शान्तम् इदम्..... भवन्ति सर्वत्र ॥१.१६ ॥

विकिपुस्तकानि तः

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥१.१६ ॥

पदच्छेदः-
शान्तम् इदम् आश्रमपदं स्फुरति च बाहुः कुतः फलम् इह अस्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥१.१६ ॥

अन्वयः-
इदम् आश्रमपदं शान्तम्। बाहुः च स्फुरति । इह अस्य फलं कुतः? अथवा भवितव्यानां द्वाराणि सर्वत्र भवन्ति ॥१.१६ ॥

सन्दर्भः-
कण्वाश्रमं प्रवेष्टुकामः दुष्यन्तः आत्मगतमेवं वदति।

सरलार्थः-
अयम् आश्रमः शान्तः।मम बाहुः किमर्थं स्फुरति?एतस्य स्फुरणस्य फलम् (स्त्रीलाभः)अत्र कथं वा भविष्यति?अथवा यद् भवितव्यं, तस्य उपायाः सर्वत्र सन्ति।॥१.१६

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि     अभिज्ञानशाकुन्तले आर्यावृत्तनिबद्धानि पद्यानि
कुल्याम्भोभिः …..चरन्ति॥१.१५॥       शुध्दान्तदुर्लभम्..... वनलताभिः ॥१.१७॥