कृष्णसारे …..पिनाकिनम् ॥१.०६॥

विकिपुस्तकानि तः

कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके । मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥१.०६॥

पदच्छेदः-
कृष्णसारे ददत्-चक्षुः त्वयि च अधिज्यकार्मुके ।मृगानुसारिणं साक्षात् पश्यामि इव पिनाकिनम् ॥१.०६॥

अन्वयः-
कृष्णसारे अधिज्यकार्मुके त्वयि च ददत्-चक्षुः (अहं) (त्वां) साक्षात् मृगानुसारिणं पिनाकिनम् इव पश्यामि ॥१.०६॥

सन्दर्भः-
दुष्यन्तस्य सारथिः मृगयारतं दुष्यन्तं स्तौति।

सरलार्थः-
हे राजन्, अहं मृगं पश्यामि, सज्जीकृतधनुं त्वां च पश्यामि। मृगस्य अनुसरणं कुर्वन् भवान् साक्षात् शिवः अस्ति इति भाति।॥१.०६॥

वृत्तम् – अनुष्टुप्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि    अभिज्ञानशाकुन्तले अनुष्टुब्वृत्तनिबद्धानि पद्यानि
तव अस्मि .....अतिरंहसा ॥१.०५॥   ग्रीवाभङ्ग-अभिरामं..... उर्व्यां प्रयाति ॥१.०७ ॥