कुल्याम्भोभिः …..चरन्ति॥१.१५॥
कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः।
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन।
एते चार्वागुपवनभुवि छिन्नदर्भाङ्कुरायाम्।
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति॥१.१५॥
पदच्छेदः-
कुल्याम्भोभिः पवनचपलैः शाखिनः धौतमूलाः।
भिन्नः रागः किसलयरुचाम् आज्यधूमोद्गमेन।
एते च अर्वाग् उपवनभुवि छिन्नदर्भाङ्कुरायाम्।
नष्टाशङ्का हरिणशिशवः मन्दमन्दं चरन्ति॥१.१५॥
अन्वयः-
पवनचपलैः कुल्याम्भोभिः शाखिनः धौतमूलाः सन्ति।आज्यधूमोद्गमेन किसलयरुचां रागः भिन्नः।एते च अर्वाग् छिन्नदर्भाङ्कुरायाम् उपवनभुवि नष्टाशङ्काः हरिणशिशवः मन्दमन्दं चरन्ति॥१.१५॥
सन्दर्भः-
आश्रमदर्शनेन प्रसन्नः दुष्यन्तः आश्रमं वर्णयति।
सरलार्थः-
वातेन जलप्रपायाः जलं प्रवहितम्।तेन वृक्षाणां मूलानि धौतानि।आहुतस्य घृतस्य धूमेन नवपल्लवानां शोभा सम्मिश्रिता।कृत्रिमे वने दर्भाङ्कुराः छिन्नाः।तत्र हरिणस्य शावकाः मन्दं मन्दं चरन्ति, यतो हि तेषां मनसि आशङ्का न विद्यते।
वृत्तम् –
मन्दाक्रान्ता
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले मन्दाक्रान्ता-वृत्तनिबद्धानि पद्यानि नीवाराः..... -रेखाङ्किताः ॥१.१४॥ शान्तम् इदम्..... भवन्ति सर्वत्र ॥१.१६ ॥