च.वि.१.१०
न त्वेवं खलु सर्वत्र।न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्॥ च.वि.१.१०॥
पदच्छेदः-
न तु खलु एवं सर्वत्र ।न हि विकृति-विषम-समवेतानां नाना-आत्मकानां परस्परेण च उपहतानाम् अन्यैः च विकल्पनैः विकल्पितानाम् अवयव-प्रभाव-अनुमानेन एव समुदाय-प्रभाव-तत्त्वम् अध्यवसातुं शक्यम्॥ च.वि.१.१०॥
अन्वयः-
तु एवं खलु सर्वत्र न । हि विकृति-विषम-समवेतानां नाना-आत्मकानां परस्परेण च उपहतानाम् अन्यैः च विकल्पनैः विकल्पितानाम् अवयव-प्रभाव-अनुमानेन एव समुदाय-प्रभाव-तत्त्वम् अध्यवसातुं न शक्यम्॥ च.वि.१.१०॥
सरलार्थः-
परन्तु एवं सर्वत्र न सम्भवति।यतो हि ये समुदायाः विकृतिविषमसमवेताः, नानास्वरूपाः, घटकगुणैः परस्परम् उपहताः, तथा अन्यैः भेदकैः भिन्नाः तेषाः समुदायानां प्रभावः अवयवप्रभावात् अनुमातुं न शक्यः। च.वि.१.१०
आयुर्वेददीपिका-
अयं च रसदोषप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयः न सर्वत्र द्रव्ये विकारे च इति आह न त्वेवं खलु सर्वत्र इति। अत्र एव हेतुम् आह न हि इत्यादिना अध्यवसातुं शक्यम् इत्यन्तेन। विकृतिविषमसमवेतानाम् इति विकृतिसमवेतानां तथा विषम-समवेतानां च इति विकृतिविषमसमवेतानाम्। समवेतानाम् इति मिलितानां रसानां दोषाणां च। तत्र रसस्य विकृतिसमवायः यथा मधुरे तण्डुलीयके; मधुरः हि प्रकृत्या स्नेहवृष्यत्व-आदिकरः, तण्डुलीयके तु विकृतिसमवेतत्वेन तद् न करोति। विषमसमवेताः तु तिले कषायकटुतिक्तमधुराः; यदि हि इमे रसाः समया मात्रया समवेताः स्युः ततः तिलः अपि पित्तश्लेष्महरः त्रिदोषहरः वा स्यात्, पित्तकफकरः तु अयं; तेन अत्र रसानां क्वचित् कर्तृत्वम् अकर्तृत्वं च क्वचिद् इति वैषम्यम् उन्नीयते। नानात्मकानाम् इत्यादिहेतुत्रयं तु विकृतिसमवाय-विषमसमवाययोः एव उपलम्भकम् तेन, नानात्मकत्व-आदिभिः विकृतिसमवाय-विषमसमवायौ भवतः। नानात्मकानाम् इति नानारूपहेतु-जनितानां ; तेन हेतुभेदबलाद् एव रसदोषयोः विकृतः विषमः वा मेलकः भवति इति अर्थः। किंवा, नानात्मकानाम् इति नानाप्रमाणानाम्।एवं च नाना-प्रमाणत्वं विषमसमवाये हेतुः। परस्परेण च उपहतानाम् इति अन्योन्यम् उपघातित -गुणानाम्। परस्परगुण-उपघातः तु यद्यपि दोषाणां प्रायः नास्ति एव,तथा अपि अदृष्टवशात् क्वचिद् भवति इति ज्ञेयं; रसानां तु प्रबलेन अन्य-उपघातः भवति एव। अन्यैः च विकल्पनैः इति अन्यैः च भेदकैः, तत्र रसस्य भेदकाः स्वरसकल्कादयः; एकस्य एव हि द्रव्यस्य कल्पनाविशेषेण गुणान्तराणि भवन्ति। दोषस्य तु दूष्यान्तराणि एव गुणान्तरयोगाद् भेदकानि भवन्ति। यद् उक्तं “स एव कुपितो दोषः समुत्थानविशेषतः।स्थानान्तरगतश्चैव विकारान् कुरुते बहून्” (सू.अ.१८ इति) अस्मिन् व्याख्याने रसानां दोषाणां च यः उत्कर्ष-अपकर्षकृतः विषमसमवायः पृथग् उच्यते, सः न युज्यते; यतः विषमसमवाये अपि उत्कृष्टस्य रसस्य तथा दोषस्य च उत्कृष्टाः गुणाः अपकृष्टस्य च अपकृष्टाः गुणाः भवन्ति इति कृत्वा अवयवप्रभाव-अनुमानेन एव समुदायप्रभाव-अनुमानं शक्यम्। अथ उच्येत विषममेलके रसस्य दोषस्य च न ते एव गुणाः उत्कृष्टाः अपकृष्टाः वा भवन्ति किन्तु गुणान्तरम् एव भवति, हन्त तर्हि विकृतः एव अयं समवायः विसदृशकार्यकारणत्वात्। तद् एवं दूषणदर्शनाद् अन्यथा व्याख्यायते यत् द्विविधः मेलकः भवति रसानां दोषाणां च प्रकृति-अनुगुणः, प्रकृति-अननुगुणः च; तत्र यः मिलितानां प्राकृतगुण-अनुपमर्देन मेलको भवति, स प्रकृतिसमसमवायशब्देन उच्यते; यः तु प्राकृतगुण-उपमर्देन भवति, सः विकृतिविषमसमवायः अभिधीयते; विकृत्या हेतुभूतया विषमः प्रकृति-अननुगुणः समवायः विकृतिविषमसमवायः इति अर्थः। अत्र एव विकृतिविषम-समवाये नानात्मकत्वादि-हेतुत्रयं यथाविवृतम् एव योजनीयम्। ये तु विकृतिविषम-समवायौ पृथग् एव कुर्वन्ति, विषमसमवायस्य वैषम्यतारतम्येन अतिबहु-प्रपञ्चितत्वाद् विषमावयवगुणानुमानं दुःशकम् इति कृत्वा, तद् अपि द्रव्यविकार-प्रभावेण एव व्यपदिशन्ति॥ च.वि.१.१०
सुशीला पञ्जिका-
विकृतिविषमसमवेतानाम् इति।अस्य सूत्रस्य द्विधा व्याख्यानं चक्रपाणिना कृतम्।प्रथमं व्याख्यानं पूर्वपक्ष-स्थानीयम् अस्ति।द्वितीयं व्याख्यानं तस्य अभिमतम् अस्ति।
तदनुगुणं विकृतिविषमसमवेतानाम् इति अस्य पदस्य द्विधा भञ्जनं चक्रपाणिना दर्शितम्।विकृतिः च विषमं च विकृतिविषमे।द्वन्द्वसमासः अयम्।समवेतपदं द्वन्द्वान्ते विद्यते।अतः
द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं सम्बध्यते
इति न्यायेन समवेतशब्दस्य विकृतिशब्देन सह विषमशब्देन सह चान्वयः भवति। ततः विकृतिसमवेताः विषमसमवेताः इति द्वौ भेदौ ज्ञायेते।समवेतः इति मेलकः। विकृतिरूपः मेलकः इति एकः भेदः।विषमः मेलकः इति द्वितीयः भेदः।
सूत्रस्य यत् प्रथमं व्याख्यानं चक्रपाणिना कृतं तत्र ‘विकृतिविषमसमवेतानाम्’ इति पदस्य एषः अर्थः गृहीतः।
सूत्रस्य द्वितीये व्याख्याने विकृतिविषमसमवेतानाम् इति पदस्य भञ्जनं चक्रपाणिना भिन्नरीत्या कृतम्।
‘विकृत्या हेतुभूतया विषमः प्रकृति-अननुगुणः समवायः विकृतिविषमसमवायः’ इति।
अस्मिन् विग्रहे विकृत्या विषमः विकृतिविषमः इति तृतीयातत्पुरुषः। विकृतिविषमः च अयं समवायः विकृतिविषमसमवायः इति कर्मधारयः। विकृतिविषमसमवेतानाम् इति विशेषणं द्रव्याणामपि विकाराणामपि।
नानात्मकानामिति।एतदपि विशेषणं द्रव्याणां विकाराणां च।नाना आत्मानः येषां ते नानात्मकाः।आत्मा अत्र स्वरूपार्थकः शब्दः।
अवयवप्रभावानुमानमिति।अवयवानां प्रभावः अवयवप्रभावः।अवयवप्रभावेण अनुमानम् अवयवप्रभावानुमानम्।
समुदायप्रभावतत्त्वमिति।समुदायस्य प्रभावः समुदायप्रभावः।समुदायप्रभावस्य तत्त्वं समुदायप्रभावतत्त्वम्। च.वि.१.१०
च.वि.१.०९ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.११