच् च परस्परेणैति संकीर्णसंशयाः//(पृष्ठ ३५७)

६.६.३२> यत्र परस्यअभिगमने +अर्थः सक्ताच् च संघर्षतः स उभययो +अर्थः/

६.६.३३> यत्र स्वेन व्ययेन निष्फलम् अभिगमनं सक्ताच् चअमर्षिताद् वित्तप्रत्यादानं स उभयतो +अनर्थः/

६.६.३४> यत्रअभिगमने +अर्थो भविष्यति न वाइत्य् आशङ्का सक्तो +अपि संघर्षाद् दास्यति न वाइति स उभयतो +अर्थसंशयः/

६.६.३५> यत्रअभिगमने व्ययवति पूर्वो विरुद्धः क्रोधाद् अपकारं करिष्यति न वाइति सक्तो वामर्षितो दत्तं प्रत्यादास्यति न वाइति स उभयतो +अनर्थसंशयः/ इत्य् औद्दालकेर् उभयतोयोगाः//(पृष्ठ ३५८)

६.६.३६> बाभ्रवीयास् तु ---

६.६.३७> यत्रअभिगमने +अर्थो +अनभिगमने च सक्ताद् अर्थः स उभयतो +अर्थः/

६.६.३८> यत्रअभिगमने निष्फलो व्ययो +अनभिगमने च निष्प्रतीकारो +अनर्थः स उभयतो +अनर्थः/

६.६.३९> यत्रअभिगमने निर्व्ययो दास्यति न वाइति संशयो +अनभिगमने सक्तो दास्यति न वाइति स उभयतो +अर्थसंशयः/

६.६.४०> यत्रअभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वाइति संशयो +अनभिगमने च क्रोधाद् अनर्थं करिष्यति न वाइति स उभयतो +अनर्थसंशयः//(पृष्ठ ३५९)

६.६.४१> एतेषाम् एव व्यतिकरे +अन्यतो +अर्थो +अन्यतो +अनर्थः, अन्यतो +अर्थो +अन्यतो +अर्थसंशयः, अन्यतो +अर्थो +अन्यतो +अनर्थसंशय इति षट्संकीर्णयोगाः//(पृष्ठ ३६०)

६.६.४२> तेषु सहायैः सह विमृश्य यतो +अर्थभूयिष्ठो +अर्थसंशयो गुरुर् अनर्थप्रशमो वा ततः प्रवर्तेत//(पृष्ठ ३६०)

६.६.४३> एवं धर्मकामव् अप्य् अनयाएव युक्त्याउदाहरेत्/ संकिरेच् च परस्परेण व्यतिषञ्जयेच् चैत्य् उभयतोयोगाः//(पृष्ठ ३६०)

६.६.४४> संभूय च विटाः परिगृह्णन्त्य् एकाम् असौ गोष्ठीपरिग्रहः/

६.६.४५> सा तेषाम् इतस् ततः संसृज्यमाना प्रत्येकं संघर्षाद् अर्थं निर्वर्तयेत्/

६.६.४६> सुवसन्तकआदिषु च योगे यो मे इमम् अमुं च संपादयिष्यति तस्यआद्य गमिष्यति मे दुहिताइति मात्रा वाचयेत्/

६.६.४७> तेषां च संघर्षजे +अभिगमने कार्याणि लक्षयेत्/

६.६.४८> एकतो +अर्थः सर्वतो +अर्थः एकतो +अनर्थः सर्वतो +अनर्थः अर्धतो +अर्थः सर्वतो +अर्थः अर्धतो +अनर्थः सर्वतो +अनर्थः/ इति समन्ततो योगाः//(पृष्ठ ३६२)

६.६.४९> अर्थसंशयम् अनर्थसंशयं च पूर्ववद् योजयेत्/ संकिरेच् च तथा धर्मकामाव् अपि/ इत्य् *अनुबन्धअर्थअनर्थ[अन्यत्र : र्थअनर्थअनुबन्ध]संशयविचाराः//(पृष्ठ ३६३)

६.६.५०> कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका प्रकाशविनष्टा रूपआजीवा गणिका चैति वेश्याविशेषाः//(पृष्ठ ३६३)

६.६.५१> सर्वासां चअनुरूपेण गम्याः सहायास् तद् उपरञ्जनम् अर्थआगमौपाया निष्कासनं पुनः सधानं लाभविशेषअनुबन्धा अर्थअनर्थअनुबन्धसंशयविचाराश् चैति वैशिकम्//(पृष्ठ ३६३) भवतश् चअत्र श्लोकौ ---(पृष्ठ ३६४)

६.६.५२कख> रत्यर्थाः पुरुषा येन रत्यर्थाश् चएव योषितः//(पृष्ठ ३६४)

६.६.५२गघ> शास्त्रस्यअर्थप्रधानत्वात् तेन योगो +अत्र योषिताम्//(पृष्ठ ३६४)

६.६.५३कख> सन्ति रागपरा नार्यः सन्ति चअर्थपरा अपि/(पृष्ठ ३६४)

६.६.५३गघ> प्राक् तत्र वर्णितो रागो वेश्यायोगाश् च वैशिके//(पृष्ठ ३६४)



औपनिषदिकं

[सम्पाद्यताम्]

सुभगंकरणं वशीकरणं वृष्याश् च योगाः

[सम्पाद्यताम्]

७.१.१> व्याख्यातं च कामसूत्रं/

७.१.२> तत्रौक्तैस् तु विधिभिर् अभिप्रेतम् अर्थम् अनधिगच्छन् *औपनिषदिकम्[अन्यत्र : ुपनिषदिकम्] आचरेत्/

७.१.३> रूपं गुणो वयस्त्याग इति सुभगंकरणम्/

७.१.४> तगरकुष्ठतालीसपत्रकअनुलेपनं सुभगंकरणम्/

७.१.५> एतैर् एव सुपिष्टैर् वर्तिम् आलिप्यअक्षतैलेन नरकपाले साधितम् अञ्जनं च/

७.१.६> पुनर्नवासहदेवीसारिवाकुरण्टौत्पलपत्रैश् च सिद्धं तैलम् अभ्यञ्जनम्/

७.१.७> तद् युक्ता एव स्रजश् च/

७.१.८> पद्मौत्पलनागकेसराणां शोषितानां चूर्णं मधुघृताभ्याम् अवलिह्य सुभगो भवति/

७.१.९> तान्य् एव तगरतालीसतमालपत्रयुक्तान्य् *अनुलेपनम्[अन्यत्र : नुलिप्य]/

७.१.१०> मयूरस्यअक्षितरक्षोर् वा सुवर्णेन*आलिप्य[अन्यत्र : वलिप्य] दक्षिणहस्तेन धारयेद् इति सुभगंकरणम्/

७.१.११> तथा *बादरं मणिं[अन्यत्र : बादरमणिं] शङ्खमणिं च तेषां [अन्यत्र प्रविशयतु , तथाएव तेषु]चआथर्वणान् योगान् गमयेत्/

७.१.१२> विद्यातन्त्राच् च विद्यायोगात् प्राप्तयौवनां परिचारिकां स्वामी संवत्सरमात्रम् अन्यतो *धारयेत्[अन्यत्र : वारयेत्]/ ततो *धारितां[अन्यत्र : वारितां] बालां *मत्वा[अन्यत्र : वामत्वाल्] लालसीभूतेषु गम्येषु यो +अ*अस्याः[अन्यत्र : स्यै] *संह(घ)र्षेण[अन्यत्र : संघर्षेण] बहु दद्यात् तस्मै विसृजेद् इति सौभाग्यवर्धनम्/

७.१.१३> गणिका प्राप्तयौवनां स्वां दुहितरं तस्या विज्ञानशीलरूपअनुरूप्येण तान् अभिनिमन्त्र्य सारेण यो *+अस्यै[अन्यत्र : +अस्य] इदम् इदं च दद्यात् स पाणिं गृह्णीयाद् इति *संसाध्य[अन्यत्र : संभाष्य] रक्षयेद् इति/

७.१.१४> सा च मातुरविदिता नाम नागरिकपुत्रैर् धनिभिर् अत्यर्थं प्रीयेत/

७.१.१५> तेषां कलाग्रहणे गन्धर्वशालायां भिक्षुकीभवने तत्र तत्र च संदर्शनयोगाः/

७.१.१६> तेषां यथाउक्तदायिनां माता पाणिं ग्राहयेत्/

७.१.१७> *तत्[अन्यत्र : ोम्.] तावद् अर्थम् अलभमाना तु स्वेनअप्य् एकदेशेन *दुहित्रे[अन्यत्र : दुहित्र] एतद् दत्तम् अनेनैति ख्यापयेत्/ [अन्यत्र : िन्स्.७.१.१८> ऊढाया वा कन्याभावं विमोचयेत्//]

७.१.१९> प्रच्छन्नं वा तैः संयोज्य स्वयम् अजानती भूत्वा ततो विदितेष्व् *एवं[अन्यत्र : ेतं] धर्मस्थेषु निवेदयेत्/

७.१.२०> सख्याएव तु दास्या वा मोचितकन्या*भावाम् उपगृहीत[अन्यत्र : भावां सुगृहात]कामसूत्राम् आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते(पृष्ठ ३६५)वयसि सौभाग्ये च दुहितरम् अवसृजन्ति गणिका इति *प्राप्य[अन्यत्र : प्राच्य]उपचाराः/

७.१.२१> पाणिग्रहश् च संवत्सरम् अव्यभिचार्यस् ततो यथा कामिनी स्यात्/

७.१.२२> ऊर्ध्वम् अपि संवत्सरात् परिणीतेन निमन्त्र्यमाणा लाभम् अप्य् उत्सृज्य तां रात्रिं तस्यआगच्छेद् इति वेश्यायाः *पाणि[अन्यत्र : पाण]ग्रहणविधिः सौभाग्यवर्धनं च/

७.१.२३> एतेन रङ्गौपजीविनां कन्या व्याख्याताः/

७.१.२४> तस्मै तु तां दद्युर् य एषां *तूर्यविशिष्टम्[अन्यत्र : तूर्ये विशिष्टम्] उपकुर्यात्/ इति सुभगंकरणम्/ (एकोनषष्टितमं प्रकरणम्//)(पृष्ठ ३६६)

७.१.२५> धत्तूरकमरिचपिप्पलीचूर्णैर् मधुमिश्रैर् लिप्तलिङ्गस्य *प्रयोगो[अन्यत्र : संप्रयोगो] वशीकरणम्/

७.१.२६> वातोद्भान्तपत्रं मृतकनिर्माल्यं मयूरअस्थिचूर्णअवचूर्णं वशीकरणम्/

७.१.२७> स्वयंमृताया मण्डलकारिकायाश् चूर्णं मधुसंयुक्तं सहआमलकैः स्नानं वशीकरणम्/

७.१.२८> वज्रस्नुहीगण्डकानि खण्डशः कृतानि मनःशिलागन्धपाषाणचूर्णेनअभ्यज्य सप्तकृत्वः शोषितानि चूर्णयित्वा मधुना लिप्तलिङ्गस्य संप्रयोगो वशीकरणम्/

७.१.२९> एतेनएव रात्रौ धूमं कृत्वा तद्धूमतिरस्कृतं सौवर्णं चन्द्रमसं दर्शयति/

७.१.३०> एतैर् एव चूर्णितैर् वानरपुरीषमिश्रितैर् यां कन्याम् अवकिरेत् सअन्यस्मै न दीयते/

७.१.३१> वचागण्डकानि सहकारतैललिप्तानि शिंशपावृक्षस्कन्धम् उत्कीर्य [अन्यत्र प्रविशयतु , षण्मासं] निदध्यात्/ [अन्यत्र प्रविशयतु , ततः] षड्भिर् मासैर् अपनीतानि देवकान्तम् अनुलेपनं वशीकरणं चैत्य् आचक्षते/

७.१.३२> तथा खदिरसारजानि शकलानि तनूनि यं वृक्षम् उत्कीर्य [अन्यत्र प्रविशयतु , षण्मासं] निदध्यात् तत्पुष्पगन्धानि भवन्ति/ गन्धर्वकान्तम् अनुलेपनं वशीकरणं चैत्य् आचक्षते

७.१.३३> प्रियंगवस् तगरमिश्राः सहकारतैलदिग्धा *नागकेसर[अन्यत्र : नाग]वृक्षम् उत्कीर्य *षण्मास[अन्यत्र : षण्मासं]निहिता नागकान्तम् अनुलेपनं वशीकरणम् इत्य् आचक्षते/

७.१.३४> *उष्ट्रस्य[अन्यत्र : ुष्ट्र]अस्थि भृङ्गराजरसेन भावितं दग्धम् *अञ्जनम् उष्ट्रअस्थ्य् *अञ्जनिकायां[अन्यत्र : ञ्जनं नलिकायां] निहितम् उष्ट्रअस्थिशलाकयाएव स्रोतो +अञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं चैत्य् आचक्षते/

७.१.३५> एतेन श्येनभासमयूरअस्थिमयान्य् अञ्जनानि व्याखातानि/ (इति वशीकरणम्/ षष्टितमं प्रकरणम्//)(पृष्ठ ३६६)

७.१.३६> उच्चटाकन्दश् *च[अन्यत्र : चव्या] यष्टीमधुकं च सशर्करेण पयसा पीत्वा *वृषो[अन्यत्र : वृषी] भवति/

७.१.३७> मेष*बस्त[अन्यत्र : वस्त]मुष्कसिद्धस्य पयसः सशर्करस्य पानं वृषत्वयोगः/

७.१.३८> तथा विदार्याः क्षीरिकायाः *स्वयंगुप्तायाश्[अन्यत्र : स्वयगुप्तायाश्] च क्षीरेण पानम्/

७.१.३९> तथा *पियाल[अन्यत्र : प्रियाल]बीजानां मोरटा*क्षीर[छ् ओमित्स्]विदार्योश् च क्षीरेणएव/

७.१.४०> शृङ्गाटककसेरु*मधूकानि[अन्यत्र : कामधूलिकानि] क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दअग्निनाउत्करिकां पक्त्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छतिइत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४१> माषकमलिनीं पयसा धौताम् उष्णेन घृतेन मृदूकृत्यौद्धृतां वृद्धवत्सायाः गोः पयः सिद्धं पायसं मधुसर्पिर्भ्याम् अशित्वा+अनन्ताः स्त्रियो गच्छतिइत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/ ७.१.४२> विदारी स्वयंगुप्ता शर्करामधुसर्पिर्भ्यां गोधूमचूर्णेन पोलिकां कृत्वा यावद् अर्थं भक्षितवान् अनन्ताः स्त्रियो गच्छतिइत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४३> चटकअण्डरसभावितैस् तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावद् अर्थम् इति समानं पूर्वेण/

७.१.४४> चटकअण्डरसभावितान् अपगतत्वचस् तिलान् शृङ्गाटककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं *पायसं[अन्यत्र : संयावं] यावद् अर्थं *प्राशितम्[अन्यत्र : प्राशितवान्] इति समानं पूर्वेण/

७.१.४५> सर्पिषो मधुनः शर्कराया मधुकस्य च द्वे द्वे पले मधुरसायाः कर्षः प्रस्थं पयस इति षडङ्गम् अमृतं मेध्यं वृष्यम् आयुष्यं युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४६> शतावरीश्वदंष्ट्रागुडकषाये पिप्पलीमधुकल्के गोक्षीरच्छागघृते पक्वे तस्य पुष्प[अन्यत्र : पुष्य]आरम्भेणअन्वहं प्राशनं मेध्यं वृष्यम् आयुष्यं युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४७> शतावर्याः श्वदंष्ट्रायाः श्रीपर्णीफलानां च क्षुण्णानां चतुर्*गुणे जले[अन्यत्र : गुणितजलेन] पाक आ प्रकृत्यवस्थानात्/ तस्य *पुष्प[अन्यत्र : पुष्य]आरम्भेण प्रातः प्राशनं मेध्यं वृष्यम् आयुष्यं युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/

७.१.४८> श्वदंष्ट्राचूर्णसमन्वितं तत्समम् एव यवचूर्णं प्रातर् उत्थाय द्वि*पलिकम्[अन्यत्र : पलकम्] अनुदिनं प्राश्नीयान् मेध्यं वृष्यम् *आयुष्यं[छ् ओमित्स्] युक्तरसम् इत्य् *आचक्षते[अन्यत्र : आचार्या: प्रचक्षते]/ (इति वृष्यायोगाः/ एकषष्टितमं प्रकरणम्//)(पृष्ठ ३६७)(पृष्ठ ३६७)

७.१.४९क > आयुर्वेदाच् च वेदाच् च विद्यातन्त्रेभ्य एव च/(पृष्ठ ३६७)

७.१.४९ख > आप्तेभ्यश् चअवबोद्धव्या योगा ये प्रीतिकारकाः//(पृष्ठ ३६७)

७.१.५०अ> न प्रयुञ्जीत संदिग्धान् न शरीरअत्ययअवहान्/(पृष्ठ ३६८)

७.१.५०ख > न जीवघातसंबद्धान् नअशुचिद्रव्यसंयुतान्//(पृष्ठ ३६८)

७.१.५१क > *तथा युक्तान्[अन्यत्र : तपोयुक्तः] प्रयुञ्जीत शिष्टैर् *अपि न निन्दितान्[अन्यत्र : नुगतान् विधीन्]/(पृष्ठ ३६८)

७.१.५१ख > ब्राह्मणैश् च सुहृद्भिश् च मङ्गलैर् अभिनन्दितान्//(पृष्ठ ३६८)



नष्टरागप्रत्यानयनं वृद्धिविधयश् चित्राश् च योगा

[सम्पाद्यताम्]

७.२.१> चन्डवेगां रञ्जयितुम् अशक्नुवन् योगान् आचरेत्/

७.२.२> रतस्यौपक्रमे संबाधस्य करेणौपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनम् इति रागप्रत्यानयनम्/

७.२.३> औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य श्रान्तस्य च रागप्रत्यानयनम्/

७.२.४> अपद्रव्याणि वा योजयेत्/

७.२.५> तानि सुवर्णरजतताम्रकालआयसगजदन्तगवलद्रव्यमयाणि

७.२.६> त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि *वृष्याणि कर्मसहिष्णूनि[अन्यत्र : कर्माणि च धृष्णूनि] भवन्तिइति बाभ्रवीया योगाः/

७.२.७> दारुमयानि साम्यतश् चैति वात्स्यायनः/

७.२.८> लिङ्गप्रमाणअन्तरं बिन्दुभिः कर्कशपर्यन्तं *बहुलैः[अन्यत्र : बहुलं] स्यात्/

७.२.९> एत एव द्वे संघाटी/

७.२.१०> त्रिप्रभृति यावत् प्रमाणं वा चूडकः/

७.२.११> एकाम् एव लतिकां प्रमाणवशेन वेष्टयेद् इत्य् एकचूडकः/

७.२.१२> उभयतोमुखच्छिद्रः स्थूलकर्कश*पृषत[अन्यत्र : वृषण]गुटिकायुक्तः प्रमाण*योगी[अन्यत्र : वशयोगी] कठ्यां बद्धः कञ्चुको जालकं वा/

७.२.१३> तदभावे +अलाबूनालकं वेणुश् च तैलकषायैः सुभावितः *सूत्रजङ्घा[अन्यत्र : सूत्रेणकट्याम्]बद्धः श्लक्ष्णा काष्ठमालाल् वा ग्रथिता बहुभिर् आमलकअस्थिभिः संयुक्तैत्य् अपविद्धयोगाः/

७.२.१४> न त्व् *अपविद्धस्य[अन्यत्र : विद्धस्य] कस्य चिद् व्यवहृतिर् अस्तिइति

७.२.१५> दाक्षिणात्यानां लिङ्गस्य कर्णयोर् इव व्यधनं बालस्य/

७.२.१६> युवा तु शस्त्रेण च्छेदयित्वा यावद् रुधिरस्यआगमनं तावद् उदके तिष्ठेत्/

७.२.१७> वैशद्यअर्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः/

७.२.१८> ततः कषायैर् एकदिनअन्तरितं शोधनम्/

७.२.१९> वेतस(पृष्ठ ३६८)कुटजशङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर् बन्धनम्/

७.२.२०> यष्टीमधुकेन मधुयुक्तेन शोधनम्/

७.२.२१> ततः *सीस[अन्यत्र : सीसक]पत्रकर्णिकया वर्धयेत्/ ७.२.२२> म्रक्षयेद् भल्लातकतैलेनैति व्यधनयोगाः/

७.२.२३> तस्मिन्न् अनेकआकृतिविकल्पान्य् अपद्रव्याणि योजयेत्/

७.२.२४> वृत्तम् एकतो वृत्तम् उदूखलकं कुसुमकं कण्टकितं कङ्कअस्थिगज*प्रहारिकम्[अन्यत्र : करकम्] अष्ट*मण्डलिकं[अन्यत्र : मण्डलकं] भ्रमरकं शृङ्गाटकम् अन्यानि वाउपायतः कर्मतश् च बहुकर्मसहता चएषां मृदुकर्कशता यथा सात्म्यम् इति नष्टरागप्रत्यानयनम्/ (*द्वाषष्टितमं[अन्यत्र : द्विषष्टितमं] प्रकरणम्//)(पृष्ठ ३६९)

७.२.२५> एवं वृक्षजानां जन्तूनं शूकैर् *उपलिप्तं[अन्यत्र : ुपहितं] लिङ्गं दशरात्रं तैलेन मृदितं पुनः *पुनर् उपलिप्तं[अन्यत्र : ुपतृंहितं] पुनः प्रमृदितम् इति जातशोफं खट्वायाम् अधोमुखस् तद् अन्तरे लम्बयेत्/

७.२.२६> *ततः[अन्यत्र : तत्र] शीतैः कषायैः कृतवेदनानिग्रहं सौपक्रमेण निष्पादयेत्/

७.२.२७> स यावज् जीवं शूकजो नाम शोफो विटानाम्/

७.२.२८> अश्वगन्धाशबरकन्दजलशूकबृहतीफलमाहिषनवनीतहस्तिकर्ण् अवज्रवल्लीरसैर् एकैकेन परिमर्दनं मासिकं वर्धनम्/

७.२.२९> एतैर् एव कषायैः पक्वेन तैलेन परिमर्दनं षण्मास्यम्/

७.२.३०> दाडिम*त्रपुस[अन्यत्र : त्रपुष]बीजानि *बालुकं[अन्यत्र : बालुका] बृहतीफलरसश् चैति मृद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा/

७.२.३१> तास् तांश् च योगान् आप्तेभ्यो बुध्येतैति वर्धनयोगाः/ (त्रिषष्टितमं प्रकरणम्//)(पृष्ठ ३६९)

७.२.३२> [अन्यत्र : थ]स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरीषलाङ्गलिकामूलमिश्रैर्याम् अवकिरेत् सा नअन्यं कामयेत/

७.२.३३> तथा सोमलता*अवल्गुज[अन्यत्र : वल्गुजा]भृङ्गलोहौपजिह्विकाचूर्णैर् व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन लिप्तसंबाधां गच्छतो रागो नश्यति/

७.२.३४> गोपालिकाबहुपादिकाजिह्विकाचूर्णैर् माहिषतक्रयुक्तैः *स्नायायां[अन्यत्र : स्नातां] गच्छतो रागो नश्यति/

७.२.३५> नीपआम्रातकजम्बूकुसुमयुक्तम् अनुलेपनं दौर्भाग्यकरं स्रजश् च/

७.२.३६> कोकिलाक्ष*फल[छ् ओमित्स्]प्रलेपो हस्तिन्याः संहतम् एक*रात्रं[अन्यत्र : रात्रे] करोति/

७.२.३७> पद्मौत्पल*कन्द[अन्यत्र : कदम्ब]सर्जकसुगन्धचूर्णानि(पृष्ठ ३७०) मधुना पिष्टानि लेपो मृग्या विशालीकरणम्/

७.२.३८> स्नुहीसोमअर्क*क्षीरैर्[अन्यत्र : क्षारैर्] अवल्गुजाफलैर् भावितान्य् आमलकानि केशानां श्वेतीकरणम्/

७.२.३९> मदयन्तिकाकुटजकअञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः *स्नानां[अन्यत्र : स्नानं] *केश[अन्यत्र : केशाणां]प्रत्यानयनम्/

७.२.४०> एतैर् एव सुपक्वेन तैलेनअभ्यङ्गात् कृष्णी*करणं[अन्यत्र : करणात्] क्रमेणअस्य प्रत्यानयनम्/

७.२.४१> श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनअलक्तकेन रक्तो +अधरः श्वेतो भवति/

७.२.४२> मदयन्तिकाआदीन्य् एव प्रत्यानयनम्/

७.२.४३> बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्रकन्दकैर् उपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति/

७.२.४४> धत्तूरफलयुक्तो +अभ्यवहार उन्माद*करः[अन्यत्र : कः]/

७.२.४५> *गुडों[अन्यत्र : गुडो] जीर्णितश् च प्रत्यानयनम्/

७.२.४६> हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद् द्रव्यं स्पृशति तन् न दृश्यते/

७.२.४७> अङ्गारतृणभस्मना तैलेन विमिश्रम् उदकं क्षीरवर्णं भवति/

७.२.४८> *हरीतक्य्[अन्यत्र : हरीतक]आम्रातकयोः श्रवणप्रियंगुकाभिश् च पिष्टाभिर् लिप्तानि लोहभाण्डानि ताम्रीभवन्ति/

७.२.४९> श्रवणप्रियंगुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद् दृश्यन्ते/

७.२.५०> श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यम् आयुष्यम्/

७.२.५१> ब्राह्मणानां प्रशस्तान् आमाशिषः/ (इति चित्रा योगाः/ चतुःषष्टितमं प्रकरणम्//)(पृष्ठ ३७०)

७.२.५२क > पूर्वशास्त्राणि संदृश्य प्रयोगान् *उपसृत्य[अन्यत्र : न्सृत्य] च/(पृष्ठ ३७०)

७.२.५२ख > कामसूत्रम् इदं यत्नात् संक्षेपेण निर्वेशितम्[निवेदितम्]//(पृष्ठ ३७०)

७.२.५३क > धर्मम् अर्थं च कामं च प्रत्ययं लोकम् एव च/(पृष्ठ ३७०)

७.२.५३ख > पश्यत्य् एतस्य तत्त्वज्ञो न च रागात् प्रवर्तते//(पृष्ठ ३७०)

७.२.५४क > अधिकारवशाद् उक्ता ये चित्रा रागवर्धनाः/(पृष्ठ ३७०)

७.२.५४ख > तदनन्तरम् अत्रएव ते यत्नाद् विनिवारिताः//(पृष्ठ ३७०)

७.२.५५क > न शास्त्रम् अस्तिइत्य् एतेन प्रयोगो हि समीक्ष्यते/(पृष्ठ ३७०)

७.२.५५ख > शास्त्रअर्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एकदेशिकान्//(पृष्ठ ३७०)

७.२.५६क > बाभ्रवीयांश् च सूत्रअर्थान् *आगमं सुविमृश्य[अन्यत्र : ागमय्य विमृश्य] च/(पृष्ठ ३७१)

७.२.५६ख > वात्स्यायनश् चकारैदं कामसूत्रं यथाविधि//(पृष्ठ ३७१)

७.२.५७क > तद् एतद् ब्रमचर्येण परेण च समाधिना/(पृष्ठ ३७१)

७.२.५७ख > विहितं *लोकयात्रायै[अन्यत्र : लोकयात्राअर्थं] न रागार्थो +अस्य संविधिः//(पृष्ठ ३७१)

७.२.५८क > रक्षन्धर्मअर्थकामानां स्थितिं स्वां लोकवर्तिनीम्/(पृष्ठ ३७१)

७.२.५८ख > अस्य शास्त्रस्य तत्त्वज्ञो भवत्य् एव जितेन्द्रियः//(पृष्ठ ३७१)

७.२.५९क > तद् एतत् कुशलो विद्वान् धर्मअथाव् अवलोकयन्/(पृष्ठ ३७१)

७.२.५९ख > नअतिरागआत्मकः कामी प्रयुञ्जानः प्रसिध्यति//(पृष्ठ ३७१)



Vatsyayana, Kamasutram

digitalized by Mizue Sugita

September 1, 1998

based on the edition of

Kamasutram with commentary of Yasodhara,

dvitiyam samskaranam, Nirnayasagarayantralaya, 1900


with reference to

Kamasutram edited by Sridevdutta Sastri,

Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049


(Page numbers at the end of lines according to Nirnayasagarayantralaya text)

(Chapter and verse numbers at head of lines according to Chaukhambha Sanskrit Sansthan text)


[अन्यत्र :] Chaukahambha's variants


सन्धि

For the convenience of word search, internal and external

vowel Sandhis are decomposed by ^.

eg. vizeSa^ukti < vizeSokti

ca^iti < ceti

horA^anyo < horAnyo

ko +api < ko'pi

Consonantal sandhis are retained.


समास

Members of compound words are sometimes separated by ^, but not consistent.


अन्य

Variants for the part beginning with * are supplied in [ ] .


उपरोक्त सामग्री

  • यहाँ से रोमन यूनिकोड में ली गयी
    और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (09-02-2008)


Original and translations
"https://sa.wikibooks.org/w/index.php?title=कामसूत्र&oldid=6535" इत्यस्माद् प्रतिप्राप्तम्