ग्रीवाभङ्ग-अभिरामं..... उर्व्यां प्रयाति ॥१.०७ ॥

विकिपुस्तकानि तः

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥१.०७ ॥

पदच्छेदः-
ग्रीवाभङ्ग-अभिरामं मुहुः अनुपतति स्यन्दने बद्धदृष्टिः
पश्च-अर्धेन प्रविष्टः शरपतनभयात् भूयसा पूर्वकायम् ।
दर्भैः अर्ध-अवलीढैः श्रम-विवृत-मुख-भ्रंशिभिः कीर्णवर्त्मा
पश्य उदग्रप्लुतत्वात् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥१.०७ ॥

अन्वयः-
(सूत) पश्य। मुहुः अनुपतति स्यन्दने ग्रीवाभङ्ग-अभिरामं बद्धदृष्टिः,शरपतनभयात् पश्च-अर्धेन भूयसा पूर्वकायम् प्रविष्टः,श्रम-विवृत-मुख-भ्रंशिभिः अर्ध-अवलीढैः दर्भैः कीर्णवर्त्मा (अयं मृगः)उदग्र-प्लुतत्वात् वियति बहुतरं उर्व्यां (तु) स्तोकं प्रयाति ॥१.०७ ॥

सन्दर्भः-
मृग्यमाणस्य हरिणस्य धावनं दुष्यन्तः वर्णयति।

सरलार्थः-
हे सूत, पश्य। पृष्ठतः आगच्छति रथे अस्य मृगस्य दृष्टिः लग्ना अस्ति। तदर्थं यदा यदा सः मन्यां परिवर्त्य पश्यति तदा सुन्दरः दृश्यते।शरपतनात् अयं भीतः।अतः देहस्य पश्चिमार्धं यावच्छक्यं सः पूर्वार्धे प्रवेशयति।श्रमेण अस्य मुखं विवृतम्।तस्मात् विवृताद् मुखात् अर्धं चर्वितं तृणं मार्गे पतति।तैः अर्धचर्वितैः दर्भैः अयं मार्गः व्याप्तः।अयं वारंवारं गगने उन्नतम् उत्प्लवते।तेन अयं गगने अधिकं पृथिव्याम् अल्पं गच्छति।१.०७

वृत्तम् – स्रग्धरा

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि      अभिज्ञानशाकुन्तले स्रग्धरावृत्तनिबद्धानि पद्यानि
कृष्णसारे …..पिनाकिनम् ॥१.०६॥       मुक्तेषु..... इव रथ्याः ॥१.०८॥