च.वि.१.०३
इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसङ्ख्याप्राधान्यविधिविकल्पबलकालविशेषाननुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमवहितमनसायथावज्ज्ञेयं भवति भिषजा, दोषादिमानज्ञानायत्तत्वात् क्रियायाः।न ह्यमानज्ञोदोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति।तस्माद्दोषादिमानज्ञानार्थं विमानस्थानमुपदेक्ष्यामोऽग्निवेश!॥ च.वि.१.३॥
पदच्छेदः-
इह खलु व्याधीनां निमित्त-पूर्वरूप-रूप-उपशय-सङ्ख्या-प्राधान्य-विधि-विकल्प-बल-काल-विशेषान् अनुप्रविश्य अनन्तरं दोष-भेषज-देश-काल-बल-शरीर-सार-आहार-सात्म्य-सत्त्व-प्रकृति-वयसां मानम् अवहितमनसा यथावत् ज्ञेयं भवति भिषजा, दोष-आदिमान-ज्ञान-आयत्तत्वात् क्रियायाः।न हि अमानज्ञः दोष-आदीनां भिषग् व्याधि-निग्रह-समर्थः भवति।तस्मात् दोष-आदि-मान-ज्ञानार्थं विमानस्थानम् उपदेक्ष्यामः अग्निवेश!॥ च.वि.१.३॥
अन्वयः-
इह खलु अवहितमनसा भिषजा
व्याधीनां निमित्त-पूर्वरूप-रूप-उपशय-सङ्ख्या-प्राधान्य-विधि-विकल्प-बल-काल-विशेषान् अनुप्रविश्य अनन्तरं दोष-भेषज-देश-काल-बल-शरीर-सार-आहार-सात्म्य-सत्त्व-प्रकृति-वयसां मानम् यथावत् ज्ञेयं भवति ,
दोष-आदिमान-ज्ञान-आयत्तत्वात् क्रियायाः।
हि दोष-आदीनाम् अमानज्ञः भिषग् व्याधि-निग्रह-समर्थः न भवति।
अग्निवेश! तस्मात् दोष-आदि-मान-ज्ञानार्थं विमानस्थानम् (वयम्) उपदेक्ष्यामः ॥ च.वि.१.३॥
सरलार्थः-
अस्मिन् शास्त्रे दक्षः वैद्यः प्रथमं व्याधीनां निमित्तानि, पूर्वरूपाणि, रूपाणि, उपशयाः, सङ्ख्या, प्राधान्यं, विधिः विकल्पः, वलं, कालः तथा एतेषां विशेषान् जानीयात्।ततः वैद्येन दोषः, भेषजं, देशः, कालः, बलं, शरीरं, सारः, आहारः, सात्म्यं, सत्त्वं, प्रकृतिः, वयः इति एतेषां मानं यथार्थरीत्या ज्ञातव्यम्।यतो हि चिकित्साक्रियार्थं दोषादीनां मानस्य ज्ञानम् अनिवार्यं भवति।वैद्यः यदि दोषादीनां मानं न जानाति, तर्हि सः व्याधिनाशाय समर्थः न भवति।हे अग्निवेश, एतस्मात् कारणात् दोषादिमानज्ञानार्थं वयम् इदानीं विमानस्थास्य उपदेशं कुर्मः॥ च.वि.१.३
आयुर्वेददीपिका-
इह खलु इत्यादिना स्थानसम्बन्धम् आह।इह सम्प्राप्ति-भेद-सङ्ख्या-प्राधान्य-आदि-ग्रहणेन एव सम्प्राप्तिम् उपदिशन् सङ्ख्या-आदि-भेदेन सर्वा एव सम्प्राप्तिः कथिता भवति इति दर्शयति। निमित्तादीनां तु न तादृशः भेदः अल्पग्रन्थ-वक्तव्यः अस्ति, येन भेदेन ते अपि इह कथ्येरन्, अतः ते सामान्येन एव उक्ताः। अनुप्रविश्य इति बुद्ध्वा।दोष-आदयः सूत्रस्थाने एव प्रपञ्चिताः। मानम् इति प्रभाव-आदि-विशेषः। एतद्-ज्ञाने हेतुम् आह- दोषादि इत्यादि। क्रियायाः इति चिकित्सायाः॥ च.वि.१.३॥
सुशीला पञ्जिका –
अवहितमनसा इति ।समासः अयम्। तस्य द्विधा विग्रहः सम्भवति। अवहितं मनः यस्य सः अवहितमनाः भिषक् इति बहुव्रीहिः।‘अवहितमनसा भिषजा दोषादीनां मानं ज्ञेयम्’ इति अन्वयः।अस्मिन् विग्रहे अवहितमनसा इति भिषजः विशेषणं भवति।
अवहितं मनः अवहितमनः इति कर्मधारयः अपि सम्भवति।तदा ‘भिषजा अवहितमनसा मानं ज्ञेयम्’ इति अन्वयः भवति। अवहितमनसा इति अत्र ‘प्रकृत्यादिभ्यः उपसङ्ख्यानम्’ इति वार्तिकेन तृतीया।
निमित्तपूर्वरूपरूपोपशयसङ्ख्या-प्राधान्यविधिविकल्पबलकालविशेषाः इति। निमित्तं च पूर्वरूपं च रूपं च उपशयः च सङ्ख्या च प्राधान्यं च विधिः च विकल्पः च बलं च कालः च निमित्तपूर्वरूपरूपोपशयसङ्ख्याप्राधान्यविधिविकल्प-बलकालाः इति द्वन्द्वः।एतेषां निमित्तादीनां विशेषाः निमित्तपूर्वरूपरूपोपशयसङ्ख्या-प्राधान्यविधिविकल्पबलकालविशेषाः इति षष्ठीसमासः।
ननु निमित्तशब्दस्य अपेक्षया रूपशब्दे स्वरसङ्ख्या न्यूना अस्ति।अतः
अल्पाच्तरम् ।(अष्टा.२.२.३४)
इति सूत्रेण द्वन्द्वे रूपशब्दस्य पूर्वनिपातःउचितः। अत्र तु निमित्तशब्दस्य पूर्वनिपातः इति कथम्?
उच्यते।
द्वयोरेव नियमः, बहुषु अनियमः
इति महाभाष्यवचनाद् निमित्तशब्दस्य पूर्वनिपातः न दोषाय।
दोष-भेषज-देश-काल-बल-शरीर-सार-आहार-सात्म्य-सत्त्व-प्रकृति-वयांसि इति। दोषः च भेषजं च देशः च कालः च बलं च शरीरं सारः च आहारः च सात्म्यं च सत्त्वं च प्रकृतिः च वयः च दोष-भेषज-देश-काल-बल-शरीर-सार-आहार-सात्म्य-सत्त्व-प्रकृति-वयांसि इति द्वन्द्वः।दोषादीनां मानम् इति अन्वयः।
दोष-आदिमान-ज्ञान-आयत्तत्वात् इति। दोषादीनां मानं दोषादिमानम्। दोषादिमानस्य ज्ञानं दोषादिमानज्ञानम्।आयत्तत्वम् अधीनत्वम्।
विभाषा गुणेऽस्त्रियाम् (अष्टा.२.३.२५)
इति पञ्चमीप्रत्ययः हेत्वर्थकः । ‘चिकित्साक्रिया दोषादिमानज्ञानस्य अधीना अस्ति इति एतस्मात् हेतोः’ इति अर्थः।
अमानज्ञः इति।जानाति इति ज्ञः।मानस्य ज्ञः मानज्ञः।न मानज्ञः अमानज्ञः।दोषादीनां मानं यः न जानाति सः वैद्यः इत्यर्थः।
व्याधि-निग्रह-समर्थः इति।व्याधेः निग्रहः व्याधिनिग्रहः।व्याधिनिग्रहे समर्थः व्याधिनिग्रहसमर्थः।
दोष-आदि-मान-ज्ञानार्थम् इति।अर्थः प्रयोजनम्।दोषादिमानज्ञानम् अर्थः प्रयोजनं यस्य तद् दोषादिमानज्ञानप्रयोजनार्थम्।विमानस्थानम् इति पदस्य विशेषणम् इदम्।अथवा
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः।(अष्टा.२.१.३६)
इति चतुर्थीतत्पुरुषः।दोषादिमानज्ञानाय इदमिति विग्रहः।अत्रापि स एवार्थः। च.वि.१.३
च.वि.१.०१-०२ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.०४