च.वि.१.११

विकिपुस्तकानि तः
Jump to navigation Jump to search

तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत्॥ च.वि.१.११॥

पदच्छेदः-
तथायुक्ते हि समुदये समुदाय-प्रभाव-तत्त्वम् एवम् एव उपलभ्य ततः द्रव्य-विकार-प्रभाव-तत्त्वं व्यवस्येत्॥ च.वि.१.११॥

अन्वयः-
तथायुक्ते हि समुदये समुदाय-प्रभाव-तत्त्वम् एवम् एव उपलभ्य ततः द्रव्य-विकार-प्रभाव-तत्त्वं व्यवस्येत्॥ च.वि.१.११॥

सरलार्थः-
समवायः विकृतिविषमसमवेतः अस्ति चेत् तादृशे समुदये समुदायस्य प्रभावस्य यत् तत्त्वं तद् ज्ञातव्यम्।ततः द्रव्यस्य वा विकारस्य वा प्रभावतत्त्वं निश्चितं करणीयम्। च.वि.१.११

आयुर्वेददीपिका-
अथ कथं तर्हि विकृतिविषमसमवाय-प्रभाव-ज्ञानम् इति आह तथायुक्ते हीत्यादि। तथायुक्ते समुदये इति विकृतिविषमसमवाये। समुदयप्रभावतत्त्वम् इति मेलकप्रभाव-तत्त्वम्। समधृते हि मधुसर्पिषि सूर्यावर्त-आख्ये वादोषसमुदये न संयुज्यमानमधुघृत-गुणक्रम-आगतं मारकत्वं, न च वातादिदोषप्रभावगतं सूर्यवृद्ध्या वर्धिष्णुत्वं सूर्यावर्तस्य, किं तु संयोगमहिमकृतम् एव इति अर्थः। यत् च गतिद्वयं दोषरस-मेलकस्य, तेन प्रकृतिसमसमवायरूपं सन्निपातं ज्वरनिदाने दोषलिङ्गमेलकेन एव उक्तवान्। यदुक्तं-“पृथगुक्तलक्षणसंसर्गाद् द्वान्द्विकमन्यतमं सान्निपातिकं वा ज्वरं विद्यात्” (नि.१) इति यस्तु विकृतिविषमसमवेतः त्रिदोषकृतः ज्वरः तस्य चिकित्सिते “क्षणे दाहः क्षणे शीतं” (चि.अ.३)इत्यादिना लक्षणम् उक्तम्। न हि श्यावरक्तकोठ-उत्पत्ति-आदि तत्र उक्तं वातादिज्वरे क्वचिद् अस्ति। एवं रसे अपि यत्र आम्राते मधुरत्वं प्रकृतिसमसमवेतं, तत्र आम्रातं मधुरम् एतन्मात्रम् एव उक्तं; तेन, मधुरसामान्यगुणागतं तस्य वातपित्तहरत्वम् अपि लभ्यत एव। यत्र वार्ताके कटुतिक्तत्वेन वातकरत्वं प्राप्तम् अपि च विकृतिविषमसमवायात् तद् न भवति, तत्र आचार्येण “वार्ताकं वातघ्नं”(सू.अ.२७) इति उक्तम् एव। एवम् इत्यादि तत् तद् उदाहरणं शास्त्रप्रसृतम् अनुसरणीयम्। त् तु प्रकृतिसमसमवायकृतरसदोषगुण-द्वारा प्राप्तम् अपि द्रव्यगुणं विकारलक्षणं च ब्रूते, तत् प्रकर्षार्थं स्पष्टार्थं च इति ज्ञेयम्॥ च.वि.१.११॥

सुशीला पञ्जिका-
द्रव्यविकारप्रभावतत्त्वमिति।द्रव्यं च विकारः च द्रव्यविकारौ।द्रव्यविकारयोः प्रभावः द्रव्यविकारप्रभावः।द्रव्यविकारप्रभावस्य तत्त्वं द्रव्यविकारप्रभावतत्त्वम्। तत्त्वम् इति स्वरूपम्।द्रव्यप्रभावस्य स्वरूपं तथा विकारप्रभावस्य स्वरूपम् इति अर्थः। च.वि.१.११

च.वि.१.१०        चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका       च.वि.१.१२
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.११&oldid=6431" इत्यस्माद् प्रतिप्राप्तम्