च.वि.१.०१-०२

विकिपुस्तकानि तः

अथातो रसविमानं व्याख्यास्यामः ॥च.वि.१.१॥
इति ह स्माह भगवानात्रेयः॥ च.वि.१.२॥

पदच्छेदः-
अथ अतः रसविमानं व्याख्यास्यामः ॥ च.वि.१.१॥
इति ह स्म आह भगवान् आत्रेयः॥ च.वि.१.२॥

अन्वयः-
अथ अतः (वयं) रसविमानं व्याख्यास्यामः ॥ च.वि.१.१॥
भगवान् आत्रेयः इति ह स्म आह ॥ च.वि.१.२॥

सरलार्थः-
निदानस्य ज्ञानाद् अनन्तरं दोषादीनां विशेषज्ञानम् अपेक्षितम् अतः रसस्य विमानं वयं वर्णयामः। च.वि.१.१,२

आयुर्वेददीपिका
निदाने ज्ञातहेतु-आदि-पञ्चकस्य चिकित्सोपयोगितया दोष-भेषजादि-विशेषज्ञानम् अपेक्षितं भवति, अतः वक्ष्यमाण-दोष-भेषजादि-विशेष-ज्ञापकं विमानस्थानं ब्रूते। तत्र अपि च दोष-भेषजयोः प्राधान्यात् तद्-शेष-ज्ञापकं रसविमानं प्रथमं ब्रूते। इमं च स्थानसम्बन्धं स्वयम् एव दर्शयिष्यति। विशेषेण मीयते ज्ञायते दोषभेषजादि अनेन इति विमानं, दोष-भेषजादीनां प्रभाव-आदि-विशेषः इति अर्थः; एवम्भूतं विमानम् अभिधेयतया यत्र तिष्ठति तद् विमानस्थानम्। रसविमानम् अधिकृत्य कृतः अध्यायः रसविमानम् ॥ च.वि.१.१-२॥

सुशीला पञ्जिका
राजशेखरस्य काव्यमीमांसाग्रन्थे द्वितीये शास्त्रनिर्देशनाम्नि अध्याये व्याख्यायाः नाना भेदाः उक्ताः। तत्र अन्यतमः भेदः पञ्जिका।तस्याः लक्षणं तेनोक्तम् -
विषमपदभञ्जिका पञ्जिका ।
तदनुसारम् अस्य अध्यायस्य पञ्जिका विरच्यते।अस्याः पञ्जिकाविषये इदमादौ निवेद्यते यत् -
१ मूलग्रन्थस्य अवबोधे साहाय्यम् इत्यस्याः व्याख्यायाः प्रयोजनम् इष्यते।
२ क्वचित् विषमत्वाभावेऽपि पदभञ्जनं कृतम्।
३ सर्वत्र चक्रपाणेः अङ्गुलिं धृत्वा एव पदं न्यस्तम्।
४ मूलसूत्रस्य पदच्छेदः, अन्वयः, सरलार्थः, आयुर्वेददीपिकायाः पदच्छेदः इति एते अंशाः पञ्जिकायां न समाविष्टाः।तथापि ते पञ्जिकायाः उपकारकाः अतः पञ्जिकाव्याख्यया सह एव संयोजिताः।
५ अस्यां पञ्जिकायां सन्धयः क्वचित् कृताः क्वचित् न कृताः।‘वाक्ये तु सा (संहिता) विवक्षाम् अपेक्षते’ इति वचनम् अनुसृत्य अयम् अनेकान्तः आश्रितः।
६ पदभञ्जनमेव अस्याः व्याख्यायाः विषयः।अतः व्याकरणसूत्राणाम् अनिवार्यतया, प्रचुरतया च प्रयोगः अत्र विद्यते।
७ व्याख्याकारः न वैयाकरणः।अतः पदे पदे प्रमादाः सम्भवन्ति।तेषां विशुद्ध्यर्थं वैयाकरणाः विनयेन प्रार्थ्यन्ते।
, ,रसविमानम् इति पदे वृत्तिद्वयं विद्यते। प्रथमा तावत् समासवृत्तिः।रसानां विमानं रसविमानम् इति षष्ठीसमासः।ततः तद्धितवृत्तिः अपि अत्र वर्तते। रसविमानम् अधिकृत्य कृतः अध्यायः इति रसविमानः अध्यायः , तम् अध्यायं व्याख्यास्यामः इति अन्वयः।
रसविमान- छ..... अधिकृत्य कृते ग्रन्थे। (अष्टाध्यायी ४.३.८७)
रसविमान – छ (प्रत्ययस्य लुक्)अध्यायानुवाकयोः लुक् च।---(अष्टाध्यायी ५.२.६०)
रसविमानः। च.वि.१.१-२

च.वि.१.०३ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका

"https://sa.wikibooks.org/w/index.php?title=च.वि.१.०१-०२&oldid=7147" इत्यस्माद् प्रतिप्राप्तम्